| YouTube Channel

और्व्वशेयः (aurvvazeyaH)

 
शब्दकल्पद्रुमः
Sanskrit
और्व्वशेयः, पु, (उर्व्वश्याः अपत्यम् उर्व्वशी + ढक् ।)अगस्त्यमुनिः इति हेमचन्द्रः
(अस्य जन्मकथा पुराणेषूक्ता यथा, “तयोरादित्ययोः सत्रे दृष्ट्वापसरसमुर्व्वशीम् ।रेतश्चस्कन्द तत् कुम्भे न्यपतद्वाशतीवरे
तेनैव तु मुहूर्त्तेन वीर्य्यवन्तौ तपस्विनौ ।अगस्त्यश्च वशिष्ठश्च द्वावृषी संबभूवतुः”
उर्व्वशीगर्भजाताः पुरूरवसः सप्त पुत्राः ।तत्कथा हरिवंशे २५ अध्याये द्रष्टव्या
)