| YouTube Channel

और्व्वः (aurvvaH)

 
शब्दकल्पद्रुमः
Sanskrit
और्व्वः,
पुं,
(और्व्वात् भृगुवंशीयात् ऋषेर्जातः और्व्व+ अण् और्व्वर्षिक्रोधजत्वात्तथात्वम् ।) वाड-वानलः इत्यमरः
तु भूगोलस्य दक्षिण-सीमा तत्र सर्व्वे नरकाः दैत्याश्च वसन्ति इतिसिद्धान्तशिरोमणिः
स्वनामख्यातो भृगुवंशीय-ऋषिभेदः तज्जन्मादिकथा, महाभारते चैत्ररथ-पर्ब्बणि १७९ अध्याये उक्ता यथा, --“ततो भहीतलं तात क्षत्रियेण यदृच्छया ।खनताधिगतं वित्तं केनचिद्भृगुवेश्मनि
तद्वित्तं ददृशुः सर्व्वे समेताः क्षत्रियर्षभाः ।अवमन्य ततः क्रोधाद्भृगंस्ताश्छरणागतान्
निजर्घ्नः परमेष्वासाः सर्व्वांस्तान्निशितैः शरैः ।आगर्भादवकृन्तन्तश्चेरुः सर्व्वां वन्धसुराम्
तत उच्छिद्यमानेषु भृगुष्वेवं भयात्तदा ।भृगुपत्न्यो गिरिं दुर्गं हिमवन्तं प्रपेदिरे
तासामन्यतमा गर्भं भयाद्दध्रे महौजसम् ।ऊरुणैकेन वामोरुर्भर्त्तुः कुलविवृद्धये
तद्गर्भमुपलभ्याशु ब्राह्मणी या भयार्द्दिता ।गत्वैका कथयामास क्षत्रियाणामुपह्वरे
ततस्ते क्षत्रिया जग्मुस्तं गर्भं हन्तुमुद्यताः ।ददृशुर्ब्राह्मणीं तेऽथ दीप्यमानां स्वतेजसा”
“अथ गर्भः भित्त्वोरु ब्राह्मण्या निर्जगाम ।मुष्णन् दृष्टीः क्षत्रियानां मध्याह्नैव भास्करः
ततश्चक्षुर्विहीनास्ते गिरिदुर्गेषु बभ्रमुः”
अयमौर्व्वस्तु पितृबधामषात् क्षत्रियबधे कृत-प्रतिज्ञ उग्रे तपसि वर्त्तमानः पितृभिर्निवारितः ।ततो वृथाप्रतिज्ञो नाहं भवितुमुत्सहे इतिजातशङ्कः अमोघत्वाच्च क्रोधवह्वेः पितॄनुक्तवान् ।यथा तत्रैव १८१ अध्याये ।“यश्चायं मन्युजो मेऽग्निर्लोकानादातुमिच्छति ।दहेदेष मामेव निगृहीतः स्वतेजसा
भबताञ्च विजानामि सर्व्वलोकहितेप्सुताम् ।तस्माद्विधध्वं यच्छ्रेयो लोकानां मम चेश्वराः
पितर ऊचुः ।य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति ।अप्सु तं मुञ्च भद्रन्ते लोका ह्यप्सु प्रतिष्ठिताः
आपोमयाः सर्व्वरसाः सर्व्वमापोमयं जगत् ।तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम
अयं तिष्ठतु ते विप्र यदिच्छसि महोदधौ
मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमयाः स्मृताः
एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति ।नचैवं समरा लोका गमिष्यन्ति पराभवम्
वशिष्ठ उवाच ।ततश्च क्रोधजं तात और्व्वोऽग्निं वरुणालये ।उत्ससर्ज्ज चैवाप उपयुङ्क्ते महोदधौ
महद्धयशिरो भूत्वा यत्तद्वेदविदो विदुः”
)(उर्व्वस्यापत्यम् ।) पञ्चप्रवरान्तर्गतमुनिविशेषः ।इति पुराणम्