| YouTube Channel

और्द्ध्वदेहिकं (aurddhvadehikaM)

 
शब्दकल्पद्रुमः
Sanskrit
और्द्ध्वदेहिकं, त्रि, (ऊर्द्ध्वदेहाय भवम् ऊर्द्ध्वदेह +ठञ् ।) मृतार्थं तदहर्दानम् इत्यमरः
यदह्निमृतस्तदहःप्रभृति सपिण्डीकरणात् पूर्व्वं प्रेत-तृप्तिहेतुकं यत् पिण्डादिदानं तत् इति भरतः
(पुत्त्रदाराद्यवश्यभर्त्तव्यपीडनेन यत्पारलौकिक-धर्म्मबुद्ध्या दानादि करोति तस्य दातुर्जीवतोमृतस्य तद्दानं दुःखफलं भवति ।यथा मनुः ११ १० ।“वृत्यानामुपरोधेन यत्करोत्यौर्द्ध्वदेहिकम् ।तद्भवत्यसुखोदर्कं जीवतश्च मृतस्य च”
तथा रामायणे ७७ ।“दासीर्दासांश्च यानानि वेश्मानि सुमहान्ति ।ब्राह्मणेभ्यो ददौ पुत्रो राज्ञस्तस्यौर्द्ध्वदेहिकम्”
(और्द्ध्वदैहिकम् इत्यपि स्यात्
)