औपासन (aupAsana)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte
Englishऔपासन [aupāsana], (-नी ) [उपासन-अण्]
Ralating to गृह्याग्नि or household fire.
Belonging to worship or service
holy, sacred.
नः A fire used for domestic worship.
A small rice-ball (पिण्ड) offered to the manes.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishApte Hindi
Hindiऔपासन
वि* - उपासन-अण्
गृह्याग्नि से संबंध रखने वाला
औपासनः
- उपासन-अण्
"गार्ह्यस्थ्य पूजा के लिये प्रयुक्त अग्नि, गृह्याग्नि"
Shabdartha Kaustubha
Kannadaऔपासन
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಗೃಹಸ್ಥನು ಪ್ರಾತಃಕಾಲ ಮತ್ತು ಸಾಯಂಕಾಲಗಳಲ್ಲಿ ಹೋಮಕ್ಕಾಗಿ ಉಪಯೋಗಿಸುವ ಅಗ್ನಿ
निष्पत्तिः - > स्वार्थे "अण्" (५-४-३८)
व्युत्पत्तिः - > उपास्यते प्रतिदिनमित्युपासनोऽग्निः
औपासन
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಗೃಹ್ಯಾಗ್ನಿಯಲ್ಲಿ ಪ್ರಾತಃಕಾಲ ಮತ್ತು ಸಾಯಂಕಾಲಗಳಲ್ಲಿ ಮಾಡುವ ಹೋಮ /ಅಗ್ನಿಕಾರ್ಯ
औपासन
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಹವಿಸ್ಸು /ದೇವತೆಗಳಿಗೆ ಅರ್ಪಿಸುವ ಹೋಮದ್ರವ್ಯ
औपासन
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಔಪಾಸನಾಗ್ನಿಗೆ ಸಂಬಂಧಿಸಿದ
औपासन
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಅಗ್ನಿಕಾರ್ಯಕ್ಕೆ ಸಂಬಂಧಿಸಿದ
प्रयोगाः - > "वैतानौपासनाः कार्याः क्रियाश्च श्रुतिचोदनात्"
उल्लेखाः - > याज्ञ० ३-१७
L R Vaidya
Englishवाचस्पत्यम्
Sanskritऔपासन उपास्यते प्रतिदिनमित्युपासनो गृह्यो-ऽग्निस्तत्र भवः अण् । गृह्याग्नौ कर्त्तव्ये सायंप्रात-र्होमादौ कर्म्मणि । गृह्याग्निश्च विवाहाग्निः ।तत्र कर्त्तव्यं दर्शितं “नौपासनश्रुतेः” कात्या ०१, १, २, “यदुक्तम् वैतानिकेष्वेवाग्निषुश्रौतं स्मार्तं च कर्त्तव्यमितितन्न कुतः? औपासनश्रुतेः यत आहिताग्नेरप्यौपासनःश्रूयते पितृमेधे “अद्वारेणौपासनं निरस्यतीति” यदि स्मार्त-मपि वैतानिकेष्वेव क्रियते तदा आहिताग्नेः पितृमेधेऔपासनदर्शनं न स्यात् अस्ति च । तस्मात् स्मार्त्तान्यौपा-सने कर्त्तव्यानीति तथा च स्मृतिः स्मार्त्तं कर्म्म विवाहाग्नौकुर्व्वीत प्रत्यहं गृही । दायकालाहृते वापि श्रौतं वैतानि-काग्निष्विति” । “तस्मिन् गृह्याणीत्यापस्तम्बस्मरणाच्च” ।गृहाय हितं गृह्यम् गृहशब्दश्च दम्पत्योर्वर्त्तते तस्मि-न्नित्यावसथ्ये । अतश्च यत्किञ्चिद्दम्पत्योर्हितं कर्म शान्तिकपौष्टिक व्रताङ्गहोमादिकं स्मार्त्तं तत् सर्वमावसथ्येऽग्नौभवतीति । तथा च खादिरगृह्यसूत्रकारिकायाम् “हो-मानात्मार्थपत्न्यर्थान् कृत्स्नानौपासने न च । परार्थाने-कदेशेऽग्नौ स चान्ते लौकिको भवेत्” अत एव कात्यायनः(कर्मप्रदापे) “न स्वेऽग्नावन्यहोमः स्यान्मुक्त्वैकां समिदाहु-तिम् । स्वकर्म्म सत्क्रियार्थश्च यावन्नासौ प्रजायते । अग्नि-स्तु नामघेयादौ होमे सर्व्वत्र लौकिकः । न हि पित्रासमानीत पुत्रस्य भवति क्वचित्” । अतश्च सीमन्तोन्नयनमपिस्मार्ताग्नावेव कार्य्यम् । अपिच आधानेनोत्पादितानांगार्हपत्यादीनामग्नीनाम् प्रयोजनापेक्षायां सत्यां “गार्हपत्येहर्वीषि श्रपयत्याहवनीये जुहोति दक्षिणाग्नावन्वाहार्य्यंपवतीति” प्रत्यक्षवचननिर्द्दिष्टैरेव प्रयोजनैर्निराक ङ्क्षाणाम्न सामर्थ्यमात्रेणोक्तादन्यत्र विनियोगः कल्पयितुं शक्यते” ।तस्मात् स्मार्तान्यौपासन एव कार्य्याणि इति” कर्कः ।विधानपा० तस्यारम्भकालादि निरूपितं यथा गृह्यपरि-शिष्टे “अथ नित्यौपासनं तस्य सतयमारम्भं” इति ।शौनकोऽपि यस्मिन्नह्नि विवाहः स्यात्सायमारभ्य तस्यतु । परिचर्य्यां विवाहाग्नेर्विदधीत स्वयं द्विजः । यदिरात्रौ विवाहाग्निरुत्पन्नः स्यात्तथा सति । उपक्रमोत्तरस्याह्नः सायं परिचरेदमुमिति” । इदमपि नवनाड्यतिक्रमे-दृष्टव्यम् । तथा चापस्तम्बसूत्रे भाष्यकृत्सुदर्शनाचार्य्यः ।“अस्यचारम्भणं रात्रावेव यदि नव नाड्योनातीताः ।अतीताश्चेत् परेद्युः सायमेवाग्निहोत्रबेलायामारम्भइति” । अन्यत्रापि । “प्रातर्होमे सङ्गवान्तः कालस्त्वनु-दिते ऽथ वा । सायमस्तमिते होमः कालस्तु नवनाडि-केति” । अत्रानुदितहोमकालस्तु वाजसनेयिनां वेदितव्यः ।तथा च कात्यायनसूत्रम् । “औपासनस्य परिचरणमस्त-मितानुदितयोरिति” । तेषामौपासनसमारम्भोऽपि चतु-र्थीहोमानन्तरमाहितेऽग्नौ भवति न तु विवाहाग्नौ “आव-सथ्याधानं दारकाले दायाद्यकाले वेति” कात्यायनसूत्रात्तद्भाष्यमपि । “दारकालश्चतुर्थ्युत्तरकालः । दायाद्यकालो-धनविभागकाल इति” औपासनात्पूर्व्वं यदि विवा-हाग्निः शाम्येत तदा प्रायश्चितमुक्तं विश्वादर्शे “उद्वा-हौपासनात् पूर्व्वमनले शान्तिमागते । स्थालीपाकं ततःकृत्वा ह्यौपासनमथाचरेत् । नवनाडीभ्य ऊर्द्द्वं चेत्स्थाली-पाकोभवेत्तु वै । औपासने तदा कुर्य्यात् परेद्युः सायमेव-चेति” । तस्य प्रादुष्करणकाल उक्तः आश्वलायनसूत्रे“तस्याग्निहीत्रेण प्रादुष्करणहोममकालौ व्याख्याताविति”तत्कारिकायामपि । “ज्वालयेदपराह्णेऽग्निमस्तं याते दि-वाकरे । पर्य्युह्याग्निं परिस्तीर्य्य पर्य्युक्ष्य च ततः पर-मिति” । स्पष्टमाह कात्यायनः । “सूर्य्ये तु शैलमप्राप्तेषड्विंशद्भिरिहाङ्गुलैः । पादुष्करणमग्नीनां प्रातरासोम-दर्शनम्” । तथा “दुहित्रा स्तुषया वाग्निविंहारो नविरुध्यते । निलेपनं च पात्राणामुपलेपनमेव चेति” ।उक्तकाले प्रादुष्करणाभावे प्रायश्चित्त मुक्तम् आश्वलायनकारिकायाम् । “प्रायश्चित्तं विशेषेण यत्र नोक्तंभवेद्बिधिः । होतव्याज्याहुतिस्तत्र भूर्भुवःस्वरितीतिचेति” । कात्यायनः अनुदितास्तमयलक्षणमाह ।“रात्रेस्तु षोडशे भागे ग्रहक्षनत्रभूषिते । कालं त्वनु-दितं ज्ञात्वा तत्र होमं प्रकल्पयेत्” । तथा “यावत्सम्यङ्ग-भासन्ते नभस्यृक्षाणि सर्वतः । न च लौहित्यमायातितावत्सायं तु हूयते” । अत्राश्वलायनादीनां होमे मुख्य-कालमाह चन्द्रिकायामत्रिः “हस्तादूर्द्ध्वं रविर्यावद्भूभिं-हित्वा न गच्छति । तावद्धोमविधिः पुण्योनान्योऽभ्युदित-होमिनाम् । रात्रौ प्रदोषो मुख्यःस्यादिति वेदविदो विदु-रिति” । अत्र गौणकालमाह शौनकः “पश्चादस्तमया-त्कालोयोभवेत्त्रिमूहूर्त्तकः । स सायंहोमकालःस्यात् प्रदो-षान्त उदाहृतः । यस्तु षड्नाडिकाकालः पश्चादेवोदया-द्रवेः । स होमकालो विप्राणां सङ्गवान्त इति स्मृत” इति ।यदि गौणकालोऽप्यतोतस्तदा गृह्यपरिशिष्टेप्रायश्चित्तमुक्तम्“नित्यहोममतीत्य मनस्वत्या चतुर्गृहीतं जुहुयात्द्वादशूरात्रादूर्द्ध्वं पुनराधानमिति” । केचित्तुप्रायश्चित्तंकृत्वा प्रातर्होमकालात् पूर्व्वं सायंहोमः कार्य्यः सायंहोमात्पूर्व्वं प्रातर्होमः कार्य्यैत्याहुः “आसायकर्मणःपातराप्रातः सायकर्म्मणः । आहुतिं नातिपद्येत पार्वणंपार्वणान्तरादिति” बौधायनस्मृतेरिति । अस्याग्निहोत्र-वद् विधानं प्रदर्शितं शौनकेन । “अग्निहीत्रवदि-त्यतेच्छौनकेन प्रपञ्चितम् । पुनः पर्य्युक्ष्य चाङ्गारानुदगग्नेरपोह्य च । हौम्यानां द्वादशानां तु पक्वमेते-ष्टधिंश्रयेत् । पयोयवागूः सर्पिश्च ओदनं दधि तुण्डलाः । सोमस्तैलमपो व्रीहिर्द्वादशैते तिलायवाः । पयआदीनि चचारि विदुः पक्वानि याज्ञिकाः । दध्यादीनाम-पक्वानामधिश्रयणमिष्यते । उल्मुकेनैव ज्वलयेदपक्वंपक्वमेव च । अधिश्रिते स्नुवेणापः परिषिञ्चेन्नवाधि-काः । पुनस्त्रिर्ज्वलता तेन परिव्युह्य प्रहृत्य तत् । उद-र्क्कषं त्रिधोद्वास्याप्यङ्गारानतिसृज्य च । अग्नेःपश्चात्तृणेष्वेव निधाय समिधा सह । त्रिवारमेकं संस्कृत्य गृहीत्वासायमग्नये (तेषां द्वादशद्रव्याणां मध्वे एकं द्रव्यमित्यर्थः) ।स्वाहेति मन्त्रमुद्दार्य्य कुर्व्वीत प्रथमप्राहुतिम्! प्रातर्होमेतु सूर्य्याय स्वाहेति प्रथमाहुतिम् । तूष्णीं प्रजापतिंध्यायन्नुभयत्र द्वितीयिकामिति” । अत्रान्योविशेषः स्वशा-खोक्तोऽवगन्तव्यः । होमस्थानं स्मृत्यर्थसारे “बहुशुष्केन्धनेनाग्नो सुसमिद्धे हुताशने । अङ्गारे लेलिहाने च हो-तव्यं नान्यथा क्वचित् । योऽनर्चिषि जुहोत्यग्नौ व्यङ्गारेचैव मानवः । मन्दाग्निरामयावीच दरिद्रश्चोपजायते ।अग्निः प्रदक्षिणावर्त्तः शर्मदश्च शुवावहः” इति । अग्न्युप-स्थानमन्त्रानाह शौनकः “परिसमुह्य च पर्य्युक्ष्याप्यु-पतिष्ठेद्धविर्भुजम् । अग्नेः सूक्तैश्च सौरैश्च प्राजापत्यैश्च-नित्यशः” याज्ञ० । हुत्वाग्नीन् सूर्यदेवत्यान् जपेन्मन्त्रान्समाहितः” एतद्धोमं प्रशंसत्यङ्गिराः “यद्दद्यात्काञ्चनंमरुं पृथिवीं च ससागराम् । तत्सायं प्रातर्होमस्य तुल्यंभवति वा नवेति” । अन्यत्रापि “नाग्निहोत्रात्परोधर्म्मोनाग्निहोत्रात्परं तपः । नग्निहोत्रात्परं स्नानं नाग्नि-होत्रात्परा गतिरिति” अकरणे प्रत्यवायमाह गर्नः “कृत-दारोन तिष्ठेत क्षणमप्यग्निना विना । तिष्ठेत चेहिजोव्रात्य-स्तथा च पतितो भवेत् । यथा स्नानं यथा सन्ध्या वेद-स्याध्ययनं यथा । तयैवौपासनं कार्य्यं न स्थितिस्तद्वि-योगतः । यो हि हित्वा विवाहाग्निं गृहस्थ इति म-न्यते । अन्नं तस्य न भोक्तव्यं वृथापाकोहि स स्मृतः ।वृथापाकस्य भुञ्जानः प्रायश्चित्तं समाचरेत । प्राणा-यामशतं कृत्वा घृतं प्राश्य विशुध्यतीति” ।तस्याशौचेऽपि कर्त्तव्यतामाह याज्ञ० । “वैतानौपासनाःकार्य्याः क्रियाश्च श्रुतिनोदनात्” । ङीबभाव आर्षःलोके तु औपासनीत्येव
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
