| YouTube Channel

औपसर्गिकः (aupasargikaH)

 
शब्दकल्पद्रुमः
Sanskrit
औपसर्गिकः,
पुं,
(उपसर्ग + ठक् ।) सन्निपातरोग-विशेषः तस्य लक्षणम् यथा, --“कफोऽनुलोमवातेन यदि पित्तानुगो भवेत् ।स्वेदशैत्यादिभिर्जुष्टस्तदा भवति मानवः
प्रतिलोमः पुनस्तेन स्वास्थ्यमायाति तत्क्षणात् ।औपसर्गिक एवान्यः सन्निपात उदाहृतः”
इति वैद्यकम्
उपसर्गसम्बन्धिनि त्रि
(“तत्रौपसर्गिको यः पूर्व्वोत्पन्नंव्याधिं जघन्यकाल-जातो व्याधिरुपसृजति तन्मूलएवोपद्रव-संज्ञः” इति सुश्रुते सूत्रस्थाने ३५ अध्याये
“प्रसङ्गात् गात्रसंस्पर्शान्निश्वासात् सहभोजनात् ।सहशय्यासनाच्चापि वस्त्रमाल्यानुलेपनात्
कु्ठं ज्वरश्च शोषश्च नेत्राभिष्यन्द एव ।औपसर्गिकरोगाश्च संक्रामन्ति नरान्नरम्”
इति सुश्रुते निदानस्थाने अध्याये
माधवसंग्रहस्य व्याख्यायां कुष्ठाधिकारे यथा ।“औपसर्गिकरोगा इति औपसर्गिकाः पापरोगा-दयो भूतोपसर्गजाः संक्रामन्ति आविशन्ति”
)