| YouTube Channel

औद्भिदं (audbhidaM)

 
शब्दकल्पद्रुमः
Sanskrit
औद्भिदं,
क्ली,
(उद्भिद + स्वार्थेऽण् ।) साम्भरि-लवणम् अस्य गुणाः (यथा सुश्रुते सूत्रस्थाने४६ अः
“लघु तीक्ष्णोष्णमुत्क्लेदि सूष्णं वातानुलोमनम् ।सुतिक्तं कटुसंस्कारं विद्याल्लवणमौद्भिदम्”
)तीक्ष्णत्वम् उत्क्लेदकारित्वम् क्षारयुक्तत्वम् ।कटुत्वम् तिक्तत्वम् कोष्ठबद्धतानाहशूलनाशि-त्वञ्च इति राजवल्लभः
(अस्य पर्य्यायो गुणाश्चयथा --“औद्भिदं पांशुलवणं यज्जातं भूमितः स्वयंःक्षारं गुरु कटु स्निग्धं शीतलं वातनाशनम्”
इति भावप्रकाशस्य पूर्व्वखण्डे भागे
“सतिक्तकटुकक्षारं तीक्ष्णमुत्क्लेदि चौद्भिदम्” ।इति वाभटे सूत्रस्थाने
)उद्भिदो जातं जलम् तस्य गुणाः मधुरत्वम् ।पित्तशमनत्वम् अविदाहित्वम् इति राज-वल्लभः
(“औद्भिदं पित्तशमनं मधुरं विदाहि च”
इति वैद्यकचकपाणिकृतहव्यगुणे पाणीयवर्गे
अस्य व्याख्यायां शिवदासेनोक्तं यथा ।“औद्भिदं निम्नप्रदेशादूर्द्ध्वमुत्तिष्ठज्जलम्”
उद्भिदो जातं द्रव्यादि यथा
“तत् नस्त्रिविधं ज्ञेयं जाङ्गलौद्भिदपार्थिवम्” ।“भौममौषधमुद्दिष्टमौद्भिदन्तु चतुर्व्विधम् ।वनस्पतिर्वीरुधश्च वानस्पत्यस्तथौषधिः”
“मूलत्मक्सारनिर्यासनाडस्वरसपल्लवाः ।क्षाराः क्षीरं फलं पुष्पं भस्मतैलानि कण्टकाः
पत्राणि शुद्धाः कन्दाश्च प्ररोहश्चौद्भिदो गणः” ।इति चरके सूत्रस्थाने अः
)