| YouTube Channel

औदार्य्यं (audAryyaM)

 
शब्दकल्पद्रुमः
Sanskrit
औदार्य्यं,
क्ली,
(उदारस्य भावः उदार + ष्यञ् ।)उदारता इति हेमचन्द्रः
(वाग्गुणभेदः यथाकिराते
“स सौष्ठवौदार्य्यविशेषशा-लिनोम्” इति “औदार्य्यं अर्थसम्पत्तिः” इतिमल्लिनाथः
सात्त्विको नायकगुणभेदः यथासाहित्यदर्पणे ५८ ।“शोभा विलासो माधुर्य्यं गाम्भीर्य्यं धैर्य्यतेजसी ।ललितौदार्य्यमित्यष्टौ सत्त्वजाः पौरुषा गुणाः”
तल्लक्षणं यथा तत्रैव ६३ ।“दानं सप्रियभाषणमौदार्य्यं शत्रुमित्रयोः समता”
नायिकालङ्कारभेदः यथा, तत्रैव ९४ ।“यौवने सत्त्वजास्तासामष्टाविंशतिसंख्यकाः ।अलङ्कारास्तत्र भावहावहेलास्त्रयोऽङ्गजाः”
शोभा कान्तिश्च दीप्तिश्च माधुर्य्यञ्च प्रगल्भता ।औदार्य्यं धैर्य्यमित्येते सप्तैव स्युरयत्नजाः”
तल्लक्षणं यथा तत्रैव १०३ “औदार्य्यं विनयःसदा”
अस्य उदाहरणं यथा तत्रैव ।“न ब्रूते परुषां गिरं वितनुते भ्रूयुगं भङ्गुरंनोत्तंसंक्षिपति क्षितौ श्रवणतः सा मेस्फुटेऽप्यागसिकान्ता गर्भगृहे गवाक्षविवरव्यापारिताक्ष्या वहिःसख्या वक्त्रमभिप्रयच्छति परं पर्य्यश्रुणी लोचने”
मनसो वृत्तिभेदः यथा पञ्चदशी १५ ।“शान्ता धोरास्तथा मूढा मनसो वृत्तयस्त्रिधा ।वैराग्यं क्षान्तिरौदार्य्यमित्याद्या घोरवृत्तयः”
)