| YouTube Channel

औदरिकः (audarikaH)

 
E Bharati Sampat
Sanskrit
(वि) उदरे प्रसितः। उदर+ठक् ‘उदराट्ठगाद्यूने’ ५.२.६७। उदरपूरणे उद्युक्तः। ‘सर्वत्रौदरिकस्याभ्यावहार्यमेव विषयः’ विक्र०३।
शब्दकल्पद्रुमः
Sanskrit
औदरिकः, त्रि, (उदरे प्रसितः उदर + ठक् ।)विजिगीषाविवर्ज्जितः उदरमात्रपूरकः पेटुकइति भाषा तत्पर्य्यायः आद्यूनः इत्यमरः
(यथा किराते ११ श्लोकस्य टीकायांमल्लिनाथः “अतएवाद्यून औदरिकः आद्यूनःस्यादौदरिके विदिगोषाविवर्ज्जिते इत्यमरः”
)“विजिगीषाव्यवहारः कश्चित् प्रकर्षो वा आल-स्यात् तेन विहीनो यः केवलमुदराधीनः” इतिभरतः
“स्वोदरपूरणाशक्तिनिमित्तकनिन्दात्या-गेच्छा विजिगीषा तया रहितः” ।इति रमानाथः