| YouTube Channel

औत्तानपादि (auttAnapAdi)

 
शब्दसागरः
English
औत्तानपादि
m.
(-दिः) A name of DHRUVA, in mythology the son of
UTTANAPADA, and grandson of the first MENU
in astronomy,
the polar star, or the north pole itself.
E.
उत्तानपाद, and इञ् patro-
nymick
aff.
Yates
English
औत्तानपादि (दिः) 2.
m.
North pole
Dhruva, grandson of
Menu.
Wilson
English
औत्तानपादि
m.
(-दिः) A name of DHRUVA, in mythology the son of
UTTĀNAPĀDA, and grandson of the first MANU
in astronomy, the polar star, or
the north pole itself.
E.
उत्तानपाद, and इञ् patronymic
aff.
Monier Williams Cologne
English
औत्तानपादि
m.
id.
Shabdartha Kaustubha
Kannada
औत्तानपादि
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಉತ್ತಾನಪಾದರಾಯನ ಮಗ /ಧ್ರುವಕುಮಾರ
निष्पत्तिः - > "इञ्" (४-१-९५)
व्युत्पत्तिः - > उत्तानपादस्यापत्यम्
L R Vaidya
English
OttAnapAdi {% m. %} See औत्तानपाद.
शब्दकल्पद्रुमः
Sanskrit
औत्तानपादिः,
पुं,
(उत्तानपादस्यापत्यम् पुमान् ।उत्तानपाद + इञ् ।) ध्रुवः इत्यमरः
तुउत्तानपादराजपुत्त्रः स्वायम्भुवमनुपौत्त्रः ।(यथा भागवते १० ३० ।“औत्तानपादे भगवांस्तव शार्ङ्गधन्वादेवः क्षिणोत्ववनतार्त्तिहरो विपक्षान्
उत्तानपादात् सुरुच्यां जात उत्तमः इति महा-भारतम्
) ग्रहाणामुपरिस्थितनिश्चलतारा
वाचस्पत्यम्
Sanskrit
औत्तानपाद(दि)
पु०
उत्तानपादे नृपे भवः अण् उत्ता-नपादभवे ध्रुवे “ध्रुवस्योत्तानपादस्य ब्रह्मर्षीणां तथैव च” भा०अनु० अ० “उत्तानपाद! भगवांस्तव शार्ङ्गधन्वा”भाग० ४, १०, २५ अपत्ये तु इञ् तत्रैव “उत्तानपा-दिर्निर्गत्य ततः काननतो द्विज!” काशी० तस्य यथातपस्यया सर्वनक्षत्राधारतापदप्राप्तिस्तथा वर्णितम् भाग० ४८, ९, “जाये उत्तानपादस्य सुनीतिःसुरुचिस्तयोः सुरुचिःप्रेयसी पत्युर्नेतरा यत्सुतोध्रुवः एकदा सुरुचेः पुत्र-मङ्कमारोप्य लालयन् उत्तमं नारुरुक्षन्तं ध्रुवं राजाभ्य-नन्दत तथा चिकीर्षमाणं तं सपत्न्यास्तनयं ध्रुवम् ।सुरुचिः शृण्वतोराज्ञः सेर्ष्यमाहातिगर्व्विता वत्स!नृपतेर्धिष्ण्यं भवानारोढुमर्हति गृहीतोमया यत्त्वकुक्षावपि नृपात्मज! बालोऽसि तव नात्मानमन्यस्त्रीगर्भसंवृतम् नूनं वेद भवान् यस्य दुर्लभेऽर्थेमनोरथः ।तपसाराध्य पुरुषं तस्यैबानुग्रहेण मे गर्भे त्वं साध-यात्मानं यदीच्छसि नृपासनम् श्रीमैत्रेयौवाच ।मातुः सपत्न्याः सुदुरुक्तिविद्धः श्वसन् रुषा दण्डहतोयथाऽहिः हित्वा मिषन्तं पितरं सन्नवाचं जगाममातुः रुदन् सकाशम् तं निःश्वसन्तं स्फुरिताधरौष्ठंसुनीतिरुत्सङ्गमुदूह्य बालम् निशम्य तत्पौरमुखान्नितान्तंसा विव्यथेयद्गदितं सपत्न्या सोत्सृज्य धैर्य्यं विललाप-शोकदावाग्निना दावलतेव बाला वाक्यं सपत्न्याः स्मरतीसरोजश्रिया दृशा बाष्पकलामुवाह दीर्घं श्वसन्ती वृजि-नस्य पारमपश्यती बालकमाह बाला माऽमङ्गलं तात!परेषु मंस्था भुङ्क्तेजनोयत् परदुःखदस्तत् सत्यं सुरुच्याभिहितं भवान्मेयद्दुर्भगाया उदरे गृहीतः स्तन्येनवृद्धश्च विलज्जते यां भार्य्येति वा वोढुमिडस्पतिर्माम् ।आतिष्ठ तत्तात! विमत्सरस्त्वमुक्तं समात्रापि यदव्यली-कम् आराधयाधोक्षजपादपद्मं यदीच्छसेऽध्यासनमुत्तमीयथा यस्याङ्घ्रिपद्मं परिचर्य्य विश्वविभावनायात्तगु-णाभिपत्तेः अजोऽध्यतिष्ठत् खलु पारमेष्ठ्यं पदं जिता-त्मश्वसनाभिवन्द्यम् तथा मनुर्व्वो भगवान् पितामहोयमेकमत्या पुरुदक्षिणैर्म्मखैः इष्ट्वाऽभिपेदे दुरवापमन्यतोभौमं सुखं दिव्यमथापवर्गम् तमेव वत्साश्रय भृत्यवत्सलं मुमुक्षुभिर्मृग्यपदाब्जपद्धतिम् अनन्यभावे निज-धर्म्मभाविते मनस्यवस्थाप्य भजस्व पूरुषम् नान्यं ततःपद्मपलाशलोचनाद्दुःखच्छिदं ते मृगयामि कञ्चन ।योमृग्यते हस्तगृहीतपद्मया श्रियेतरैरङ्ग! विमृग्य माणया ।एवं संजल्पितं मातुराकर्ण्यार्थागमं वचः संनियम्या-त्मनात्मानं निश्चक्राम पितुः पुरात् नारदस्तमुपाकर्ण्यज्ञात्वा चास्य चिकीर्षितम् स्पृष्ट्वा मूर्द्धन्यघघ्नेन पाणिना-प्राह विस्मितः अहोतेजः क्षत्रियाणां मानभङ्गममृष्यता-म् बालोऽप्ययं हृदा धत्ते यत् समातुरसद्वचः श्रीनार-दौवाच नाधुनाप्यवमानं ते सम्मानञ्चापि पुत्रक! लक्ष-यामः कुमारस्य सक्तस्य क्रीडनादिषु विकल्पे विद्यमानेऽपिनह्यसन्तोषहेतवः पुंसो मोहमृते भिन्ना यल्लोके निज-कर्म्मभिः परितुष्येत्ततस्तात! तावन्मात्रेण पूरुषः ।दैवीपसादितं यावद्वीक्ष्येश्वरगति बुधः अथ मात्रोप-दिष्टेन योगेनावरुरुत्ससि यत्प्रसादं वै पुंसान्दु-राराध्योमतोमम मुनयः पदवीं यस्य निःसङ्गेनोरुजन्म-भिः विदुर्मृगयन्तोऽपि तीव्रयोगसमाधिना अतो-निवर्त्ततामेध निबर्न्धस्तव निष्फलः यतिष्यति मवान्-काले श्रेयसां समुपस्थिते यस्य यद्दैवविहितं तेन सुख-दुःखयोः आत्मानं तोषयन् देही तमसः पारमृच्छति ।गुणाधिकान्मुदं लिप्सेदनुक्रोशं गुणाधमात् मैत्रीं स-मानादन्विच्छेन्न तापैरभिमूयते श्रीध्रुव उवाच सोऽयंशमोभगवता सुखदुःखहतात्मनाम् दर्शितः कृपया पुंसांदुर्द्दर्शोऽस्मद्विधैस्तु यः अथापि मेऽविनीतस्य क्षात्रं घो-रमुपेयुषः सुरुच्या दुर्वचोवाणैर्न भिन्ने श्रयते हृदि ।पदं त्रिभुवनोत्कृष्टं जिगीषोः साधु वर्त्ममे ब्रूह्यस्मत्पितृभिर्ब्रह्मन्नन्यैरप्यनधिष्ठितम् नूनं भवान् भगवतो-योऽङ्गजः परमेष्ठिनः विनुदन्नटते वीणां हितायजगतोऽर्कवत् मैत्रेय उवाच इत्युदाहृतमाकर्ण्य भग-वान्नारदस्तदा प्रीतः प्रीत्याह तं बालं सद्वाक्यमनु-कम्पया श्रीनारद उवाच जनन्याभिहितः पन्थाःसर्वनिःश्रेयसस्य ते भगवान् वासुदेवस्त्वं भज तं प्रव-णात्मना धर्म्मार्थकाममोक्षाख्यं इच्छेच्छ्रेय आत्म-नः एकं ह्येव हरेस्तत्र कारणं पादसेवनम् तत्तात!गच्छ भद्रन्ते यमुनायास्तटं शुचि पुण्यं मधुवनं यत्रसान्निध्यं नित्यदा हरेः स्नात्वानुसवनं तस्मिन् कालिन्द्याःसलिले शिवे कृत्वोचितानि निवसन्नात्मनः कल्पितासनः ।प्राणायामेन त्रिवृता प्राणेन्द्रियमनोमलम् शनैर्व्युद-स्याभिध्यायेन्मनसा गुरुणा गुरुम् प्रसादाभिमुखं श-श्वत् प्रसन्नवदनेक्षणम् सुनसं सुभ्रुवं चारुकपोलं सु-रसुन्दरम् तरुणं रमणीयाङ्गमरुणौष्ठेक्षणाधरम् ।प्रणताश्रयणं नृम्णं शरण्यं करुणार्णवम् श्रीवतसाङ्कंघनश्यामं पुरुषं वनमालिनम् शङ्खचक्रगदापद्मैरमि-व्यक्तचतुर्भुजम् किरीटिनं कुण्डलिनं केयूरवलया-न्वितम् कौस्तुभाभरणग्रीवं पीतकौशेयवाससम् ।काञ्चीकलापपर्य्यस्तंलसत्काञ्चननूपुरम् दर्शनीयतमंशान्तं मनोनयनवर्द्धनम् पद्भ्यां नखमणिश्रेण्याविल-सद्भ्यां समर्च्चताम् हृत्पद्मकर्णिकाधिष्ण्यमाक्रम्या-त्मन्यवस्थितम् स्मयमानमभिध्यायेत् सानुरागाबलो-कनम् नियतेनैकभूतेन मनसा वरदर्षभम् एवं भग-वतोरूपं सुभद्रं ध्यायतोमनः निर्व्वृत्या पर-या तूर्णं सम्पन्नं निवर्त्तते जपश्च परमोगुह्यः श्रू-यतां मे नृपात्मज! यं सप्तरात्रंप्रपठन् पुमान् पश्यति-खेचरान् नमो भगवते वासुदेवाय मन्त्रेणानेनदेवस्य कुर्य्याद् द्रव्यमयीं बधः सपर्य्यां विविधैर्द्रव्यैर्द्देश-कालविभागवित् सलिलैः शुचिभिर्म्माल्यैर्वन्यैर्मूलफला-दिभिः शस्ताङ्कुरांशुकैश्चार्च्चेत्तुलस्या प्रियया प्रभुम् ।लब्ध्वा द्रव्यमयीमर्च्चां क्षित्यम्ब्वादिषु चार्च्चयेत् आ-भूतात्मा मुनिः शान्तोयतवाङ्मितवन्यभुक् स्वेच्छावतार-चरितैरचितं निजमायया करिष्यत्युत्तमश्लोकस्तंध्यायेद् हृदयंगतम् परिचर्य्या भगवतो यावतीःपूर्वसेविताः ता मन्त्रहृदयेनैव प्रयुञ्ज्यान्मन्त्रमूर्त्तये एवंकायेन मनसा वचसा मनोगतम् परिचर्य्यमाणोभगवान् भक्तिमत्परिचर्य्यया पुंसाममायिनां सम्यग्-भजतां भाववर्द्धनः श्रेयोदिशत्यभिमतं यद्धर्म्मादिषुदेहिनाम् विरक्तश्चेन्द्रियरतौ भक्तियोगेन भूयसा ।तं निरन्तरभावेन भजेताद्धा विमुक्तये इत्युक्तस्तं परि-क्रम्य प्रणम्य नृपार्भकः ययौ मधुवनं पुण्यं हरे-श्चरणचर्च्चितम् तपोवनं गते तस्मिन् प्रविष्टोऽन्तःपुरंमुनिः अथार्हितार्हणोराज्ञा सुखासीन उवाच ।श्रीनारदौवाच राजन्! किं ध्यायसे दीर्घं मुखेन परि-शुष्यता किं वा रिष्यते कामो धर्मोवार्थेन संयुतः ।श्रीराजोवाच सुतोमे बालकोब्रह्मंस्त्रैणेनाकरुणात्मना ।निर्व्वासितः पञ्चवर्षः सह मात्रा महान् कविः अप्यनाथं वने ब्रह्मन्मा खादन्त्यर्भकं वृकाः श्रान्तं शयानंक्षुधितं परिम्लानमुखाम्बुजम् अहो मे वत दौरात्म्यं स्त्री-जितस्योपधारय योऽङ्कं प्रेम्णारुरुक्षन्तं नाभ्यनन्दम-सत्तमः श्रीनारदौवाच मा मा शुचः स्वतनयं देव-गुप्तं विशाम्पते! तत्प्रभावमविज्ञाय प्रावृङ्क्ते यद्यशो-जगत् सुदुष्करं कर्म कृत्वा लोकपालैरपि प्रभुः ए-व्यत्यचिरतोराजन्यशोविपुलयंस्तव इति देवर्षिणा प्रोक्तंविश्रुत्य जगतां पतिः राजलक्ष्मीमनादृत्य पुत्रमेवान्वचि-न्तयत्” “तत्राभिषिक्तः प्रयतस्तामुपोष्य विभावरीम् ।समाहितः पर्य्यचरदृष्यादेशेन पुरुषम् त्रिरात्रान्ते त्रि-रात्रान्ते कपित्थवदराशनः आत्मवृत्त्यनुसारेण मासंनिन्येऽर्च्चयन्हरिम् द्वितीयञ्च तथा मासं षष्ठेषष्ठेऽर्भ-कोदिने तृणप्णादिभिः शीर्णः कृतान्नोऽभ्यर्च्चयद्विभुम् ।तृतीयञ्चानयन्मासं नवमे नवमे ऽहनि अब्भक्षौत्तम-श्लोकमुपधावन् समाधिना चतुर्थमपि वै मासं द्वादशेद्वादशेऽहनि वायुभक्षोजितश्वासोध्यायन् देवमधारयत्!पञ्चमे मास्यनुप्राप्ते जितश्वासोनृपात्पजः ध्यायन् ब्रह्म-पदैकेन तस्थौ स्थाणुरिवाचलः सर्व्वतोमनआकृष्य हृदिभूतेन्द्रियाशयम् ध्यायन् भगवतोरूपं नाद्राक्षीत् किञ्च-नापरम् आधारं महदादीनां प्रधानं पुरुषेश्वरम् ।ब्रह्म धारयमाणस्य त्रयोलोकाश्चकम्पिरे यदैकपादेन स-पार्थिवात्मजस्तस्थौ तदङ्गुष्ठनिपीडिता मही ननामतत्रार्द्धमिभेन्द्रधिष्ठिता तरीव सव्येतरतः पदेपदे तस्मिन्न-भिध्यायति विश्वमात्मनोद्वारं निरुध्यासुमनन्यया धिया ।लोका निरुच्छासनिपोडिताभृशं सलोकपालाः शरणं ययु-र्हरिम् श्रीदेवा ऊचुः नैवंविदामोभगवन्! प्राणरोधं-चराचरस्याखिलसत्वधाम्नः विधेहि तन्नोवृजिनाद्विमोक्षंप्राप्ता वयं त्वां शरणं शरण्यम् श्रीभगवानुवाच मा भैष्टबालं तपसोदुरत्ययान्निवर्त्तयिष्ये प्रतियात स्वधाम यतोहिवः प्राणनिरोध आसीदौत्तानपादिर्म्मयि संगतात्मा तएवमुत्सन्नमयाउरुक्रमे कृतावनामाः प्रययुस्त्रिपिष्टपम् सहस्र-शीर्षाऽपि ततोगरुत्मतामधोर्वनं भृत्यदिदृक्षयागतः र्वधिया योगविपाकतीव्रया हृत्पद्मकोशे स्फुरितं तडित्प्रभम् तिरोहितं सहसैवोपलक्ष्य बहिः स्थितं तद-वस्थं ददर्श तद्दर्शनेनागतसाध्वसः क्षिताववन्दताङ्गंविनमय्य दण्डवत् दृग्भ्यां प्रपश्यन् प्रपिबन्निवार्भकश्चुम्ब-न्निवास्येन भुजैरिवाश्लिषन् तं विवक्षन्तमतद्विदंहरिर्ज्ञात्वास्य सर्वस्य हृद्यवस्थितः कृताञ्जलिं ब्रह्म-मयेन कम्बुना पस्पर्श बालं कृपया कपोले वै तदैवप्रतिपादितां गिरं दैबीं परिज्ञातपरात्मनिर्णयः तं भ-क्तिभावोऽभ्यगृणादसत्वरं परिश्रुतोरुश्रवसं ध्रुवक्षिति”ः ।ततोध्रुवेण स्तुतो भगवान् तस्मै यथा वरंदत्तवांस्तथा वर्णितंतत्रैव “अथाभिष्टुतएवं वै सत्सङ्कल्पेन धीमता भृत्यानु-रुक्तो भगवान् प्रतिनन्द्यैनमब्रवीत् श्रीभगवानुवाच ।वेदाहं ते व्यवसितं हृदि राजन्यबालक! तत् प्रयच्छामिभद्रं ते दुष्प्रापमपि सुव्रत! नान्यैरधिष्ठितं भद्र!यद्भ्राजिष्णु ध्रुवक्षिति यत्र ग्रहर्क्षताराणां ज्योतिषांचक्रमाहितम् मेध्यां गोचक्रवत् स्थास्नुपरस्तात् कल्पवासिनाम् धर्मोऽग्निः कश्यपः शक्रो मुनयो ये वनौकसः ।चरन्ति दक्षिणीकृत्य भ्रमन्तोयत् सतारकाः प्रस्थिते तुवनं पित्रा दत्त्वा गां धर्म्मसंश्रयः षट्त्रिंशद्वर्षसाहस्रंरक्षिता व्याहृतेन्द्रियः त्वद्भ्रातर्य्युत्तमे नष्टे मृगयायांतु तन्मनाः अन्वेषती वनं माता दावाग्निं सा प्रवे-क्ष्यति इष्ट्वा मां यज्ञहृदयं यज्ञैः पुष्कलदक्षिणैः भुक्त्वाचेहाशिषः सत्या अन्ते मां संस्मरिष्यसि ततोगन्तासिमत्स्थानं सर्वलोकनमस्कृतम् उपरिष्टादृषिभ्यस्त्वंयतोनावर्त्तते यतिः”नक्षत्ररूपतत्सन्निवेशविशेषस्तत्रैव स्क० उक्तो यथा“अथ तस्मात् (शनिलोकात्) परतस्त्रयोदशलक्षयोजनान्त-रतो यत्तद्विष्णोः परमं पदमभिवन्दन्ति यत्र महाभागवतोध्रुव औत्तानपादिरग्निनेत्रेण प्रजापतिना कश्यपेनधर्म्मेण समकालयुग्भिः सह बहुमान दक्षिणतःक्रियमाण इदानीमपि कल्पजीविनामाजीव्य उपास्तेतस्य महाननुभाव उपवर्णितः हि सर्वेषां ज्योति-र्गणानां ग्रहनक्षत्रादीनां अनिमिषेणाव्यक्तरंहसाभगवता कालेन भ्राम्यमाणानां स्थाणुरिवावष्टम्भईश्वरेण विहितः शश्वदवभासते यथा मेधी-स्तम्भ आक्रमणपशवः संयोजितास्त्रिभिः सवनैर्यथास्थानं मण्डलानि चरन्ति एवं भगणा ग्रहादयएतस्मिन्नन्तर्बहिर्योगेण कालचक्र आयोजिता ध्रुवमेवा-लम्ब्य वायुनोदीर्य्यमाणा आकल्पान्तं परितः क्रामन्ति ।नभसि यथा मेघाः श्येनादयो वायुवशाः कर्म्मसारथयःपरिवर्त्तन्ते एवं ज्योतिर्गणाः प्रकृतिपुरुषसंयोगानु-गृहीताः कर्मनिर्मितगतयोभुवि पतन्ति केचिदेतत्ज्योतिरनीकं शिशुमारसंस्थानेन भगवतो वासुदेवस्ययोगधारणायामनुवर्णयन्ति यस्य पुच्छाग्रेऽवाक्शिरसःकुण्डलीभूतदेहस्य ध्रुव उपकल्पितः” ५, २३, स्क० अ० ।सि० शि० सर्वनक्षत्राद्याधारौ द्वौ ध्रुवौ अङ्गीकृतौ यथा“निरक्षदेशे क्षितिमण्डलोपगौ ध्रुवौ नरः पश्यति दक्षिणे-तरौ तदाश्रितं खे जलयन्त्रवत् तथा भ्रमद्भचक्रं निज-मस्तकोपरि उदग्दिशं याति यथा नरस्तथा तथा स्यान्न-तमृक्षमण्डलम् उदग्ध्रुवं पश्यति चोन्नतं क्षितेस्तदन्तरेयोजनजाः पलांशकाः योजनसंख्या भांशैर्गुणिता स्वपरि-धिहृता भवन्त्यंशाः भूमौ कक्षायां वा भागेभ्यो योज-नानि व्यस्तम्” शि० “उदग्दिशं याति यथा यथा नरइत्यनेनापसारयोजनैरनुपातः सूचितः यदि भूपरिधि-योजनैच्चक्रांशा लभ्यन्ते तदापसारयोजनैः किमिति ।फलमक्षांशाः यदि चक्रांशमितपरिधिना भूपरिधिर्ल-भ्यते तदाक्षांशैः किमिति फलं निरक्षदेशस्वदेश-योरन्तरयोजनानि स्युः शेषं स्पष्टम् एवं निरक्ष-देशात् क्षितिचतुर्थांशे किल मेरुः तत्र नवतिः ९०पलांशाः” पमि० “सौम्यं ध्रुवं मेरुगताः खमध्येयाम्यं दैत्या निजमस्त कोर्ध्वे सव्यापसव्यं भ्रम-दृक्षचक्रं विलोकयन्ति क्षितिजप्रसक्तम्” शि०
Burnouf
French
औत्तानपादि औत्तानपादि
m.
Dhruva, fils de Uttānapāda
et petit-fils de Manu.
L'étoile polaire
le pôle nord.