| YouTube Channel

ओष्ठरोगः (oSTharogaH)

 
शब्दकल्पद्रुमः
Sanskrit
ओष्ठरोगः,
पुं,
(ओष्ठस्य रोगः ।) आस्यरोगान्त-र्गतोष्ठभवव्याधिः वातपित्तकफसन्निपात-रक्तमांसमेदोऽभिघातजत्वेनाष्टविधः तेषां यथा-क्रमं लक्षणानि यथा, --“कर्कशौ परुषौ स्तब्धौ संप्राप्तानिलवेदनौ ।दाल्येते परिपाट्येते ओष्ठौ मारुतकोपतः
चीयेते पिडकाभिश्च सरुजाभिः समन्ततः ।सदाहपाकपिडकौ पीताभासौ पित्ततः
सवर्णाभिस्तु चीयेते पिडकाभिरवेदनौ ।भवतस्तु कफादोष्ठौ पिच्छिलौ शीतलौ गुरू
सकृत् कृष्णौ सकृत् पीतौ सकृत् श्वेतौ तथैव ।सन्निपातेन विज्ञेयावनेकपिडकाचितौ
खर्ज्जूरफलवर्णाभिः पिडकाभिर्निपीडितौ ।रक्तोपसृष्टौ रुधिरं स्रवतः शोणितप्रभौ
गुरू स्थूलौ मांसदुष्टौ मांसपिण्डवदुन्नतौ ।जन्तवश्चात्र मूर्च्छन्ति नरस्योभयतो मुखात्
सर्पिर्मण्डप्रतीकाशौ मेदसा कण्डुरौ गुरू ।स्वच्छं स्फटिकसङ्काशमास्रावं स्रवतो भृशम्
तयोर्व्रणो संरोहेन्मृदुत्वञ्च गच्छति ।ओष्ठौ पर्य्यवदीर्य्येते पाट्येते चाभिघाततः”
इति निदानम्
(“ओष्ठौ स्फुटितौ यस्य वातिवाहेन वातिकात् ।तस्य सर्पिर्म्रक्षणञ्च ओष्ठदारणवारणे
सदाहञ्च भवेत्सौख्यं पैत्तिकं तं विनिर्द्दिशेत् ।मधुना नवनीतेन ओष्ठयोर्म्रक्षणं मतम् ।लेपनञ्चौष्ठरोगेषु शर्करासहितं दधि ।सरक्तमोष्ठरोगञ्च दृष्ट्वा रक्तावसेचनम्
धवार्ज्जुनकदम्बानां प्रलेपः स्यात् सुखावहः”
इति हारीते चिकित्सिते २५ अध्याये
चिकित्सा यथा
“तत्र खण्डौष्ठ इत्युक्तो वातेनोष्ठो द्विधा कृतः
ओष्ठकोपे तु पवनात् स्तब्धावोष्ठौ महारुजौ ।दाल्येते परिपाट्येते परुषासितकर्क्कशौ
पित्तात्तीक्ष्णासहौ पीतौ सर्षपाकृतिभिश्चितौ ।पिटिकाभिर्महाक्लेदावाशुपाकौ कफात्पुनः
शीतासहौ गुरू शूनौ सवर्णपिटिकाचितौ ।सन्निपातादनेकाभौ दुर्गन्धास्रावपिच्छलौ
अकस्मात् म्लानसंशूनरुजौ विषमपाकिनौ ।रक्तोपसृष्टौ रुधिरं स्रवतः शोणितप्रभौ
खर्ज्जूरसदृशञ्चात्र क्षीणे रक्तेऽर्व्वुदं भवेत् ।मांसपिण्डोपमौ मांसात्स्यातां मूच्छत्क्रमीक्रमात्
तैलाभश्वयथुक्लेदौ सकण्ड्वौ मेदसा मृदु ।क्षतजाववदीर्य्येते पाट्येते चासकृत्पुनः
ग्रथितौ पुनः स्यातां कण्डूलौ दशनच्छदौ ।जलवुद्वुदवद्वातकफादोष्ठे जलार्व्वुदम्”
इति वाभटे उत्तरस्थाने २१ अध्याये
“खण्डोष्ठस्य विलिख्यान्तौ स्यूत्वा व्रणवदाचरेत् ।यष्टी-ज्योतिष्मती-रोध्र-श्रावणी-सारिवोत्पलैः
पटोल्या काकमाच्या तैलमभ्यञ्जनं पचेत् ।नस्यञ्च तैलं वातघ्नमधुरस्कन्धसाधितम्
महास्नेहेन वातौष्ठे सिद्धे नाक्तः पिचुर्हितः ।देवधूपमधूच्छिष्टगुग्गुल्वमरदारुभिः
यट्याह्वचूर्णयुक्तेन तेनैव प्रतिसारणम् ।नाड्योष्ठं स्वेदयेद्दुग्धसिद्धैरेरण्डपल्लवैः
खण्डोष्ठंविहितं नस्यं तस्य मूर्द्ध्नि तर्पणम् ।पित्ताभिघातजावोष्टौ जलौकोभिरुपाचरेत्
रोध्रसर्जरसक्षौद्रमधुकैः प्रतिसारणम् ।गुडूची यष्टिपत्तङ्गसिद्धमभ्यञ्जने घृतम्
पित्तविद्रधिवच्चात्र क्रियाशोणितजेऽपि ।इदमेव भवेत्कार्य्यं कर्म्मौष्ठे तु कफोत्तरे
पाठाक्षारमधुव्योषैर्हतास्रे प्रतिसारणम् ।धूमनावनगण्डूषाः प्रयोज्याश्च कफच्छिदः
खिन्नं भिन्नं विमेदस्कं दहेन्मेदोजमग्निना ।प्रियङ्गुरोध्रत्रिफलामाक्षिकैः प्रतिसारयेत्
सक्षौद्राघर्षणम् तीक्ष्णा भिन्नशुद्धे जलार्व्वुदे ।अवगाढेऽतिवृद्धे वा क्षारोऽग्निर्वा प्रतिक्रिया”
इति वाभटे उत्तरस्थाने
२२ अध्याये
चिकित्सादिविवृतिस्तुमुखरोगशब्दे द्रष्टव्या
)