| YouTube Channel

ओष्ठकोप (oSThakopa)

 
Monier Williams Cologne
English
ओष्ठ—कोप
m.
disease of the lips,
Suśr.
वाचस्पत्यम्
Sanskrit
ओष्ठकोप
पु०
ओष्ठस्य कोपो यत्र सुश्रुतोक्ते मुखरोगभेदे ।मुखरोगनिरूपणे तत्रोक्तं यथा“तत्रौष्ठकोपा वातपित्तश्लेष्मसन्निपातरक्तमांसमेदोऽभिधा-तनिभित्ताः कर्कशौ परुषौ स्तब्धौ कृष्णौ तीव्ररुगन्वितौ ।दाल्येते परिपुट्येते ओष्ठौ मारुतकोपतः आचितौपिडकाभिस्तु सर्षपाकृतिभिर्भृशम् सदाहपाकसंस्रावौनीलौ पीतौ पित्ततः सवर्णाभिस्तु चोष्येते पिडकामि-रवेदनौ कण्डूमन्तौ पिच्छिलौ शीतलौ कफजौ गुरू ।सकृत्कृष्णौ सकृत्पीतौ सकृच्छ्वेतौ तथैव सन्निपातेन ४विज्ञेयावनेकपिडकाचितौ खर्ज्जूरफलवर्णाभिः पिडकाभिःसमाचितौ रक्तोपसृष्टौ रुधिरं स्रवतः शोणितप्रभौ ।मांसदुष्टौ गुरू स्थूलौ मांसपिण्डवदुद्गतौ जन्तवश्चात्रमूर्च्छन्ति सृक्वस्योभयतो मुखात् मेदसा घृतमण्डाभौकण्डूमन्तौ स्थिरौ मृदू अच्छस्फटिकसङ्काशमास्रावंस्रवतो गुरू क्षतजाभौ विदीर्य्येते पाट्येते चाभिघा-ततः ग्रथितौ समाख्यातावोष्ठौ कण्डूसमन्वितौ” ।६ त० ओष्ठरोगादयोऽप्यत्र