| YouTube Channel

ओड्रपुष्पं (oDrapuSpaM)

 
शब्दकल्पद्रुमः
Sanskrit
ओड्रपुष्पं,
क्ली,
(ओड्रं पुष्पम् ।) जवा इत्यमरः
वृद्धास्तु “ओड्रपुष्पशब्देन तथा जवाशब्देनओड्रवृक्षः ओड्रस्य पुष्पञ्चोच्यते” इत्याहुः वृक्षेव्युत्पत्तिर्यथा ओड्रं पुष्पमस्य इति ।“ओड्रः स्यादोड्रपुष्पञ्च जवाथ हयमारकः” ।इति रायमुकुटः
“ओड्रपुष्पकुसुमप्रियेऽम्बिके” ।इति हरानन्दः
इत्यमरटीकायां भरतः