| YouTube Channel

ओचयन्-न्ती (ocayan-ntI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“उच समवाये”@} 2 समवायः = ऐक्यम्--इति क्षीरस्वामी।
ओचकः-चिका, ओचकः-चिका, ओचिचिषकः-षिका
ओचिता-त्री, ओचयिता-त्री, ओचिचिषिता-त्री
3 उच्यन्-न्ती, ओचयन्-न्ती, ओचिचिषन्-न्ती
ओचिष्यन्-न्ती-ती, ओचयिष्यन्-न्ती-ती, ओचिचिषिष्यन्-न्ती-ती
-- ओचयमानः, ओचयिष्यमाणः
उक्-उचौ-उचः
-- -- उचितम्-तः-तवान्, ओचितः-तं, ओचिचिषितः-तवान्
ओक 4ः-न्योकः 5, ओकः, ओचिचिषुः, ओचिचयिषुः
ओचितव्यम्, ओचयितव्यम्, ओचिचिषितव्यम्
ओचनीयम्, ओचनीयम्, ओचिचिषणीयम्
ओच्यम्, ओच्यम्, ओचिचिष्यम्
ईषदोचः, दुरोचः, स्वोचः, -- -- उच्यमानः, ओच्यमानः, ओचिचिष्यमाणः
ओकः-न्योकः, 6 ओकः, ओचिचिषः
7 ओचितुम्, ओचयितुम्, ओचिचिषितुम्
उक्तिः, ओचना, ओचिचिषा, ओचिचयिषा
ओचनम्, ओचनम्, ओचिचिषणम्
8 ओचित्वा, ओचयित्वा, ओचिचिषित्वा
समुच्य, समोच्य, समोचिचिष्य
9 ओचम् २, ओचित्वा २, ओचम् २, ओचयित्वा
ओचिचिषम्
ओचिचिषित्वा २। ओकः 10 -ओकसी।
-- --
प्रासङ्गिक्यः
01
=>
(९५)
02
=>
(४-दिवादिः-१२२३। सक। सेट्। पर।)
03
=>
[[१। ‘दिवादिभ्यः श्यन्’ (३-१-६९) इति श्यन्। श्यनः शित्त्वात् ‘सार्वधातुकमपित्’ (१-२-४) इति ङिद्वद्भावात् उकारस्य गुणो न।]]
04
=>
[[२। ‘ओक उचः के’ (७-३-६४) इति कप्रत्यये गुणः कुत्वञ्च निपातनात्।]]
05
=>
[[३। नियमेन उच्यति = समवैतीति न्योकः = शकुन्तो वृषलो वा। कर्तरि कः।]]
06
=>
[[४। नियमेनोच्यन्ति = समवयन्त्यत्रेत्यधिकरणकारके ‘घञर्थे कविधानम्--’ (वा। ३-३-५८) इति कः। तिपातनादेव कुत्वम्। वृक्षोऽर्थः। ओकः = गृहम्।]]
07
=>
[पृष्ठम्००९४+ २६]
08
=>
[[१। ‘न क्त्वा सेट्’ (१-२-१८) इति कित्त्वनिषेधात् गुणः।]]
09
=>
[[२। ‘आभीक्ष्ण्ये णमुल् च’ (३-४-२२) इत्यत्र चकारात् क्त्वाऽपि। ‘नित्यवीप्सयोः’ (८-१-४) इति द्वित्वम्।]]
10
=>
[[३। औणादिके असुन्प्रत्यये बाहुलकात् कुत्वम्। ‘मुस्तामोष्यमसः किटिस्त्वमसमो लुठ्यन् खलानोकसो भृश्यद्भ्रंशनवर्शकाकृशदयस्तृष्णाहरो हृष्य मे।।’ धा। का। २-६६।]]