ओघवत् (oghavat)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Monier Williams Cologne
EnglishBenfey
EnglishMahabharata
EnglishOghavat^1, a Kuru warrior. § 604 (Karṇap.): VIII, 5, 132 (had been slain in the battle).
Oghavat^2, a king. § 720b (Sudarśanop.): XIII, 2, 121 (nṛpaḥ, grandfather of Nṛga), 122 (father of Ogharatha and Oghavatī).
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
वाचस्पत्यम्
Sanskritओघवत् ओघः जलवेगादिरस्त्यस्य मतुप् मस्य वः ।१ जलवेगादियुक्ते स्त्रियां ङीप् । “एषा सरस्वती रम्या-दिव्या चौघवती नदी” भा० व० १३९ । नृगनृपस्य पितामहे२ नृपभेदे ३ तत्कन्यायां स्त्री ङीप् । सा च भर्त्तुराज्ञयाद्विजरूपधरधर्म्मरूपातिथेः आत्मपर्य्यन्तप्रदानादिरूपपरि-चरणेन तुष्टधर्मवरेण अर्द्धदेहेन लोकानां पावनार्थंनदीत्वमाप्ता इति तन्नामपसिद्धे कुरुक्षेत्रस्थे ३ नदी-भेदेऽपि । तत्कथा भा० अनु० २ अ० यथा “तस्यां सम-भवत्पुत्त्रो नाम्नाग्नेयः सुदर्शनः । सुदर्शनस्तु रूपेणपूर्णेन्दुसदृशोपमः । शिशुरेवाध्यगात्सर्व्वं परं ब्रह्मसनातनम् । अथौववान्नाम नृपो नृगस्यासीत्पिता-महः । तस्याथौघवती कन्या पुत्त्रश्चौघरथोऽभवत् ।तामोघनान् ददौ तस्मै स्वयमोघवतीं सुताम् । सुदर्शनायविदुषे भार्य्यार्थे देवरूपिणीम् । स गृहस्थाश्रमरतस्तयासह सुदर्शनः । कुरुक्षेत्रेऽवसद्राजन्नोघवत्या समन्वितः ।गृहस्थश्चावजेष्यामि मृत्युमित्येव स प्रभो! । प्रतिज्ञामकरो-द्धीमान् दीप्ततेजा विशाम्पते! । तामथौघवतीं राजन्!स पावकसुतोऽब्रवीत् । अतिथेः प्रतिकूलं ते न कर्त्तव्यंकथञ्चन । येन येन च तुष्येत नित्यमेव त्वयाऽतिथिः ।अप्यात्मनः प्रदानेन न ते कार्य्या विचारणा । एतद्व्रतंमम सदा हृदि संपरिवर्त्तते । गृहस्थानाञ्च सुश्रोणि!नातिथेर्व्विद्यते परम् । प्रमाणं यदि वामोरु! वचस्ते ममशोभने! । इद वचनमव्यग्रा हृदि त्वं धारयेः सदा ।निष्क्रान्ते मयि कल्याणि! तथा सन्निहितेऽनघे! । नाति-थिस्तेऽवमन्तव्यः प्रमाणं यद्यहं तव । तमब्रवीदोघवतीतथा मूर्ध्नि कृताञ्जलिः । न मे त्वद्वचनात्किञ्चिदकर्त्तव्यंकथञ्चन । जिगीषमाणस्तु गृहे तदा मृत्युः सुदर्शनम् ।पृष्ठतोऽन्वगमद्राजन् रन्ध्रान्वेषी तदा सदा । इध्मार्थन्तुगते तस्मिन्नग्निपुत्त्रे सुदर्शने । अतिथिर्ब्राह्मणः श्रीमां-स्तामाहौघवतीं तदा । आतिथ्यं कृतमिच्छामि त्वयाद्यवरवर्णिनि! । प्रमाणं यदि धर्म्मस्ते गृहस्थाश्रमसंमतः ।इत्युक्ता तेन विप्रेण राजपुत्त्री यशस्विनी । विधिनाप्रतिजग्राह वेदोक्तेन विशाम्पते! । आसनञ्चैव पाद्यञ्चतस्मै दत्त्वा द्विजातये । प्रोवचौघवती विप्रं केनार्थःकिं ददामि ते । तामब्रवीत्ततो विप्रो राजपुत्त्रीं सुद-र्शगाम् । त्वया ममार्थः कल्याणि! निर्व्विशङ्कैतदाचर ।यदि प्रमाण धर्म्मस्ते गृहस्थाश्रमसंमतः । प्रदानेनात्मनोराज्ञि! कर्तुमर्हसि मे प्रियम् । स तया छन्द्यमानोऽन्यैरीप्सितैर्नृपकन्यया । नान्यमात्मप्रदानात्स तस्या वव्रेवरं द्विजः । सा तु राजसुता स्मृत्वा भर्तुर्वचनमादितः ।तथेति लज्जमाना सा तमुवाच द्विजर्षभम् । ततो विहस्यविप्रर्षिः सा चैवोपविशेश ह । संस्मृत्य भर्त्तुर्वचनं गृह-स्थाश्रमकाङ्खिणः । अथेध्म नमुपादाय स पावकिरुपागमत् ।मृत्युना रौद्रभावेन नित्यं बन्धुरिवान्वितः । ततस्त्वाश्रम-मागम्य स्वं पावकसुतस्तदा । तां व्याजहारौघवतीं क्वासियातेति चासकृत् । तस्मै प्रतिवचः सा तु भर्त्त्रे न प्रददौतदा । कराभ्यां तेन विप्रेण स्पृष्टा भर्तृव्रता सती ।उच्छिष्टार्स्मीति मन्वाना लज्जि ता भर्तुरेव च । तूष्णीं-मूताऽभवत्साध्वी नचोवाचाऽथ किञ्चन । अथ तां पुन-रेवेदं प्रोवाच स सुदर्शनः । क्व सा साध्वी कुतो याता-गरीयः किमतो मम । पतिव्रता सत्यशीला नित्यं चैवा-र्जवे रता । कथं न प्रत्युदेत्यद्य स्मयमाना यथा पुरा ।उटजस्थस्तु तं विप्रः प्रत्युवाच सुदर्शनम् । अतिथिंविद्धिसंप्राप्तं ब्राह्मणं पावके । च माम् । अनया छन्द्यमा-नोऽहं भार्य्यया तव सत्तम । तैस्तैरतिथिसत्कारैर्ब्रह्मन्नेषावृता मया । अनेन विधिना सेयं मामर्च्चति शुभानना ।अनुरूपं यदत्रान्यत्तद्भवान् कर्त्तुमर्हति । कूटमुद्गरहस्तस्तुमृत्युस्तं वै समन्वगात् । हीनप्रतिज्ञ मत्रैनं बधिष्यामीतिविन्तयन् । सुदर्शनस्तु मनसा कर्म्मणा चक्षुषा गिरा ।त्यक्तेर्षस्त्यक्तमन्युश्च स्मयमानोऽब्रवीदिदं । सुरतं तेऽस्तुविप्राग्र्य! प्रीतिर्हि परमा मम । गृहस्थस्य तु धर्म्मोऽग्र्यः सम्प्राप्तोऽतिथिपूजनम् । अतिथिः पूजितो यस्यगृहस्थस्य हि गच्छति । नान्यस्तस्मात्परो धर्म्म इतिप्राहुर्म्मनीषिणः । प्राणा हि मम दाराश्च यच्चान्यद्विद्यते वसु । अतिथिभ्यो मया देयमिति मे व्रतमाहितम् ।निःसन्दिग्धं मया वाक्यमेतन्मे समुदाहृतम् । तेनाहंविप्र । सत्येन स्वयमात्मानमालभे । पृथिबी वायुराकाश-मापो ज्योतिश्च पञ्चमम् । बुद्धिरात्मा मनः कालो दिश-श्चैव गणा दश । नित्यमेते हि पश्यन्ति देहिनां देह-संश्रिताः । सुकृतं दुष्कृतं चापि कर्म्म धर्म्मभृतां वर ।यथैषा नानृता वाणी मयाद्य समुदीरिता । तेन सत्येनमां देवाः पालयन्तु दहन्तु वा । तेन नादः समभवद्दिक्षुसर्वासु भारत! । असकृत् सत्यमित्येवं नैतन्मिथ्येति सर्वतः ।उटजात्तु ततस्तस्म न्निश्चक्राम स वै द्विजः । वपुषा द्याञ्चभूमिञ्च व्याप्य वायुरिवोद्यतः । स्वरेण विप्रः शैक्ष्येणत्रील्लीकाननुनादयन् । उवाच चैनं धर्म्मज्ञं पूर्व्वमामन्त्र्यनामतः । धर्म्मोऽहमस्मि भद्रन्ते जिज्ञासार्थं तवानघ! ।प्राप्तः सत्यञ्च ते ज्ञात्वा प्रीतिर्म्मे परमा त्वयि । विजि-तश्च लया मृथुर्य्योऽयं त्वामनगच्छति । रन्ध्रान्वेषी तवसदा त्वया धृत्या वशीकृतः । न चास्ति शक्तिस्त्रैलोक्येकस्यचित् पुरुषीत्तम! । पतिव्रतामिमां साध्वीं तवोद्वीक्षि-तुमप्युत । रक्षिता त्वद्गुणैरेषा पातिव्रत्यगुणैस्तथा । अधृष्यायदियं ब्रूयात्तथा तन्नान्यथा भवेत् । एषा हि तपसास्वेन संयुक्ता ब्रह्मवादिनी । पावनार्थञ्च लोकस्य सरि-च्छ्रेष्ठा भविष्यति । अनेन चैतद्देहेन लोकांस्त्वमिहपत्स्यसे । अर्द्धेनौघवती नाम त्वामर्द्धेनानुयास्यति”
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
