| YouTube Channel

ओखृ (okhR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
ओख्
मूलधातुः:
ओखृ
धात्वर्थः:
शोषण-अलमर्थयोः
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
ओखति
अनुबन्धादिविशेषः:
ऋदित्
धातुप्रदीपः
Sanskrit
ओखृँ ओखृ
मानकरूपान्तरम् - राखृँ
राखृ
मानकरूपान्तरम् - लाखृँ
लाखृ
मानकरूपान्तरम् - द्राखृँ
द्राखृ
मानकरूपान्तरम् - ध्राखृँ
ध्राखृ शोषण, अलमर्थयोः
- ओखति ओखाञ्चकार प्रोखति मा भावनुचिखत् राखति अरराखत् लाखति अललाखत् द्राखति अदद्राखत् ध्राखति अदध्राखत् ।। 120-124 ।।
क्षीरतरङ्गिणी
Sanskrit
ओखृँ ओखृ
मानकरूपान्तरम् - राखृँ
राखृ
मानकरूपान्तरम् - लाखृँ
लाखृ
मानकरूपान्तरम् - द्राखृँ
द्राखृ
मानकरूपान्तरम् - ध्राखृँ
ध्राखृ शोषण, अलमर्थयोः
ओखति एङि पररूपम् [6194] प्रोखति ओखाञ्चकार उवोखेति भ्रान्तः मा भवान् ओचिखत् ऋदित्त्वादेवौदित्त्वं नास्ति साहचर्यात् 121-125
धातुवृत्तिः
Sanskrit
ओखृँ ओखृ
मानकरूपान्तरम् - राखृँ
राखृ
मानकरूपान्तरम् - लाखृँ
लाखृ
मानकरूपान्तरम् - द्राखृँ
द्राखृ
मानकरूपान्तरम् - ध्राखृँ
ध्राखृ (अर्थः) शोषण, अलमर्थयोः
( ओखति ओखांचकार ओखितेत्यादि ओचिखिषति ओखयति ( मा भवानोचिखत् ) "द्विर्वचनेचि''इति णिलोपस्यस्थानिवत्त्वात् खिशब्दस्य द्वितीयस्यैकाचो द्विर्वचनमृदित्त्वान्नोपधाह्रस्वः इदमेव ऋदित्त्वंज्ञापकमन्तरङ्गादपि द्विर्वचनात्पूर्वमुपधाह्रस्वत्वं भवतीत्यस्य अस्य प्रयोजनं मा भवानिदिधदिति सिद्धिरित्येधतावुक्तम् ( प्रोखति ) ( सूत्रम्) एङि पररूपम् (इति सूत्रम्) अवर्णान्तादुपसर्गादेङि परे पूर्वपरयोः पररूपमिति पररूपत्वम् ( राखति अरराखत् लाखति द्राखति धाखतीत्यादि ) 122
कृदन्तरूपमाला
Sanskrit
1 {@“ओखृ शोषणालमर्थयोः”@} 2 ओखकः-खिका, ओखकः-खिका, 3 ओचिखिषकः-षिका
ओखिता-त्री, ओखयिता-त्री, ओचिखिषिता-त्री
ओखन्-न्ती, ओखयन्-न्ती, ओचिखिषन्-न्ती
ओखिष्यन्-न्ती-ती, ओखयिष्यन्-न्ती-ती, ओचिखिषिष्यन्-न्ती-ती, -- ओखयमानः, ओखयिष्यमाणः
ओक्-ओग्-ओखौ-ओखः
-- -- 4 ओखितः-तम्, ओखितम्-तः, ओचिखिषितः-तवान्
ओखः, ओखः, ओचिखिषुः, ओचिखयिषुः
ओखितव्यम्, ओखयितव्यम्, ओचिखिषितव्यम्
ओखनीयम्, ओखनीयम्, ओचिखिषणीयम्
ओख्यम्, ओख्यम्, ओचिखिष्यम्
ईषदोखः, दुरोखः, स्वोखः
-- -- ओख्यमानः, ओख्यमानः, ओचिखिष्यमाणः
ओखः, ओखः, ओचिखिषः
ओखितुम्, ओखयितुम्, ओचिखिषितुम्
ओखा, ओखना, ओचिखिषा, ओचिखयिषा
ओखनम्, ओखनम्, ओचिखिषणम्
5 ओखित्वा, ओखयित्वा, ओचिखिषित्वा
समोख्य, समोख्य, समोचिखिष्य
ओखम् २, ओखित्वा २, ओखम् २, ओखयित्वा २, ओचिखिषम्
ओचिखिषित्वा २।
प्रासङ्गिक्यः
01
=>
(१३६)
02
=>
(१-भ्वादिः-१२१। सक। सेट्। पर।)
03
=>
[[१। ‘कुहोश्चुः’ (७-४-६२) इति अभ्यासे चुत्वम्।]]
04
=>
[[आ। “अफक्कतातक्यगुणेन तङ्कता खलश्वबुक्कापरुषे पुरेऽमुना। फेनैः कखन्तीमिव तां कलिन्दजां सन्तीर्य बृन्दावनमैक्ष्यनोखितम्।।” धा। का। १-१७।]]
05
=>
[पृष्ठम्०१३८+ २५]