| YouTube Channel

ओँव्रस्चू (o~vrascU)

 
धातुप्रदीपः
Sanskrit
ओँव्रस्चूँ ओव्रश्चू छेदने
- वृश्चति वव्रश्च वव्रश्चतुः व्रश्चिता व्रष्टा वरीवृश्च्यते विव्रश्चिषति विव्रक्षति व्रश्चित्वा वृक्णः वृक्षः मूलपरिवृट् 12
क्षीरतरङ्गिणी
Sanskrit
ओँव्रस्चूँ ओव्रश्चू छेदने
- इतः स्फुलान्ताः (594) त्रिशतं सेटः परस्मैपदिनश्च ग्रहिज्यावयि (6116) इति सम्प्रसारणम् वृश्चति व्रष्टा व्रश्चिता (द्र0 7235) मूलवृक् वृक्णः, षत्वे निष्ठादेशः सिद्धो वक्तव्यः (826वा0) जॄव्रश्च्योः क्त्वि (7255) इतीट् व्रश्चित्वा व्रश्चिकृषोः किकिन् (तु0 उ0 240)-वृश्चिकः स्नुव्रश्चि ( उ0 366) इति क्सः-वृक्षः 12
धातुवृत्तिः
Sanskrit
ओँव्रस्चूँ ओव्रश्चू (अर्थः) छेदने
(वृश्चति) "ग्रहिज्या''दिना सम्प्रसारणे पूर्वरूपत्वे "स्तोःश्चुना श्चुः'' इति सकारस्य शकारः ( वव्रश्च वव्रश्चतुः वव्रश्चिथ वव्रष्ठ वव्रश्चिव ) संयोगान्तत्वेन लिटः कित्त्वाभावात् "ग्रहिज्या''दिना सम्प्रसारणन्न भवति अभ्यासस्य "लिट्यभ्यास'' इति सम्प्रसारणे "स्तोः श्चुना श्चुः'' इति सकारस्य शकारः "न सम्प्रसारणे सम्प्रसारणम्'' इति पूर्वस्य निषेधाद्रेफस्यैव सम्प्रसारणप्रसङ्गः, उरदत्त्वस्याङ्गत्वादङ्गक्षिप्तप्रत्ययेन परनिमित्तत्वात् "अचःपरस्मिन्'' इति स्थानिवत्त्वेन सम्प्रसारणपरत्वातूदित्त्वात्सर्वत्रेड्विकल्पः क्रादिनियमः प्रतिषिद्धविषय इति थल्यपि विकल्प एव भवति तत्रेडभावे झल्परत्वात् "स्कोः'' इति सलोपे व्रश्चादिना षत्वे ष्टुत्वम् ( व्रष्टा, व्रश्चिता व्रक्ष्यति व्रश्चिष्यति ) अनिटि सलोपषत्वयोः "षढोः कः सि'' इति कत्वं, ( वृश्चतु अवृश्चत् वृश्चेत् ) आशिषि ( वृश्च्यात् अव्रश्चीत् अव्रश्चिष्टाम् अव्रश्चिषुः अव्रश्चीः अव्रश्चिष्टम् अव्रश्चिष्ट अव्रश्चिषम् ) "नेटि'' इति वृद्धिः अनिटि तु ( अव्राक्षीत् ) पूर्ववत्सलोपषत्वयोः कुत्वम् ( अव्राष्टाम् ) "झलो झलि'' इति सिचो लोपे प्रत्ययलक्षणेन"षढोः कः सि'' इति भवति तस्य वर्णाश्रयत्वाद्वर्णाश्रये प्रत्ययलक्षणाभावात् ( विव्रश्चिषति विव्रक्षति वरीवृश्च्यते ) "रीगृत्वतः'' इति रीक् ( वाव्रष्टि वाव्रष्टः )व्रश्चतीति श्तिपा निर्द्देशाद् ङिद्वचनेषु सम्प्रसारणम् ( व्रश्चयति अवव्रश्चत् व्रश्चित्वा ) "जिव्रश्च्योः क्त्वि'' इति नित्यमिट् "नक्त्वा सेङ्'' इत्यकित्त्वान्न सम्प्रसारणम् (वृक्णः) वृक्णवान् ) "यस्य विभाषा'' इत्यनिट्त्वम् ओदित्त्वान्निष्ठानत्वं, तस्य पूर्वत्रासिद्धत्वात् झल्परत्वेन "स्कोः'' इति सलोपः "चोःकुः'' इति कुत्वं [ निष्ठादेशः षत्वस्वरप्रत्ययेङ्विधिषु सिद्धो वक्तव्य] इति व्रश्चादिषत्वे निष्ठादेशस्य सिद्धत्वात् झल्परत्वाभावान्न षत्वम् ( व्रस्क्यः व्रस्कः ) ण्यद्धञौ "चजोः कुघिण्ण्यतोः'' इति कुत्वम् अझल्परत्वात्सलोपो भवति वव्रश्चेत्यादौ वकारस्योपदेशसामर्थ्याद्रेफे वलि परतो लोपो भवति वृश्चतीत्यादौ सम्प्रसारणे झल्पत्वाभावाच्छ्रवणमुपदेशस्य प्रयोजनं, तत्रापि सम्प्रसारणस्य किङत्प्रत्ययापेक्षत्वेन बहिरङ्गत्वेनासिद्धत्वादस्तिवलोपप्रसङ्ग इति ( वृक्षः ) "स्नुवृश्चिकृस्यृषिभ्यः कित्'' इति सप्रत्यये षत्वे कुत्वे, "स्कोः'' इति सलोपश्च 12