| YouTube Channel

ओँविजी (o~vijI)

 
धातुप्रदीपः
Sanskrit
ओँविजीँ ओविजी भय, चलनयोः
- उद्विजते उद्विजिता उद्विविजिषते विजित्वा विग्नः विग्नवान् (2) इद्विजितुम् करणे घञ् वेगः वेगितः 9
ओँविजीँ ओविजी भय, चलनयोः
- विनक्ति विङ्क्तः विञ्जन्ति विवेज विजिता विजिष्यति अविजीत् विविजिषति विजित्वा उद्विग्नम् उद्विजितमिति पूर्वकस्य रूपम् (2) 23
क्षीरतरङ्गिणी
Sanskrit
ओँविजीँ ओविजी भय, चलनयोः
- उद्विजते विज इड् (122) इतीडादिः प्रत्ययः कित्-उद्विजिता करणे हलश्च (33121) इति घञ्-वेगः विग्नः ण्यन्ताद् उद्वेजितः 9
ओँविजीँ ओविजी भय, चलनयोः
- विनक्ति उद्विग्नः उद्विजते तुदादौ (611) 23
धातुवृत्तिः
Sanskrit
ओँविजीँ ओविजी (अर्थः) भय, चलनयोः
प्रायेणायमुत्पूर्वः उद्विजते उद्विविजे उद्विविजिषे उद्विजिता उद्विजिष्यते ) "विज इट्'' इति इडादेरञ्णित प्रत्ययस्य ङित्त्वान्न गुणः (उद्विजताम् उदविजत उद्विजेत उद्विजिषीष्ट उदविजिष्ट उद्विविजिषते उद्विजित्वा) क्त्विसनो "रलोव्युपधात्'' इति कित्त्वस्य पाक्षिकत्वेऽप्यस्य "विज इड्'' इति ङित्त्वमिति गुणः ( उद्वेविज्यते उद्वेविजीति उद्वेवेक्ति उद्वेजयति उदवीविजत् उद्विग्नः उद्विग्नवान् ) ईदित्त्वादनिट्त्वम् चोः कुत्वम् ओदित्त्वान्निष्ठानत्वम् ( वेगितम् ) इति घञन्ताद्वेगशब्दादितचि ( उद्वेजिताम् ) इति ण्यन्तस्य निष्ठायामिटि ( वेवेक्ति, वेविक्ते ) इति जुहोत्यादौ पृथग्भावे 9
ओँविजीँ ओविजी (अर्थः) भय, चलनयोः
( विनक्ति विङ्क्तः विञ्जन्ति विनक्षि विनज्मि विञ्ज्वः विञ्ज्मः विविजतुः विविजिथ विविजिव ) "विज इट्'' इति इडादिप्रत्ययस्य पित्त्वेऽपिङित्त्वान्न गुणः ( विजिता विजिष्यति विनक्तु विङ्क्तात् विङ्ग्धि विनजानि अविनक् अविङ्क्ताम् अविनक् अविनजम् विञ्ज्यात् विञ्ज्ययाताम् विज्यात् विज्यास्ताम् ) लिङौ ( अविजीत् अविजिष्टाम् विविजिषति वेविज्यते वेविजीति वेवेक्ति वेजयति अवीविजत् विजित्वा ) "नक्त्वा सेट्'' इत्यकित्त्वेऽपि "विज ईट्'' इति ङित्त्वान्न गुणः ( विग्नः विग्नवान् ) ईदित्त्वादनिट्त्वम् ओदित्त्वान्निष्ठानत्वम् ( वेगितम् ) इति घञन्तात्तारकादित्वादितजित्युक्तम् ( वेवेक्ति वेविक्ते ) इति श्लौ गतम् उद्विजत इति शे 23