| YouTube Channel

ओँलडि (o~laDi)

 
धातुप्रदीपः
Sanskrit
ओँलडिँ ओलडि उत्क्षेपणे
- ओलण्डयति ओलण्डकः ओलण्डा ओलण्डितः (3) 9
क्षीरतरङ्गिणी
Sanskrit
ओँलडिँ ओलडि उत्क्षेपे
- ओलण्डयति भारम् ओलण्डितः तथा लण्डिः इति स्मरणाद् ओदित्त्वं नास्ति अन्ये त्वनित्यण्यन्तत्वात् निष्ठानत्वार्थम् (द्र0 8245) इत्यनुबन्धमाहुः-लण्ड्नः दौर्गास्तु क्ते लण्डिन इत्युदाजह्रुः, तच्च पापात् पापीयः, अव्यवहितस्य नत्वाद् अन्यथा विन्नादिवद् विदितादौ नत्वं स्यात् चान्द्रा लन्दिमप्याहुः-अवलन्दयत्युष्ट्रम् इत्थं लक्षणमलक्षयताम् अन्धकुक्कुटीन्यायेन लक्ष्यमनुसरतां कियदिव रुष्यामः, कियदिव तुष्यामः ? 9
धातुवृत्तिः
Sanskrit
ओँलडिँ ओलडि (अर्थः) उत्क्षेपणे
( ओलण्डयति ओलण्डति ओलिलण्डयिषति ) अजादित्वाद् द्वितीयस्यैकाचो द्विर्वचनम् अत्र स्वामिकाश्यपसंमताकाराः केचिदोदितं पठन्ति तेषां मते लण्डयति लण्डतीतिअपरेतूकारादिं पठन्ति, तदोकारं धात्ववयवमुदाहरतां मैत्रेयादीनामित्संज्ञकत्वमभिदधतामन्येषां सर्वेषामनभिमतम् 9