| YouTube Channel

ओँलजी (o~lajI)

 
धातुप्रदीपः
Sanskrit
ओँलजीँ ओलजी
मानकरूपान्तरम् - ओँलस्जीँ
ओलस्जी व्रीडे
- लजते लेजे लग्नः लज्जते ललज्जे लग्नः लज्जा नग्नोऽवासा इति पृषोदरादित्वाद् वर्णविकारेण तवर्गपञ्चमादिः लजिलज्ज्योर्भ्वादिपाठाल्लजते लज्जत इति मध्योदात्तत्वं स्यात् (3) 10, 11
क्षीरतरङ्गिणी
Sanskrit
ओँलजीँ ओलजी
मानकरूपान्तरम् - ओँलस्जीँ
ओलस्जी व्रीडे
- लजते लजिता लजित, लग्नस्तु लग्नम्लिष्ट (7318) इति सक्ते साधुः, लगितोऽन्यः ईदित्त्वं तर्ह्यनर्थकम्, तस्माल्लगेः (1553) एतत् निपातनम् अत एव ओनजीति चन्द्रः-नग्नः लज्जते लज्जिता अनयोस्तुदादौ प्रयोजनाभावाद् भ्वादौ युक्तः पाठः 10, 11
धातुवृत्तिः
Sanskrit
ओँलजीँ ओलजी
मानकरूपान्तरम् - ओँलस्जीँ
ओलस्जी (अर्थः) व्रीडायाम्
( लजते लेजे लेजिषे लजिता लजिष्यते लजताम् अलजत लजेत लजिषीष्ट ) लिङौ ( अलजिष्ट लिलजिषते लालज्यतेलालजीति लालक्ति लाजयति अलीलजत् लजित्वा लग्रः लग्रवान् ) ईदित्त्वादनिट्त्वम् ओदित्त्वान्निष्ठानत्वम् अयं तवर्गपञ्चमादिरिति चान्द्राः तन्मतेन नग्ननग्निकाशब्दव्युत्पत्तौ तवर्गादिरयं स्वामिना पठितो तु स्वमतेन, यदाह ओलजी ओलस्जी व्रीडइति चान्द्रा इति आत्रेयमैत्रेयस्वामिसम्मताकारशाकटायनादयः सर्वे यणादिमेवाहुः नग्नशब्दस्तु पृषोदरादित्वाद्व्यत्ययेनेति मैत्रेयः ( लज्जते ललज्जे लज्जिता लज्जिष्यते लज्जताम् अलज्जत लज्जेत लज्जिषीष्ट अलज्जिष्ट अलज्जिषाताम् अलज्जिषत लिलज्जिषते ) जश्त्वश्चुत्वे ( लालज्ज्यते लालज्जीति लालक्ति) "स्कोः'' इति सलोपः ( लज्जयति अललज्जत् लज्जित्वा लग्नः लग्नवान् ) निष्ठानत्वस्य सिद्धत्वात् "स्कोः'' इति सलोपः ( लज्जा ) "गुरोश्च हलः'' इत्यकारः ( लज्जितः ) इतीतचि शप्यनयोरपाठः स्वरार्थः शपि हि "तास्यनुदात्तेन्ङित्'' इत्यादिना लसार्वधातुकानुदात्तत्वे शपश्च पित्त्वादनुदात्तत्वे धातुस्वरेणाद्युदात्तं स्यात् शे तु प्रत्ययस्वरेण मध्योदात्तं भवति (लजति, लाजति, लञ्जति, लाञ्जति) इति चत्वारः शपि भर्त्सने जुषादय उदात्ता अनुदात्तेतः10-11