| YouTube Channel

ऐन्द्रियकं (aindriyakaM)

 
शब्दकल्पद्रुमः
Sanskrit
ऐन्द्रियकं, त्रि, (इन्द्रियेणानुभूयते इन्द्रिय +वुञ् ।) प्रत्यक्षम् इन्द्रियग्राह्यम् इत्यमरः
(व्याधिविशेषः यथा, --“मिथ्याभियोगहीनेभ्यो यो व्याधिरुपजायते ।शब्दादीनां विज्ञेयो व्याधिरैन्द्रियको बुधैः
वेदनानामशान्तानामित्येते हेतवः स्मृताः ।सुखहेतुर्मतस्त्वेकः समयोगः सुदुर्ल्लभः
नेन्द्रियाणि चैवार्थाः सुखदुःखस्य हेतवः ।हेतुस्तु सुखदुःखस्य योगो दृष्टश्चतुर्व्विधः
सन्तीन्द्रियाणि सन्त्यर्था योगो चास्ति रुक् ।न सुखं कारणं तस्मात् योगएव चतुर्व्विधः
नात्मेन्द्रियमनोबुद्धिगोचरं कर्म्म वा विना ।सुखं दुःखं यथा यच्च बोद्धव्यं तत्तथोच्यते
स्पर्शनेन्द्रियसंस्पर्शः स्पर्शो मानस एव ।द्विविधः सुखदुःखानां वेदनानां प्रवर्त्तकः ।इच्छा द्वेषात्मिका तृष्णा सुखदुःखात् प्रवर्त्तते
तृष्णा सुखदुःखानां कारणं पुनरुच्यते ।उपादत्ते हि सा भावान् वेदनाश्रयसंज्ञकान्
स्पृश्यते नानुपादाने स्पृष्टो वेत्ति वेदनाः ।वेदनानामधिष्ठानं मनो देहश्च सेन्द्रियः
केशलोमनखाग्रान्नमलद्रवगुणैर्विना” ।इति चरके शारीरे अः
)