| YouTube Channel

ऐन्द्रं (aindraM)

 
शब्दकल्पद्रुमः
Sanskrit
ऐन्द्रं,
क्ली,
(इन्द्रो देवता यस्य इन्द्र + अण् ।) ज्येष्ठा-नक्षत्रम् इति जटाधरः
मूलविशेषः वनआदा इति भाषा तत्पर्य्यायः वनार्द्रका २वनजा अरण्यजार्द्रका अस्य गुणाः कटु-त्वम् अम्लत्वम् रुचिबलाग्निकारित्वञ्च इतिराजनिर्घण्टः
(इन्द्रस्य इदम् ।) इन्द्रसम्बन्धिनित्रि (यथा मनुः ९३ ।“न राज्ञामघदोषोऽस्ति व्रतिनां सत्रिणाम् ।ऐन्द्रं स्थानमुपासीना ब्रह्मभूता हि ते सदा”
“ऐन्द्रंस्थानं राज्याभिषेकाख्यं आधिपत्यकारणम्”इति तट्टीकायां कुल्लूकभट्टः
तथा रघुः ५० ।“महीतलस्पर्शनमात्रभिन्न-मृद्धं हि राज्यं पदमैन्द्रमाहुः”
“ऐन्द्रमम्बु सुपात्रस्थमविपन्नं सदा पिबेत्”
इति वाभटे सूत्रे
)(इन्द्रस्यापत्यं पुमान् ।) बालिवानरे (अर्ज्जुने जयन्तेच पुं
जलविशेषः ।)