| YouTube Channel

ऐन्दवं (aindavaM)

 
शब्दकल्पद्रुमः
Sanskrit
ऐन्दवं,
क्ली,
(इन्दुर्देवता यस्य इन्दु + अण् ।) मृग-शिरोनक्षत्रम् इति ज्योतिषम्
यथा मात्स्ये ।“अश्विनी रेवती मूलमुत्तरत्रयमैन्दवम् ।स्वाती हस्तानुराधा गृहारम्भे प्रशस्यते”
ऐन्दवं मृगशिरः इति मठप्रतिष्ठातत्त्वम्
(इन्दोश्चन्द्रस्य इदम् चन्द्रसम्बन्धिनि, त्रि यथा, मनुः ११ १२५ ।“सङ्करापात्रकृत्यासु मासं शोधनमैन्दवम् ।मलिनीकरणीयेषु तप्तः स्याद्यावकैस्त्र्यहम्”
)