| YouTube Channel

ऐकाहिकज्वरः (aikAhikajvaraH)

 
शब्दकल्पद्रुमः
Sanskrit
ऐकाहिकज्वरः,
पुं,
(ऐकाहिक एकाहभवो ज्वरः ।)एकदिनान्तरागतज्वरः तस्यौषधं यथा, --“पीतं वृश्चिकमूलन्तु पर्य्युषितजलेन वै ।सार्द्धं विनाशयेद्दाहं ज्वरञ्च परमेश्वर !
शिखायाञ्चैव तद्बद्धं भवेदैकाहिकादिनुत् ।एतत् सकाञ्जिकं पीतं रक्तकुष्ठज्वरादिनुत्
वास्योदकेन पीतं तत् वृहद्विषहरं भवेत्” ।इति गारुडे १९३ अध्यायः
(“ऐकाहिको द्याहिकश्च स्त्र्याहिकश्च तथापरः” ।“मुस्तामृतामलक्यश्च नागरं कण्टकारिका ।कणाचूर्णान्वितः क्वाथस्तथा मधुसमन्वितः
ऐकाहिकं वा वेलाद्यं ज्वरजातं व्यपोहति ।वानरेन्द्रमुखं दिव्यं तरुणादित्यतेजसम्
ज्वरमैकाहिकं घोरं तत्क्षणादेव नश्यति ।वानराकृतिमालिख्य खटिकाभिः पुनः शृणु
गन्धपुष्पाक्षतैर्धूपैरर्च्चयेद्भिषजां वरः” ।मन्त्रो यथा, ओँ हां ह्रीं श्रीं सुग्रीवाय महाबलपराक्रमायसूर्य्यपुत्त्राय अमिततेजसे ऐकाहिक-द्व्याहिक-त्र्याहिक-चातुर्थिक-महाज्वर-भूतज्वर-भयज्वर-शोकज्वर-क्रोधज्वर-वेलाज्वर-प्रभृतिज्वराणां बन्धबन्ध ह्रां ह्रीं ह्रूं फट् स्वाहा इति हारीते चि-कित्सास्थाने अध्याये
)