| YouTube Channel

ऐकाहिकं (aikAhikaM)

 
शब्दकल्पद्रुमः
Sanskrit
ऐकाहिकं, त्रि, (एकाहे भवम् एकाह + ठक् ।)एकाहनिष्पन्नम् एकदिनान्तरभवम् इति वैद्य-कम्
(वैद्यकगोपालकृष्णकविभूषणकृतकषाय-संग्रहे दास्यादिपाचने यथा “भूतोत्थं विषमंत्रिदोषजजनितञ्चैकाहिकं द्व्याहिकम्
“काकजङ्घा बला श्यामा ब्रह्मदण्डी कृताञ्जलिः ।पृश्निपर्णी त्वपामार्गस्तथा भृङ्गराजोऽष्टमः
एषामन्यतमं मूलं पुष्येणोद्धृत्य यत्नतः ।रक्तसूत्रेण संवेष्ट्य बद्धमैकाहिकं जयेत्”
इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे
)एकाहभवम् यथा, --“ऐकाहिकं द्वितीयस्थं तृतीयकचतुर्थकम्” ।इत्यादि माहेश्वरकवचम्