| YouTube Channel

ऐकादशिन (aikAdazina)

 
Monier Williams Cologne
English
ऐकादशिन॑ mf(ई)n. (fr. एकादश), belonging to a collection of eleven (e.g. animals),
ŚBr.
Monier Williams 1872
English
ऐकादशिन, अस्, ई, अम् (fr. एकादशिनी), Ved. be-
longing to a collection or association of eleven.
वाचस्पत्यम्
Sanskrit
ऐकादशिन
त्रि०
एकादशानां संघ इनि एकादशिनी खलि-नीवत् स्त्रीत्वं सा साधनतयाऽस्त्यस्य अण् एकादशिनी-साध्यफले “द्वे त्वेर्वते एकादशिन्यावालभेत एवैका-दशिनेषु कामस्तस्याप्त्यै” शत० ब्रा० १३, ३, ३, तत्रा-लभ्यद्विविधैकादशसंख्यपपशुभेदाः देवतासहिताः यजु०२९, ५८, ५९ उक्ता यथा“आग्नेयः कृष्णग्रीवः सारस्वती मेषो बभ्रुः सौम्यः ३पौष्णः श्यामः शितिपृष्ठो वार्हस्पत्यः शिल्पोवैश्वदेव ६ऐन्द्रोऽरुणो मारुतः कल्माष ऐन्द्राग्नः संहितो ऽधोरामः सावित्रो १० वारुणः कृष्ण एकशितिपात् ११ पेत्वः” ५८“अश्वमेधे श्रुतिरस्ति द्वे त्वेवैते एकादशिन्यावालभेतेति”तयोरेकादशिन्योः पशवस्तद्देवताश्च कण्डिकाद्वयेनो-च्यन्ते नेनेमानि ब्राह्मणवाक्यानि द्रव्यदेवताप्रति-पादकानि नतु मन्त्राः कृष्णा ग्रीवा यस्य कृष्णग्रीवःपशुराग्नेयः अग्निदेवत्यः १, मेषी स्वारस्वती स्वरस्वती-देवताका बभ्रुः पिङ्गलवर्णः पशुः सौम्यः सोमदेवत्यः ३श्यामः कृष्णवर्णः पौष्णः पूषदेवत्यः शिति श्यामं पृष्ठ-मस्य शितिपृष्ठः वार्हस्पत्यः वृहस्पतिदेवत्यः शिल्पोविचित्रवर्णो वैश्वदेवः विश्वदेवदेवत्यः अरुणः रक्तः ऐन्द्रःइन्द्रदेवत्यः कल्माषः कर्वुरो मारुतः मरुद्देवत्यः संहितःदृढाङ्गः ऐन्द्राग्नः इन्द्राग्निदेत्यः अधोरामः अधोदेशेश्वेतः सावित्रः सवितृदेवत्यः १० एकः शितिः श्वेतः पादो-यस्य एकशितिपात् एकपदे श्वेतोऽन्यत्र कृष्णः पेत्वःपतनशीलो वेगवान् पशुः वारुणः वरुणदेवत्यः ११ एवमेकादश” वेददी० “अग्नयेऽनीकवते रोहिताञ्जिरन-ड्वानधोरामौ सावित्रौ पौष्णौ रजतनाभी वैश्वदेवौ पिशङ्गौतूपरौ मारुतः कल्माषः आग्नेयः कृष्णोऽजः सारस्वतीमेषी वारुणः पेत्वः” ५९ “द्वितीयैकादशिनीपशुदेवानाह ।रोहिती रक्तोऽञ्जिस्तिलको यस्य सोऽनड्वान् वृषभोऽनीकवतेऽग्नये आलभ्य अनीकं मुखं सैन्यं वा यस्य सोऽनीकवान् तस्मै अधोरामौ अधोभागे श्वेतौ द्वौ पशू सावित्रौसवितृदेवतौ२, रजतवर्णा नाभिर्ययोस्तौ रजतनाभी द्वौपौष्णौ पूषदेवत्यौ४, “पिशङ्गौ पीतौ तूपरौ निःशृङ्गौ वैश्वदेवौ धिश्वदेवदेवत्यौ ६, कल्माषः कर्वुरो मारुतः कृष्णःश्यामोऽजोमेषः आग्नेयः आग्निदेवत्यः मेषी सारस्वती १०पेत्वःवेगवान् वरुणदेवत्यः ११ एवमेकादश” इति वेददीपः