| YouTube Channel

एलङ्गः (elaGgaH)

 
शब्दकल्पद्रुमः
Sanskrit
एलङ्गः,
पुं,
(एरङ्गः + रस्य लः ।) मत्स्यभेदः रायकडाइति भाषा रायखाँडा एलाङ्गा इत्यपि ख्यातः ।अस्य गुणाः मधुरत्वम् वृष्यत्वम् संग्राहित्वम् ।कफवातनाशित्वम् मेधाग्निपुष्टिकारित्वम् शी-तलत्वम् गुरुत्वम् श्लेष्मप्रसादनत्वञ्च इतिराजनिर्घण्टः
(यथा वैद्यकचक्रपाणिकृतद्रव्यगुणेमांसवर्गाधिकारे
“एलङ्गः स्निग्धो मधुरो गुरुविष्टम्भिशीतलः”
)