| YouTube Channel

एर्व्वारुः (ervvAruH)

 
शब्दकल्पद्रुमः
Sanskrit
एर्व्वारुः,
पुं,
(एरणमिति + ईर् + सम्पदादि-त्वात् क्विप् एरं वृणोति वारयति वा वृञ् +बाहुलकात् उण् ।) कर्कटीभेदः तत्पर्य्यायः ।व्यालपत्रा लोमशा स्थूला तोयफला ५हस्तिदन्तफला कर्कटी अस्य गुणाः पित्त-हरत्वम् सुशीतलत्वम् मधुरत्वम् मूत्रामय-घ्नत्वम् रुचिप्रदत्वम् सन्तापमूर्च्छापहरत्वम्तृप्तिदातृत्वम् अतिसेवितश्चेत् वातप्रकोपका-रित्वञ्च इति राजनिर्घण्टः
(“एर्व्वारुकं स्वादु शीतं सक्षारं कफवातकृत् ।नातिपित्तकरं रुच्यं दीपनं दाहनाशनम्”
इति प्रथमस्थाने दशमेऽध्याये हारीतेनोक्तम्
“त्रपुषैर्व्वारुकं स्वादु गुरु विष्टम्भि शीतलम् ।एर्व्वारुकञ्च सम्पक्वं दाहतृष्णाक्लमार्त्तिनुत्”
इति सूत्रस्थाने सप्तविंशेऽध्याये चरकेणोक्तम्
)