| YouTube Channel

एरण्डः (eraNDaH)

 
Apte
English
एरण्डः [ēraṇḍḥ], The castor-oil plant
(a small tree with a scanty number of leaves)
and hence the proverb: निरस्तपादपे देशे एरण्डो$पि द्रुमायते. -ण्डा Long pepper.Comp. -पत्रिका, -फला the plant Croton Polyandrum (दन्तीवृक्ष).
Apte Hindi
Hindi
एरण्डः
पुं*
- आ-ईर्-अण्डच्
अरंडी का पौधा
E Bharati Sampat
Sanskrit
(पुं) ईरयति वायुं मलम् वाऽधः। ईर(गतौ)+णिच्+अण्डच्(बाहु०)। ‘निरस्तपादपे देशे एरण्डोऽपि द्रुमायते ।’
Wordnet
Sanskrit
Synonyms:
एरण्डः, अमङ्गलः, अमण्डः, असारः, आमण्डः, आमण्डकः, गन्धर्वहस्तः, चञ्चुः, निधापकः, रुवुः, रूवुकः, वरण्डालुः, व्यडम्बकम्, व्यडम्बनम्
noun
एरण्डस्य क्षुपात् प्राप्तं बीजं यस्मात् तैलं तथा भेषजं प्राप्यते।
"एरण्डस्य तैलात् वैद्यः भेषजं निर्माति।"
Synonyms:
एरण्डः, अमङ्गलः, अमण्डः, असारः, आमण्डः, आमण्डकः, गन्धर्वहस्तः, चञ्चुः, निधापकः, रुवुः, रूवुकः, वरण्डालुः, व्यडम्बकम्, व्यडम्बनम्
noun
क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
"एरण्डस्य फलं कण्टकयुक्तम् अस्ति।"
वैजयन्तीकोषः
Sanskrit
Word: एरण्डः
Root: एरण्ड
Gender: पुं
Number: all
अर्थः
Meaning(s):
Palma Christi
Ricinus communis
Tamil Āmaṇakku
Shloka(s):
3|3|64|2 कण्टकी चाप्यथैरण्डे हस्तपर्णोऽप्यलम्बकः॥ (भूमिकाण्डः/वनाध्यायः)
3|3|65|1 रुवुः पञ्चाङ्गुलश्चञ्चुरामण्डस्तरुणोऽम्बुकः। (भूमिकाण्डः/वनाध्यायः)
3|3|65|2 गन्धर्वहस्तो रुवुको वातघ्नो व्याघ्रपुच्छकः॥ (भूमिकाण्डः/वनाध्यायः)
Synonym(s):
3|3|64|2 एरण्डः (एरण्ड) (पुं) Palma Christi
Ricinus communis
Tamil Āmaṇakku
3|3|64|2 हस्तपर्णः (हस्तपर्ण) (पुं) Palma Christi
Ricinus communis
Tamil Āmaṇakku
3|3|64|2 अलम्बकः (अलम्बक) (पुं) Palma Christi
Ricinus communis
Tamil Āmaṇakku
3|3|65|1 रुवुः (रुवु) (पुं) Palma Christi
Ricinus communis
Tamil Āmaṇakku
3|3|65|1 पञ्चाङ्गुलः (पञ्चाङ्गुल) (पुं) Palma Christi
Ricinus communis
Tamil Āmaṇakku
3|3|65|1 चञ्चुः (चञ्चु) (पुं) Palma Christi
Ricinus communis
Tamil Āmaṇakku
3|3|65|1 आमण्डः (आमण्ड) (पुं) Palma Christi
Ricinus communis
Tamil Āmaṇakku
3|3|65|1 तरुणः (तरुण) (पुं) Palma Christi
Ricinus communis
Tamil Āmaṇakku
3|3|65|1 अम्बुकः (अम्बुक) (पुं) Palma Christi
Ricinus communis
Tamil Āmaṇakku
3|3|65|2 गन्धर्वहस्तः (गन्धर्वहस्त) (पुं) Palma Christi
Ricinus communis
Tamil Āmaṇakku
3|3|65|2 रुवुकः (रुवुक) (पुं) Palma Christi
Ricinus communis
Tamil Āmaṇakku
3|3|65|2 वातघ्नः (वातघ्न) (पुं) Palma Christi
Ricinus communis
Tamil Āmaṇakku
3|3|65|2 व्याघ्रपुच्छकः (व्याघ्रपुच्छक) (पुं) Palma Christi
Ricinus communis
Tamil Āmaṇakku
Related word(s):
अमरकोशः
Sanskrit
Word: एरण्डः
Root: एरण्ड
Gender: पुं
Number: all
Meaning(s):
castor-oil plant
castor oil plant or Palma Christi [Ricinus Communis - Bot.]
Shloka(s):
2|4|50|2 सोमवल्कोऽप्यथ व्याघ्रपुच्छगन्धर्वहस्तकौ॥ (वनौषधिवर्गः)
2|4|51|1 एरण्ड उरुबूकश्च रुचकश्चित्रकश्च सः। (वनौषधिवर्गः)
2|4|51|2 चञ्चुः पञ्चाङ्गुलो मण्डवर्धमानव्यडम्बकाः॥ (वनौषधिवर्गः)
Synonym(s):
2|4|50|2 व्याघ्रपुच्छः (व्याघ्रपुच्छ) (पुं) tiger's tail, castor-oil tree, castor oil plant [Ricinus Communis - Bot.]
2|4|50|2 गन्धर्वहस्तकः (गन्धर्वहस्तक) (पुं)
2|4|51|1 एरण्डः (एरण्ड) (पुं) castor-oil plant, castor oil plant or Palma Christi [Ricinus Communis - Bot.]
2|4|51|1 उरुबूकः (उरुबूक) (पुं)
2|4|51|1 रुचकः (रुचक) (पुं) dove, ring, pigeon, citron, very large, kind of four-sided column, kind of golden ornament or necklace, castor oil plant [Ricinus Communis - Bot.], any object or substance supposed to bring good luck
2|4|51|1 चित्रकः (चित्रक) (पुं) painter, leopard, kind of snake, 8th unknown quantity, castor oil plant [Ricinus Communis - Bot.], Ceylon Leadwort plant [Plumbago zeylanica - Bot.]
2|4|51|2 चञ्चुः (चञ्चु) (पुं) deer, plant gonADIka, castor-oil plant, plant kSudracaJcu, renowned or famous for, red kind of the same plant
2|4|51|2 पञ्चाङ्गुलः (पञ्चाङ्गुल) (पुं) measuring 5 fingers, castor oil plant [Ricinus Communis - Bot.]
2|4|51|2 मण्डः (मण्ड) (पुं) frog, brandy, ornament, decoration, cream of milk, measure of weight, species of potherb, spirituous or vinous liquor, castor oil plant [Ricinus Communis - Bot.]
2|4|51|2 वर्धमानः (वर्धमान) (पुं) growing, thriving, increasing, prosperous, sweet citron, kind of riddle or charade, particular attitude in dancing, particular way of joining the hands, dish or platter of a particular shape, house having no entrance on the south side, castor oil plant [Ricinus Communis - Bot.]
2|4|51|2 व्यडम्बकः (व्यडम्बक) (पुं)
Related word(s):
परा_अपरासंबन्धः वृक्षः
जातिः वृक्षः
शब्दकल्पद्रुमः
Sanskrit
एरण्डः
पुं,
(एरयति वायुम् + ईर गतौ कम्पनेच + बाहुलकात् अण्डच् ।) वृक्षविशेषः भेरेण्डाइति भाषा तत्पर्य्यायः व्याघ्रपुच्छः गन्धर्व्व-हस्तकः उरुवूकः रुवूकः चित्रकः चञ्चुः७ पञ्चाङ्गुलः मण्डः वर्द्धमानः १० व्यडम्बकः११ इत्यमरः
उरुवुकः १२ रुवुकः १३ रूवुकः१४ रुवकः १५ वुकः १६ अमण्डः १७ आमण्डः१८ व्यडम्बनः १९ इति तट्टीकायां भरतः
कान्तः २० तरुणः २१ शुक्लः २२ वातारिः २३दीर्घपत्रकः २४ इति राजनिर्घण्टः
अस्यतैलस्य गुणाः मधुरत्वम् गुरुत्वम् अतिश्लेष्म-वर्द्धनत्वम् वातरक्तगुल्महृद्रोगजीर्णज्वरनाशि-त्वञ्च इति राजवल्लभः
अपि कृमिदोष-सकलाङ्गशूलकुष्ठनाशित्वम् स्वादुत्वम् रसाय-नोत्तमत्वम् पित्तप्रकोपनत्वम् अतिदीपनत्वम् ।आमवातनाशित्वञ्च इति राजनिर्घण्टः
अस्यभेदकत्वगुणोऽप्यस्ति
श्वेतैरण्डगुणाः कटुत्वम् ।तिक्तत्वम् उष्णत्वम् कफार्त्तिज्वरवायुकासना-शित्वम् रसार्हत्वञ्च इति राजनिर्घण्टः
अस्यमूलगुणाः शूलवायुकफनाशित्वम् शुक्रकारित्वञ्च ।इति राजवल्लभः
(शुक्लरक्तैरण्डयोः पर्य्यायगुणा यथा, --“शुक्ल एरण्ड आमण्डुश्चित्रो गन्धर्व्वहस्तकः ।पञ्चाङ्गुलो वर्द्धमानो दीर्घदण्डोऽप्यदण्डकः ।वातारिस्तरुणश्चापि रुवूकश्च निगद्यते
रक्तोऽपरो रुवुकः स्यादुरुवूको रुवूस्तथा ।व्याघ्रपुच्छश्च वातारिश्चञ्चुरुत्तानपत्रकः
एरण्डयुग्मं मधुरमुष्णं गुरु विनाशयेत् ।शूलशोथकटीवस्तिशिरःपीडोदरज्वरान्
व्रध्नश्वासकफानाहकासकुष्ठाममारुतान् ।एरण्डपत्रं वातघ्नं कफक्रिमिविनाशनम्
मूत्रकृच्छ्रहरञ्चापि पित्तरक्तप्रकोपनम् ।वातार्य्यग्रदलं गुल्मं वस्तिशूलहरं परम्
कफवातक्रिमीन् हन्ति वृद्धिं सप्तविधामपि ।एरण्डफलमत्युष्णं गुल्मशूलानिलापहम्
यकृत्प्लीहोदरार्शोघ्नं कटुकं दीपनं परम् ।तद्वन्मज्जा विड्भेदी वातश्लेष्मोदरापहः”
इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
“सतिक्तोषणमेरण्डतैलं स्वादु सरं गुरु ।व्रध्नगुल्मानिलकफानुदरं विषमज्वरम्
रुक्शोफौ कटीगुह्यकुष्ठपृष्ठाश्रयाञ्जयेत् ।तीक्ष्णोष्णं पिच्छिलं विस्रं रक्तैरण्डोद्भवन्त्विति”
इति शार्ङ्गधरस्य पूर्व्वखण्डे चतुर्थेऽध्याये
“एरण्डतैलं मधुरमुष्णं तीक्ष्णं दीपनं कटुकषा-यानुरसं सूक्ष्मं स्रोतोविशोधनं त्वच्यं वृष्यं मधुर-विपाकं वयःस्थापनं योनिशुक्रविशोधनमारो-ग्यमेधाकान्तिस्मृतिबलकरं वातकफहरमधोमाग-दोषहरञ्च”
इति सुश्रुते सूत्रस्थाने पञ्चचत्वारिंशत्तमेऽध्याये
)