एनस् (enas)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
English एनस् enas evil
एनस् enas blame
एनस् enas mischief
एनस् enas unhappiness
एनस् enas crime
एनस् enas misfortune
एनस् enas offence
एनस् enas calamity
एनस् enas fault
एनस् enas censure
एनस् enas sin
Wilson
EnglishApte
Englishएनस् [ēnas], [इ-असुन् नुट् 4.197]
Sin, offence, fault
मुच्यन्ते ह्येनसो$खिलात् 8.4.24. आत्मधातिन एनसा संयुज्यते 174
14.35
16.8.
Mischief, crime.
Unhappiness.
Censure, blame.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishBenfey
EnglishApte Hindi
Hindiएनस्
- "इ-असुन्, नुडागमः"
"पाप, अपराध, दोष"
एनस्
- "इ-असुन्, नुडागमः"
"कुचेष्टा, जुर्म"
एनस्
- "इ-असुन्, नुडागमः"
खिन्नता
एनस्
- "इ-असुन्, नुडागमः"
"निन्दा, कलंक"
Shabdartha Kaustubha
Kannadaएनस्
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಪಾಪ
निष्पत्तिः - > इण् (गतौ) - "असुन्" (उ० ४-१८८)
व्युत्पत्तिः - > एति गच्छति प्रायश्चित्तेन
प्रयोगाः - > "प्रतिपत्तिरधःकृतैनसो जनताभिस्तव साधु वर्ण्यते"
उल्लेखाः - > माघ० १६-८
एनस्
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಅಪರಾಧ /ತಪ್ಪು
Wordnet
Sanskrit पापम्, कल्मषम्, किल्विषम्, पातकम्, पाप्मा, अघम्, दुरितम्, एनस्, कलुषम्, अभद्रम्, अशुभम्, वृजनम्, वृजिनम्, दोषः, अपराधः, दुष्कृतम्, कल्कम्, अंहस्, अंघस्, मन्तुः, कुल्मलम्, कलङ्कः, प्रत्यवायः, किण्वम्, अमीवम्, पङ्कम्, जङ्गपूगम्
तत् कर्म यद् अस्मिन् लोके अनुत्तमः तथा च परलोके अनिष्टं फलं जनयति।
"कबीरस्य मते असत्यवदनं पापम् अस्ति।"
अभिधानचिन्तामणिः
Sanskritअलक्ष्मीर्निरृतिः कालकर्णिका स्यादथाशुभम् ।
दुष्कृतं दुरितं पापमेनः पाप्मा च पातकम् ॥ १३८० ॥
किल्बिषं कलुषं किण्वं कल्मषं वृजिनं तमः ।
अंहः कल्कमघं पङ्क उपाधिर्धर्मचिन्तनम् ॥ १३८१ ॥
अलक्ष्मी (स्त्री), निरृति (स्त्री), कालकर्णिका (स्त्री), अशुभ (क्ली), दुष्कृत (क्ली), दुरित (क्ली), पाप (क्ली), एनस् (क्ली), पाप्मन् (पुं), पातक (पुंक्ली), किल्बिष (क्ली), कलुष (क्ली), किण्व (क्ली), कल्मष (क्ली), वृजिन (क्ली), तमस् (क्ली), अंहस् (क्ली), कल्क (क्ली), अघ (क्ली), पङ्क (पुंक्ली), उपाधि (पुं), धर्मचिन्तन (क्ली)
अभिधानरत्नमाला
Sanskritवृजिन
वृजिन, दुरित, दुष्कृत, अघ, अंहस्, किल्विष, तमस्, कल्क, एनस्, कल्मष, अशुभ, पाप, पातक, पाप्मन्
वृजिनं दुरितं दुष्कृतमघमंहः किल्विषं तमः कल्कम् ।
एनः कल्मषमशुभं पापं स्यात्पातकं पाप्मा ॥ ६२७ ॥
verse 3.1.1.627
page 0071
नाममाला
Sanskritअघ, अंह, दुरित, पाप्मन्, पाप, किल्बिष, वृजिन, कलिल, एनस्, दुष्कृत
अघमंहश्च दुरितं पाप्मा पापं च किल्बिषम् ।
वृजिनं कलिलं ह्येनो दुष्कृतम् तज्जयी जिनः ॥ १३१ ॥
verse 0.1.1.131
page 0066
वाचस्पत्यम्
Sanskritएनस् ब० एति गच्छति प्रायश्चित्तेन क्षमापणेन वाआगसि अर्थे इण--असुन् नुट् च । १ अपराधे । ईश्वराज्ञालङ्घनरूपनिषिद्धाचरणापराधजन्यत्वात् २ पापे च ।“एनोनिवृत्तेन्द्रियवृत्तिरेनम्” । “अकामोपनतेनेवसाधोर्हृदयमेनसा” । “एनसां स्थूलसूक्ष्माणां चिकीर्ष-न्नपनोदनम्” मनुः । पापभेदाश्च प्रा० वि० दर्शिताः यथा“अथ पापोद्देशः । तत्र विष्णुः “अथ पुरुषस्य कामक्रोधलोभाख्यं रिपुत्रयं सुघोरं भवति परिग्रहप्र-सङ्गाद्विशेषेण गृहाश्रमिणस्तेनायमाक्रान्तोऽतिपातकमहापातकानुपातकोपपातकेषु प्रवर्त्तते । जातिभ्रंशकरेषु सङ्करीकरणेषु अपात्रीकरणेषु मलावहेषु प्रकी-र्ण्णेषु च” । अनेन नवविधत्वं पापस्योक्तम् । हारीतस्तुपञ्चविधत्वमाह “पञ्चविधमशुद्धं भवति प्रासङ्गिकोपपातक-पातकमहापातकात्यन्तपातकानि” पूर्व्ववचने पूर्व्वं पूर्व्वंगरीयः अत्र तूत्तरोत्तरम् । प्रासङ्गिकं जातिभ्रंशकरादिपञ्चकम् । पातकपदमनुपातकपर्यायः । ननुनवस्वेव पापेषु पातकशब्दो दृश्यते यथा पैठीनसिः“स्त्रीगोवृषलवैश्यक्षत्रियघाती शूद्रसहभोजी कन्या-दूष्यगारदाही वृषलीपतिः अग्न्युच्छेदी चेति पात-कानि” नवविधं पापमभिधायाह विष्णुः । “एवं पा-तकिनः पापमनुभूय सुदुखिताः । तिर्य्यग्योनौ प्रप-द्यन्ते दुःखानि विविधानि च” । याज्ञवल्क्यः “नीचाभि-गमनं गर्भपातनं भर्त्तृहिंसनम् । विशेषपतनीयानिनृणामेतान्यपि ध्रुवम्” । पतनीयानि पातकानीत्यर्थः ।“कृत्यल्युटोबहुलमिति” करणेऽनीयर् । तथा गौतमः“ब्रह्महासुरापगुरुतल्पगमातृपितृयोनिसम्बन्धागस्तेन ना-स्तिकनिन्दितकर्म्माभ्यासिपतितात्याग्यपतितत्यागिनः पति-ताश्च पातकसंयोजकाश्च तैश्चाव्दं समाचरन्” । पातकसंयोजकाः सुरापाणादौ यः परान् प्रयोजयति सः ।बाढम् । सामान्यशक्तस्यापि विशेषशक्तिर्भविष्यति मृ-गादिपदस्येव, हारीतेन विशेषगणने पाठात् । तथा च्य-वनः “अथ पातकोपपातकमहापातकानि व्याख्यास्यामः”इति । तथा च पठन्ति । “महापातकतुल्यानि पापान्यु-क्तानि यानि तु । तानि पातकसंज्ञानि तदूनमुपपातक-मिति” । ततो महापातकतुल्यपापविशेषेष्वप्यस्य शक्तिः ।पतनशब्दार्थमाह गौतमः “द्विजातिकर्म्मभ्योहानिःपतनम् परत्र चासिद्धिस्तमेके नरकम्” । द्विजातिकर्म्मश्रौतमग्निहोत्रादि स्मार्त्तमष्टकादि प्रायश्चित्ततदङ्गजपा-दिव्यतिरिक्तम् तेभ्योहानिरनधिकारः इति । द्विजातिग्रहणं प्राघान्यार्थम् शूद्रस्यापि वाक्यान्तरेण पाति-त्याभिधानात् । इहलोके तावत् पातित्यलक्षणमनिष्टंपरलोके चासिद्धिः पापकर्म्मप्रतिबन्धादुपात्तसुकृतफला-निष्पत्तिः नरकं वा । सूतकादिव्यावृत्यर्थमिदम्” ।पापलक्षणं पापसत्तायां प्रमाणञ्च प्रा० वि० दर्शितं यथा“ननु किं पापलक्षणम्” उच्यते “नोदनालक्षणार्थोधर्म्मः!”इत्यस्मिन् सूत्रे वेदैः प्रतिपाद्योऽर्थोधर्म्म इति धर्म्मलक्षणंकुर्य्यता सूतकारेण जैमिनिना वेदैकप्रतिपाद्योऽनर्थो-ऽधर्म्म इत्यधर्म्मलक्षणं सूचितम् । अनर्थश्चानिष्टसाधनंतथाचोक्तं भाष्यकृता “कोऽर्थोयोऽभ्युदयाय कोऽनर्थोयोऽन-भ्युदयायेति” । ननु पापसत्तायां किं प्रमाणं न तावद्वेदःतस्य कार्ये कार्यान्विते वा प्रामाण्यात् न च दुरितापूर्व्वंकार्य्यं कार्य्यान्वितं वा । न च नित्यकर्म्मानाचरणस्यनिषिद्धाचरणस्य च वेदोक्तप्रत्यवायसाधनत्वानुपपत्त्या-कम्प्यम् तस्य तयाविधशब्दाभावेन सिद्धत्वेन चाव-गन्तुमशक्यत्वात् उच्यते “यो ब्राह्मणायावगुरेत्तंशतेन यातयेदिति” श्रुतौ लिङ्द्वयश्रुतेरवगोरणशत-यातनयोः साध्यसाधनफलभावोऽवगम्यते “हेतुहेतुमतो-र्लिङिति” पा० लिङः स्मरणादिति यथोक्तं शंय्वधिकरणे, तथाऽऽत्रापि क्वचित् पञ्चम्या क्वचित् तृतीयया क्वचिच्चविशेषणपदादवगम्यते । यथा याज्ञवल्क्यः “वहितस्यान-नुष्ठानान्निन्दितस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणांनरः पतनमृच्छति” । मनुः “शरीरजैः कर्म्मदोषैर्याति स्था-वरतां नरः । वाचिकैः पक्षिमृगतां मानसैरन्त्यजाति-ताम् । इह दुश्चरितैः केचित् केचित् पूर्व्वकृतैस्तथा ।प्राप्नुवन्ति दुरात्मानोनरारूपविपर्य्ययम्” । तथा विष्णुपुराणम् “नरकं कर्म्मणःपापादेवमाहुर्महर्षयः” । तथा-यमः “सुरापो ब्रह्महा गोघ्नः सुवर्ण्णस्तेयकृन्नरः । पति-तैः संप्रयुक्तश्च कृतघ्नोगुरुतल्पगः । एते पतन्ति सर्व्वेषुनरकेष्वनुपूर्व्वशः” । अत्रैते सुरापादयः पतन्तीति सुरा-पादीनां पतनकर्तृत्वावगतेः कर्तृत्वञ्च साधनत्वविशेषःअतः सुरापाणादिविशिष्टस्य पुरुषस्य पतनसम्बन्धे विशे-षणस्य सुरापाणादेः सति सम्भवे पतनसाधनत्वमवगम्यते“मप्तदश प्राजापत्यान पशूनालभेतेति वत् । एवं “वारिदस्तृप्तिमाप्नोति” इत्यादावपि । नरकसाधनत्वस्य कार्य्यान्वयाभावात कथं शब्दादवगतिरिति चेत् शंयुवद्विषयविशेषणतया इति व्रूमः यथा शतयातनासाधनादवगोरणान्नि-वर्त्तितव्यमिति विधिः, तथा नरकसाधनात् सुरापाणा-देर्न्निवर्त्तेतेति, नित्येऽपि यस्याकरणे प्रत्यवायस्तस्मिन् कर्म्मणिप्रवर्त्तेतेति विध्यङ्गीकारात् । अथवा यद् यत्साधन तद-भावस्ततपरीहारसाधनमिति लोकादवगतत्वात् अर्थात् प्र-त्यवायपरिहारस्योपस्थितत्वात् तदर्थिनोऽधिकारोनित्य-निषेधेष्वपि । ननु “अहरहः सन्ध्यानुपासीत” इत्यादौजीवनस्यसन्ध्योपासनव्याप्त्यवगमात् जीवनवतोऽधिकारः ।“न कलञ्जम्भक्षयेत्” इत्यादौ निवृत्तिस्वभावनिरुद्धाप्रवृत्ति रधिकारिविशेषण तथाचोवोक्त “मनसा तु प्र-वृत्तस्य भूतचेष्टावतोऽपि वा । यदनागतभावस्य वर्ज्जनंतन्निवर्त्तनमिति” अतः कथं प्रत्यवायपरीहारार्थिनोऽ-धिकारः उच्यते प्रत्यवायपरीहारस्याप्युपस्थितत्वात्जातेष्टिवत् संवलिताधिकार एव भविष्यति तथा च जा-वालः “क्षयं केचिदुपात्तस्य दुरितस्य प्रचक्षते । अ-नुत्पत्तिं तथा चान्ये प्रत्यवायस्य मन्वते । नित्यक्रियान्तथै-वान्ये ह्यनुषङ्गफलां श्रुतिम्” । अनुत्पत्तिमित्यनेन प्रव-वायपरीहारः फलमित्युक्तम् । अथवा प्रायश्चित्तवि-धिषु रात्रिसत्रन्यायेनार्थ वादिकपापक्षयार्थिनोऽधिकारात् ।एवं च विधयः पाप्रसत्तां बोधयन्ति तथाचाङ्गिराः“उद्गच्छन् यद्वदादित्यस्तमः सर्व्वं व्यपोहति । तद्वत्-कल्याणमातिष्ठन् नरं पापं व्यपोहति” । पापञ्चेद्पुरुषं कृत्वा कल्याणमभिपद्यते । मुष्यते पातकैः सर्व्वे-र्महाभ्रैरिव चन्द्रमाः” । काल्याणं प्रायश्चित्तम् । यमः“तपसोऽन्ते विशुद्ध्यन्ति कर्मणां वापरिक्षयात् । तस्मात्कर्त्तव्यमेतत्तु प्रायश्चित्तं विशुद्धये” । कर्म्मणां भोगेनपरिक्षयादित्यर्थः । अपरं स्मृत्यन्तरे ज्ञेयमिति । ननुकिं पापोत्पत्तिकारणम्? उच्यतेविहिताकरणं निषिद्धा-चरणञ्च पापकारणं तदाह मनुः । अकुर्वन् विहितंकर्म्मनिन्दितञ्च समाचरन् । प्रसजंश्चेन्द्रियार्थेषु प्राय-श्चित्तीयते नरः” । प्रायश्चित्तार्हताज्ञापनेन पापसत्तांप्रतिपादयति । तथमयाज्ञवल्क्यः । “विहितस्याननुष्ठाना-न्निन्दितस्य च सेवनात् । अनिग्रहाच्चेन्द्रियाणां नरःपतनमृच्छति” ।पापस्य यथा वेदबोध्यत्वं तथा मीमां० भा० दर्शितम् यथा“उभयमिह चोदनया लक्ष्यते अर्थोऽनर्थश्च इति कोऽर्थ?यो निश्रेयसाय ज्योतिष्टोमादिः । कोऽनर्थः? यःप्रत्यवायाय श्येनोवज्रः इषुरित्येवमादिः तत्र अनर्थोधर्म्म उक्तोमा भूत् इति अर्थग्रहणम् । कथंपुनरनर्थ?हिंसा हि सा साच प्रतिषिद्धेति । कथंपुनरनर्थः कर्त्तव्यतयोपदिश्यते? । उच्यते नैव श्येनादरः कर्त्तव्यः विज्ञायते योहि हिंसितुमिच्छेत् तस्यायमभ्युपायः इति हितेष मुपदेशः “श्येनेनाभिचरन् यजेत” इति समाम-नन्ति हि “नाभिचरितव्यम्” । “अतएव मूलकर्म्मरूपा-भिचारस्योपपातकसंज्ञा कृता मनुना तेन तस्यानर्थहेतुत्वंतव्यक्तमेव । यथा च कलञ्जभक्षणश्येनादेरनिष्टसाधन-त्वेऽपि वेदबोध्यत्वं तथा शब्द० चि० समर्थितं यथामनु “व कलञ्जं नक्षयेत्” इत्यत्र विध्यर्थनिषेधानुपपत्तिःतद्भक्षणस्य दृष्टेष्टसाधनत्वात् । न चासुराविद्यावत् पर्य्यु-दासलक्षणया विबोध्यनिष्टसाधनताबोधन, नञोऽसमस्त-त्वात् क्रियासङ्गतत्वेन प्रतिषेधवाचकत्वव्य तपत्तेश्चेतिचेत् न विशेष्यवति विशिष्टनिषेधस्य “सविशेषणे हीति”न्यायेन विशेषणभिषेधपर्य्यवसायितया कलञ्जभक्षणमि-ष्टोत्पत्तिनान्तरीयकदुःखाधिकदुःखसाधनमिति “न कलञ्जभक्षयेत्” इत्यनेन बोधनात् । इष्टसाधनतावाचकस्य विधेःसामान्ये निषेधानुपपत्तेर्बलवदनिष्टाननुबन्धीष्टसाधनवि-शेषे तात्पर्य्यम् तथा चाशक्यविशेषणनिषेधपरत्वं नजइति कश्चित् तन्न यथाह्ययोग्यतया छिद्रं विहाय घट-त्वेन तदितरान्वयो न तु छिद्रेतरत्वेन, युगपद्वृतिद्वय-विरोधात् तथेहापि बलवदनिष्टाननुबन्धित्वेन नोपस्थिति-रिति कथं निषेधः? । “श्येनेनाभिचरन् यजेत” इत्यत्रकयं विधिप्रवृत्तिः हिंसाया बलवदनिष्टसाधनत्वादितिचेत् तत्र कृतिसाध्यत्वे सति इष्टसाधनता योग्यतयान्येति न तु बलवदनिष्टाननुबन्धित्वमपि अयोग्यत्वात् नि-न्दार्थवादेन प्रायश्चित्तोपदेशेन वा हिंसाया बलवदनिष्ट-साधनत्वोपगमात् । अत एव विहितेऽपि श्येने विणना-न्नतात्त्विकप्रवृत्तिः । रागद्वेषयोरुत्कटत्वेनानिष्टाननुबन्ध्यंशम्य तिरोधानात्तु कस्यचित् प्रवृत्तिरित्येके । अन्येत्वभि-चारस्य वैरिबधफलत्वेन श्रुतत्वात् तत्साधनत्वेन श्येनो-विधीयते नतु बधसाध्यनरकसाधनत्वेनाश्रुतत्वात् । न चजनकजनकस्य जनकत्वनियमः कुम्भकारपरम्परायाः कुम्भकारणत्वापत्तेः विधिनैव श्येनस्य बलवदनिष्टाननुबन्धित्वस्यबोधनाच्च । न च श्येनस्य नरकाहेतुत्वेनापेक्षितवेरिषध-हेतुत्वे सत्यविगीतत्वेन प्रवृत्तिः स्यादिति वाच्यम् । श्ये-नाद्वेरिबधोबधाच्चावश्यं नरकमिति प्रतिसन्धानेन विगा-नात् । ननु श्येनोमरणफलकव्यापारत्वेन हिंसा हिंसा चनरकजनिकेति चेन्न । नहि साक्षात् परम्परासाधारण-मरणफलकव्यापारो हिंसा कूपादौ नष्टे गवि तत्कर्त्तु-र्हन्तृत्वप्रसङ्गात् बध्यस्यापि हन्तृमन्यूत्पादनद्वारात्महन्तृत्व-प्रसङ्गाच्च । न ह्यनुत्पादितमन्युः कश्चित् कञ्चित् व्याप-दयति । नन्वनुनिष्पादितमरणफलकव्यापारो हिंसा यदनन्तःमरणं भवत्येव न च श्येनस्तथा किन्तु खड्गहननादिकमेव । अथ मरणानुकूलोव्यापारो मरणेद्देशे-नानुष्ठीयमानो हिंसा श्येनश्च तथा, कूपादौ च न मरणो-द्देशेनानुष्ठोयमानत्वमिति चेत् एव सति गौरवात् मर-णानुद्देशेन क्षिप्तनारासाद्धते ब्राह्मणे हिंसा न स्यात् ।हिनस्तिधात्वर्थतावच्छेदकं फलमव्यषहितमेव मरणम् अ-व्यवहितफलकव्यापारस्यैव धातुवाच्यत्वात् अन्यथा परम्परया विकॢत्तिफलकान्नकामे तण्डुलं कुर्वत्यपि पचतीतिप्रसङ्गात् अथ खड्गघातानन्तरं यत्र विलम्बेन मरणं व्रण-पाकपरम्परया वा, अन्ने विषप्रयोगेण वा तत्र हन्तृत्वंप्रायश्चित्तादि च न स्यादिनि चेत् न प्रायश्चित्ततुल्यत्वार्थंहि तत्र हन्तृत्वव्यपदेशो गौणः विनिगमनन्तु लाघवमेववस्तुतस्तु मरणोद्देशेन कृतोऽदृष्टाद्वारकस्तदनुकूलो-व्यापारः हिंसा श्येनश्चादृष्टद्वारामरणसाधनमतो न हिंसा ।यद्यदृष्टद्वारा मरणसाधनं हिंसा स्यात्तदा सप्तमीतैलाभ्य-ङ्गस्यादृष्टद्वारेण विनाशसाधनत्वात् तत्कर्त्तुः हिंसकत्वा-पत्तिः । अत एव कूपादौ गोमरणेऽपि न गोबधकर्त्तृता तत्-कर्त्तुः, गललग्नान्नमरणेन भक्तुरात्महन्तृत्वं, परिवेषयितुर्वाब्राह्मणहन्तृत्वम् । व्रणपाकपरम्परया विलम्बेन विष-प्रयोगेण च हन्तृत्वं मुख्यमेव । नाप्यनुनिष्पादितमरणफल-कत्वं, गललग्नान्नमरणेस्वहन्तृत्वापत्तेः । अन्योद्देशेन क्षिप्तनाराचहते ब्राह्मणे ब्राह्मणहन्तृत्वं न स्यादिति चेत् न इष्टापत्ते । व्यपदेशः प्रयोगो वा लक्षणया समर्थयितुं शक्य-ते, त्वत्पक्षेऽतिप्रसङ्गो वारयितुं म शक्यत इतीदमेव विनि-गमनम् । अन्योद्देशेन कृतेऽपि निषिद्धे प्रायश्चित्तार्द्धमुक्तम् ।अपरे तु अनभिसंहितावान्तरव्यापारमद्वारीकृत्य मरण-साधनं हिंसा, खड्गकारस्यानभिसंहितावान्तरव्यापारद्वारामरणसाधनत्वं तस्य हि अवान्तरव्यापारोनाभिसंहितः ।किन्तु धनलाभ इति खड्गकारो न घातकः विषस्यान्नेप्रक्षेपणमवान्तरव्यापारो भोजनमेवाभिसंहितम् अनेनेदभोक्तव्यमिति सन्धाय विषप्रयोगादिति हिसैव विषप्रयोगइति तन्न गणलग्नान्नकवलाद्यत्र मरणं तत्र परिवेषयितुर्षातकत्वापातात् अनेनेदं भोक्तव्यमित्यभिसन्धायैवान्न-परिवेषणात् भोक्तुःहन्तृत्वापत्तेश्च अनभिसंहितमवान्तरव्यापारमद्बारीकृत्य मरणानुकूलभक्षणानुष्ठानात् । अत एवअव्याहितप्राणवियोगफलकोव्यापारो हिंसा व्रणपाकपर-म्परयामृते न हन्तृत्वं व्यापारव्यवधायकत्वादिति निरस्तम्”श्येनादेर्वेदबोधितत्वेऽपि यथाऽनर्थहेतुत्वं तथाऽभि-धार शब्दे दर्शितवचनैरुक्तम् अधिकं श्येनशब्दे वक्ष्यते ।एनसाकृतम् यत् । एनस्य पापरचिते “यक्ष्ममेनस्यम्”अथ० ८, ७, ३ । एनोऽस्त्यस्य मतुप् मस्य वः । एनस्वत्विनि । एनस्विन् पापयुक्ते उभयत्र स्त्रियांङीप । “मा त एनस्वन्तो यक्षिन् भुजेम” ऋ० ७, ८८, ६ ।एनस्वन्तं चिदेनसः सुदानवः ८, १८, १२ । “एनस्विभि-रनिर्णिक्ते नार्थं किञ्चित् समाचरेत्” । “अव्दार्द्धमिन्द्र-मित्येतदेनस्वी सप्तकं जपेत्” मनुः । “इण आगसोति”उणा० अपराध एव साधुत्वम् पापे तु ईश्वराज्ञालङ्घन-रूपापराधजत्यत्वेनोपचारात् इति बोध्यम् ।
Grassman
Germanénas, n., ursprünglich „Gewaltthat“ [von in, inv 7], daher „Frevel, Bedrängniss“. 1〉 Frevel, Sünde, Sündenschuld
besonders häufig 2〉 mit kṛ, Frevel, Sünde begehen
3〉 Bedrängniss, Unglück, als durch anderer Gewaltthat hervorgebracht.
-as 1〉 {189, 1}
{203, 10}
{357, 7}
{568, 2}
{574, 5}
{602, 3}
{862, 9}
{863, 12}
{958, 5}. — 2〉 {24, 9}
{219, 7}
{241, 10}
{492, 7}. _{492, 8}
{515, 3}
{534, 18}
{905, 6}. — 3〉 {125, 7}
{954, 4}.
-asā 1〉 {958, 4}.
-asas [Ab.] 1〉 {605, 5}
{638, 12}
{676, 17}. — 2〉 {889, 8}. — 3〉 {308, 5}
{536, 1}
{667, 8}.
-āṃsi 1〉 {308, 4}. — 2〉 {24, 14}.
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
