| YouTube Channel

एनः (enaH)

 
E Bharati Sampat
Sanskrit
(न)(एनस्) गच्छति प्रायश्चित्तेन इण्(गतौ)+असुन् उ०४.१८८। १.पापम् ‘प्रतिपत्तिरधःक्रुतैनगो जनताभिस्तव साधु वर्ण्यते’ माघः१६.८। २.अपराधः।
Wordnet
Sanskrit
Synonyms:
अपराधः, पापम्, दोषः, पातकम्, दुष्कृतम्, दुष्कर्म, पापकर्म, कल्मषम्, कलुषम्, दुरितम्, दुरिष्ठम्, एनः, आगः, अघम्, अन्यायः, मन्तुः, कल्कः
noun
तत् कार्यं यद् धर्मशास्त्रविरुद्धम् अस्ति तथा यस्य आचरणाद् सः व्यक्तिः दण्डम् अर्हति।
"कार्यालये गृहे वा बाल-श्रमिकस्य नियुक्तिः महान् अपराधः अस्ति।"
Synonyms:
पापम्, पङ्कम्, पाप्मा, किल्विषम्, कल्मषम्, कलुषम्, वृजिनम्, एनः, अघम्, अहः, दुरितम्, दुष्कृतम्, पातकम्, तूस्तम्, कण्वम्, शल्यम्, पापकम्, अधर्मम्, दुर्विनीतता, अविनयः, कुनीतिः, कुचरितम्, दुश्चेष्टितम्, कुचेष्टितम्, दुर्वृत्तिः, कुनीतिः, कुचरितम्, कुचर्या, व्यभिचारः, दुराचारः
noun
तत् कर्म यद् धर्मानुसारि नास्ति।
"पापात् रक्ष।"
शब्दकल्पद्रुमः
Sanskrit
एनः, [स्]
क्ली,
(एति गच्छति प्रायश्चित्तेन इण्आगसीत्यसुन् नुडागमश्च ।) पापम् अपराधः ।इति मेदिनी
निन्दा इति शब्दरत्नावली
(“एनोनिवृत्तेन्द्रियवृत्तिरेनम्जगाद भूयो जगदेकनाथः
इति रघुः २३
)