एजृ (ejR)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Shabdartha Kaustubha
Kannadaएजृ - कम्पने (भ्वा० पर० अक० से०) एजति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಅಲುಗು /ಕದಲು
एजृ - कम्पने (भ्वा० पर० अक० से०) एजति ।
पदविभागः - > धातुः
कन्नडार्थः - > ನಡುಗು /ಕಂಪಿಸು
एजृ - कम्पने + णिच् (भ्वा० पर० अक० से०) एजति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಅಲುಗಿಸು
एजृ - कम्पने + णिच् (भ्वा० पर० अक० से०) एजति ।
पदविभागः - > धातुः
कन्नडार्थः - > ನಡುಗಿಸು/ಕಂಪಿಸುವಂತೆ ಮಾಡು
एजृ - दीप्तौ (भ्वा० पर० अक० से०) एजति ।
पदविभागः - > धातुः
कन्नडार्थः - > ಪ್ರಕಾಶಿಸು
धातुपाठः (Krishnacharya)
Sanskrit एज्
एजृ
दीप्तौ
भ्वादिः
सकर्मकः
सेट्
आत्मनेपदी
एजते
एज्
एजृ
कम्पने
भ्वादिः
अकर्मकः
सेट्
परस्मैपदी
एजति
धातुप्रदीपः
Sanskritएजृँ एजृ
मानकरूपान्तरम् - भ्रेजृँ
भ्रेजृ
मानकरूपान्तरम् - भ्राजृँ
भ्राजृ दीप्तौ
- एजते । एजाञ्चक्रे । अङ्गमेजयः । मा भवानेजिजत् । एजतीति एजृ कम्पन इत्यस्य भवति । भ्रेजते । बिभ्रेजे । अबिभ्रेजत् । भ्राजते । बभ्राजे । अबिभ्रजत् । अबभ्राजत् ।भ्राजतेरनुदात्तेत्त्वप्रतिपादनार्थमकारानुबन्धे कर्त्तव्य ऋकारानुबन्धकरणमात्मनेपदमात्रफलकम् ऋकारानुबन्धप्रकरणात् । भ्राजतिश्चयं फणादिसप्तकेऽपि पठिष्यते । तत्र द्विष्पाठफलं ब्रुवते व्रश्चादिसूत्रे (8/2/36) राजिसहचरितस्य भ्राजेर्ग्रहणं यथा स्यादिति । तेन भ्राष्ट्रिः। भ्राक्तिरिति द्वयमुपपद्यते । आत्मनेपदानित्यत्वार्थमित्येके । तद्विकल्पञ्च यथाभिधानं बोधयति । तेन लभते । लभति । सेवते । सेवति ।मोदति । मोदति । इत्यादि सिध्यति ।। 176-178 ।।
एजृँ एजृ कम्पने
- एजति । एजाञ्चकार । मा भवनिजिजत् । अङ्गमेजयः ।। 231 ।।
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
क्षीरतरङ्गिणी
Sanskritएजृँ एजृ
मानकरूपान्तरम् - भ्रेजृँ
भ्रेजृ
मानकरूपान्तरम् - भ्राजृँ
भ्राजृ दीप्तौ
एजते एङि पररूपम् (6194) प्रेजते मा भवानेजिजत् इत्यत्र नित्यत्वादन्तरङ्गत्वाच्च द्विर्वचने कृते ह्रस्वप्रसङ्गाभावाद् ऋदित्वं व्यर्थमिति न वाच्यम्, ओणृज्ञापकात् अनुपसर्गाल्लिम्पविन्द (31138) इति शः - उदेजयः एजृ कम्पने (1143) अस्मादेजति, तथा एजेः खश् (3228) अङ्गमेजयः भ्रेजते, भ्राजते, भ्राजभासभाषदीप (743) इति विक्ल्पेनात्वम् - अबभ्राजत्, अबिभ्रजत् भ्राजृ-टुभ्राशृ (1570) इति वक्ष्यते, तस्य फणादित्वाद् वत्वाभ्यासलोपौ प्रयोजनम् - भ्रेजे, बभ्राजे, तथा व्रश्चभ्रस्ज (8346) इति षः, राजृसहचरितस्य यथा स्यात् - बाभ्राष्टि अस्य तु बाभ्राक्ति भ्राजभासधूर्वि (32177) इति क्विप् - विभ्राट् नभ्राण्नपात् (6375) इति प्रकृतिः भुवश्च (32138) इति चकारादिष्णुच् - भ्राजिष्णुः रेजृ इति च चन्द्रः (च0धा01364) 178-180
एजृँ एजृ कम्पने
- एजति एजेः खश् (3228) अङ्गमेजयः एजृ दीप्तौ (1111) तङानी-एजते 229
धातुवृत्तिः
Sanskritएजृँ एजृ
मानकरूपान्तरम् - भ्रेजृँ
भ्रेजृ
मानकरूपान्तरम् - भ्राजृँ
भ्राजृ (अर्थः) दीप्तौ
( एजते भ्रेजते ) "एङि पररूपम्'' एजां चक्रे एजितेत्यादि एजिजिषते एजयति मा भावानेजिजत् ) ऋदित्त्वान्नेधाह्रस्वः अन्यथा इदिधदित्यादिवद् द्विर्व्वचनात्पूर्व्वमेवोपधाह्रस्वः स्यात् अङ्गमेजयतीत्यङ्गमेजयः "एजेः खश्'' इति ण्यन्तादस्मात्कर्मण्युपपदे खशः शित्त्वात्सार्वधातुकत्वाच्छपि गुणायादेशौ अन्यथार्धधातुकत्वात् "ण्यल्लोपः'' इत्यादिना गुणं बाधित्वा णिलोपः स्यात् खित्त्वात् "अरुर्द्विषदजन्तस्य'' इति पूर्वपदस्य मुम् वृत्तौ तु एजृ कम्पनइति परस्मैपदिण्यन्तात् खशुक्तः उदेजयतीत्युदेजयः "अनुपसर्गाल्लिम्प'' इत्यादिना उत्पूर्वात् ण्यन्तादस्माच्छप्रत्यये शपि गुणायौ अनुपसर्गग्रहणमर्थादन्यविशेषणम् अत्राप्युपसर्गान्तरनिवृत्त्यर्थं च, तेन ( समुद ) इत्यादौ अचि णिलोपः ( भ्रेजते भ्रेतितेत्यादि बिभ्रेजिषते बेभ्रेज्यते बेभ्रेजीति बेभ्रेक्ति भ्रेजयति अबिभ्रेजत् ) "ह्रस्वः'' इति इकारोभ्यासस्य, पूर्ववद्ददित्त्वान्नोपधाह्रस्वः भ्राजत इत्यादि भ्रेजिवत् "व्रश्चभ्रस्जसृ'' इत्यादिना झलि पदान्ते च विधीयमानं षत्वमस्य नास्ति राजिसाहचर्यात्फणादिपठितस्यैव तत्र ग्रहणादिति मैत्रेयक्षीरस्वामिसंमताकारादयः एवं चावश्यपठितव्येन फणादिकेन भ्राजत इत्यादीनां सिद्धेरिह, पाठोऽनार्ष इवेति न्यासोक्तं दुरुक्तं, यद्वा तत्रापीवशब्देन पूर्वोक्त एव पक्षः सूच्यते ( भ्राजयति अबिभ्रजत् अबभ्राजत्) ( सूत्रम्) भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् (इति सूत्रम्) इति चङ्परेणौ उपधाह्रस्वविकल्पः एवं चास्य ऋदित्त्वमनुदात्तेत्त्वमात्रफलम् भ्राजिष्णुः "भुवश्च'' इति चकारादिष्णुच् बिभ्राक् "भ्राजभासणधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्'' "चोः कुः'' इति कुत्वम् ब्रश्चादिसूत्रे राजिसाहचर्यात् फणादिकस्यैव ग्रहणमित्युक्तत्वान्न षत्वम् यत्तु वृत्तौ क्विप् सूत्रे बिभ्राडिति कृतषत्वस्यैवोदाहरणं तद्यनुबन्धकत्वेपीह फणादिकमपि गृह्मत इति सूचयितुं न त्वस्यापि षत्वमस्तीति अत्र रेजिरपि क्वचित्पठ्यते, तदनार्षमिव यदाह भट्टभास्करः "रेजते अग्नेपृथिवीमखेभ्य' इत्यत्र राजतेश्छान्दसत्वमिति 179
एजृँ एजृ (अर्थः) कम्पने
एजति एजां चकार एजिता एजिजिषति एजयति मा भवानेजिजत् ऋदित्वान्नोपधाह्रस्वः एजतिर्दीप्तौ गतः 231
कृदन्तरूपमाला
Sanskrit1 {@“एजृ दीप्तौ”@} 2 ‘दीप्तौ शप्येजते तत्र, भवेदेजति कम्पने।।’ 3 इति देवः।
एजकः-जिका, एजकः-जिका, एजिजिषकः-षिका
एजिता-त्री, एजयिता-त्री, एजिजिषिता-त्री
-- एजयन्-न्ती, एजयिष्यन्-न्ती-ती
एजमानः, एजयमानः, एजिजिषमाणः
4 एजिष्यमाणः, एजयिष्यमाणः, एजिजिषिष्यमाणः
5 एक्-एग्-एजौ-एजः
-- -- 6 एजितः-तम्, एजितः-तम्, एजिजिषितः-तवान्
एजः, 7 उदेजयः 8, 9 जनमेजयः, अङ्गमेजयः, सत्त्वमेजयः 10, एजः, एजिजिषुः, एजिजयिषुः
एजितव्यम्, एजयितव्यम्, एजिजिषितव्यम्
एजनीयम्, एजनीयम्, एजिजिषणीयम्
11 एज्यम्, एज्यम्, एजिजिष्यम्
ईषदेजः, दुरेजः, स्वेजः
-- -- एज्यमानः, एज्यमानः, एजिजिष्यमाणः
एजः, एजः, एजिजिषः
एजितुम्, एजयितुम्, एजिजिषितुम्
12 एजा, एजना, एजिजिषा, एजिजयिषा
एजनम्, 13 प्रेजनम्, एजनम्, एजिजिषणम्
एजित्वा, एजयित्वा, एजिजिषित्वा
समेज्य, प्रेज्य, समेजिजिष्य
14 एजम् २, एजित्वा २, एजम् २, एजयित्वा २, एजिजिषम् २
एजिजिषित्वा २।
01 (१३१)
02 (१-भ्वादिः-१७९। अक। सेट्। आत्म।)
03 (श्लो। ५८)
04 [पृष्ठम्०१३४+ २७]
05 [[१। ‘चोः कुः’ (८-२-३०) इति कुत्वम्।]]
06 [[आ। “अमुञ्चनैर्मञ्चितचित्तपञ्चितत्रयीमतप्रस्तुचितैः शुभार्जकैः। समृञ्जितं कन्दमभृक्तसत्फलान्यदद्भिरेकत्र यदेजितं जनैः।।” धा। का। १-२४।]]
07 [[२। ‘अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च’ (३-१-१३८) इति शः प्रत्ययः। ‘कर्तरि शप्’ (३-१-६८) इति शपि गुणायादेशौ। ‘अनुपसर्गात्--’ (३-१-१३८) इत्यत्र अनुपसर्गग्रहणं अन्यविशेषणम्, अत्रापि--उपसर्गान्तरनिवृत्त्यर्थं च। तेन ‘समुदेज’ इत्यत्र अचि णिलोप एव। न तु शप्रत्ययः--इति मा। धा। वृत्तौ।]]
08 [[B। ‘आर्चीत् द्विजातीन् परमार्थविन्दान् उदेजयान् भूतगणान् न्यषेधीत्।’ भ। का। १-१५।]]
09 [[३। ‘एजेः खश्’ (३-२-२८) इति खश्। शित्त्वात् शबादिः। ‘अरुर्द्विषद्--’ (६-३-६७) इति उपपदस्य मुम्।]]
10 [[C। ‘सत्त्वमेजयसिंहाढ्यान् स्तनन्धयसमत्विषौ।’ भ। का। ६-९४।]]
11 [[४। निष्ठायां सेट्त्वात् ‘चजोः--’ (७-३-५२) इति कुत्वं न।]]
12 [[५। ‘गुरोश्च हलः’ (३-३-१०३) इत्यकारः प्रत्ययः।]]
13 [[६। ‘एङि पररूपम्’ (६-१-९४) इति पररूपमेव। न वृद्धिः।]]
14 [पृष्ठम्०१३५+ २७]
1 {@“एजृ कम्पने”@} 2 ‘दीप्तौ शप्येजते तत्र, भवेदेजति कम्पने।’ 3 इति देवः।
एजन्-न्ती, एजिष्यन्-न्ती-ती, इति शतरि रूपमिति विशेषः।
अन्यानि सर्वाणि रूपाणि दीप्त्यर्थकभौवादिकेजतिवत् 4 बोध्यानि।
01 (१३२)
02 (१-भ्वादिः-२३४। सक। सेट्। पर।)
03 (श्लो-५८)
04 (१३१)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
