| YouTube Channel

एज (eja)

 
शब्दसागरः
English
एज r. 1st cl. (ऋ) (एजृ) (एजते) To shine. (एजति) To shake or tremble.
Wilson
English
एज r. 1st cl. (ऋ) एजृ (एजते) To shine. (एजति) To quake
or tremble.
शब्दकल्पद्रुमः
Sanskrit
एज, दीप्तौ इति कविकल्पद्रुमः
(भ्वादिं-आत्मं-अकं-सेट् ।) मा भवान् एजिजत् ङएजते इति दुर्गादासः
एज, कम्पे इति कविकल्पद्रुमः (भ्वादिं-परं-सकंसेट् ।) मा भवान् एजजित् एजति वायुनावृक्षा इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
एज कम्पने
भ्वा०
आत्म० अक० सेट् एजते ऐजिष्ट एजां-बभूव आस चक्रे एजकः एजितव्यः एजिता एजितःएजमानः एजनम् णिच् एजयति जनमेजयः “क्षुद्र-मन्त्रमत एजयतेऽक्षिणी मे” भाग० ५, २, १५ वेदे गण-व्यत्यासः “एजतु दशमास्यो गर्भः” यजु०, २८ अथास्यमध्यमेजतु” २३, २७ मुष्का विदस्या एजतो गोशफ”२३, २८ “उदेजति पतति यस्य तिष्ठति” अथ० २०८११, “सुखेन वृष्णिरेजति” ऋ० १, १०, उदङ्ङेजत्यन्तरा वा एतदाहबनीयम्” श० ब्रा० १, ५, १, २५क्वचिल्लोके तथा “शतान्यशीतिरष्टौ सहस्राणि चविंशतिः सर्पाणां प्रग्रहा यान्ति धृतराष्ट्रोऽयमेजति”भा० आ० ८० अ० “त्वत्तःपरं नापरमप्यनेजदेजच्च कि-ञ्चिद् व्यतिरिक्तमस्ति” भाग० ७, ३, ३० बलीपलितएजत्कः” भाग० ६, ९, ४२, एजत्कः कम्पमानशीर्षः”अप + अपगमने एङि पररूपम् अपेजते क्वचिदन्तर्भूत-ण्यर्थेऽपि “अपेजते शूरो अस्तेव शत्रून्” ऋ० ६, ६४, “शत्रून् अपेजते अपगमयति भा० उद् + ऊर्द्ध्व-गतौ उदेजते “उदेजतु प्रजापति र्वृषा शुष्मेण वाजिनाअथ० ४, ४, २, “उदेजयान् भूतगणान्न्यषेधीत्” भट्टिः ।प्र + प्रकर्षचलने पररूपम् प्रेजते सम् + सङ्गतौ निय-मेन चलने “एवेदनु द्यून् किरण० समेजात्” ऋ० १०, २७, “समेजात् नियमेन प्रयाति” भा०
एज दीप्तौ भ्वादि०
पर०
अक० सेट् एजति ऐजीत् एजाम्-बभूव आस चकार एजन्