| YouTube Channel

एकोद्दिष्टं (ekoddiSTaM)

 
शब्दकल्पद्रुमः
Sanskrit
एकोद्दिष्टं,
क्ली,
(एकः प्रेत एव उद्दिष्टो यत्र ।) प्रेतो-द्देश्यकश्राद्धम् यथा गोभिलः अथैकोद्दिष्ट-मेकं पवित्रमेकोऽर्घ्यः एकः पिण्डो नावाहनं नाग्नौ-करणं नात्र विश्वे देवाः स्वदितमिति तृप्तिप्रश्नःसुस्वदितमिति प्रत्युत्तरम् उपतिष्ठतामित्यक्षय्य-स्थाने अभिरम्यतामिति विसर्गोऽभिरतोऽस्मीतिप्रतिवचनमेतत् प्रेतश्राद्धमिति
*
एतत् प्रेत-श्राद्धमित्युपसंहारात् एकं प्रेतमुद्दिश्य यद्दीयतेश्राद्धं तदेकोद्दिष्टमिति वैदिकप्रयोगाधीनंयौगिकम् अतएव प्रतिसांवत्सरिकस्य नैको-द्दिष्टत्वं किन्त्वेकोद्दिष्टविधिकत्वं अत्रार्घ्यैक्याद्द्विद-लरूपसङ्केतितपवित्रैक्यप्राप्तौ एकं पवित्रमितिपुनरभिधानसार्थकत्वाय तदवयवैकदलपरम् अत्रनावाहनं नाग्नौ करणमिति निषेधयोः पौर्ब्बा-पर्य्यादग्नौ करणपूर्व्वकालीनं प्रधानसम्बन्धि श्राद्ध-सूत्रोद्दिष्टं श्राद्धार्थावाहनमेव निषिध्यते त्व-प्रधानसम्बन्धि पितृयज्ञवदित्यतिदेशप्राप्तं पिण्डा-र्थावाहनमिति एतेन पिण्डार्थावाहननिषेधोमैथिलोक्तो हेयः अत्राग्नौ करणनिषेधेन हुत-शेषस्यालाभे हुतशेषं दत्त्वा पात्रमालभ्य जपतिपृथिवीत्यादि स्वाहा इत्यन्तसूत्रोक्तपात्रालम्भन-स्यापि बाधः आनन्तर्य्याभावात् अमृतमितिमन्त्रलिङ्गविरोधाच्च स्वदितमिति तृप्तिप्रश्न इतितृप्ताः स्थ इति तृप्तिप्रश्ने स्वदितमिति प्रश्नः ।कुशमयब्राह्मणपक्षे तु प्रतिवचनानुपपत्त्या प्रश्न-स्यापि निवृत्तिः अक्षय्यशब्दस्थाने उपतिष्ठता-मिति प्रयोगः अत्रोपतिष्ठतामित्यनेन अन्नादिक-मित्यस्यान्वये अस्त्वित्यस्य अन्वयानुपपत्त्या तस्या-प्यप्रयोगः अतएव पितृदयितायामन्नादिकमुप-तिष्ठतामिति लिखितम् अभिरम्यतामिति वाजेवाजे इति स्थाने अभिरम्यतामित्यनेन विसर्जन-मिति एतदिति पूर्व्वोक्तेतिकर्त्तव्यताकश्राद्धमि-त्यर्थः प्रेतश्राद्धं प्रेतस्य श्राद्धं तु पार्ब्बणविकृति-त्वेन प्राप्तपितृलोकरूपपितुः श्राद्धं अकृतसपि-ण्डीकरणस्य तथाविधपितृत्वाभावात् अतएवै-तन्न्यायमूलकमेवाश्वलायनगृह्यपरिशिष्टेऽपि पितृ-शब्दं युञ्जीत पितृहा चोपजायते इत्युक्तम् ।अतएव विष्णुना प्रेतस्य नामगोत्राभ्यां दत्ताक्ष-य्योदकेषु इत्यत्र प्रेतनामगोत्राभ्यामित्यनेन प्रेत-स्येत्युक्तं तु सम्बन्धिन इत्युक्तम् ततश्च मन्त्रेप्राप्तपितृलोकोपाधिकएव पितृपदस्थाने प्रेत-पदोहो तु अग्निस्वात्ताद्युपाधिके एवमभिलाप-वाक्येऽपि सम्बन्धित्वेन नोल्लेखः किन्तु प्रेतत्वेनअसम्बन्धिनोऽपि मठच्छात्रादेरपि प्रेतश्राद्धाधि-कारित्वात् सांवत्सरिकश्राद्धे एकोद्दिष्टविकृ-तीभूतेऽपि प्राप्तपितृलोकोपाधिकपितृपदवन्मन्त्रेअभिलापे सम्बन्धिबोधकपितृत्वेनैवोल्लेखः ।एवञ्च देवताभ्यः पितृभ्यश्च इत्यत्र प्रेतपदोहःपितृपदस्य दिव्यपितृपरत्वात् एवं नैकवचनोहो-ऽपि तथा मधु द्यौरस्तु नः पिता इत्यस्य द्यौः स्वर्गःपिता पितेव सर्व्वस्याधिगम्यत्वात् मध्वस्तु मधु-मयी भवत्विति भाष्यव्याखाने द्यौरिति पितेतिपदयोः सामानाधिकरण्यं प्रतीयते अत्र द्युत्व-पितृत्वयोर्भेदेऽपि सामानाधिकरण्येनाभेदावगमात्दिवः पितृसाधर्म्म्यप्राप्तिरिति पितृपदं पितृ-तुल्यपरं तु जनकपर प्राप्तपितृलोकपरं वेति ।तेनात्र मन्त्रे पितेत्येव वक्तव्यं तु प्रेतपदोहः ।न वा पितृशब्दं युञ्जीत इत्यनेन निषेधः एव-मामावेति मन्त्रे पितरा इत्यत्र नोहः एवं वृद्धि-श्राद्धेऽप्येतेषु नान्दीमुखविशेषणं देयमेवेति ।अन्यत्र सर्व्वत्रोत्सर्गवाक्ये मन्त्रे पितृपदप्रयोग-निषेधात् प्रेतपदोहः कार्य्यः विष्णुः एकवन्म-न्त्रानूहेत एकोद्दिष्टे इति एकवत् एकवचनवत्यथा स्यात्तथोहेत यथा पवित्र स्थो वैष्णव्यावित्यत्रपवित्रासि वैष्णवीति एवं विष्णोर्मनसा पूते स्थइत्यत्रापि पूतमसीति अत्र पितरो मादयध्वंयथाभाग मा वृषायध्वं इति मन्त्रे अत्र प्रेत-मादयस्व यथाभाग मावृषायस्व इत्यूत्त्यम् अमीमदन्तः पितर इत्यत्र अमी मदत् प्रेतं इति ।वृषायिषत इत्यत्र वृषायिष्टेति एत पितर इतिपिण्डार्थावाहनमन्त्रे एहि प्रेत इति सौम्यासइत्यत्र सौम्येति दत्तास्मभ्यमित्यत्र देह्यस्मभ्य-मिति नियच्छत इत्यत्र नियच्छेति नमो वइत्यादिमन्त्रेषु पितर इति स्थानचतुष्टये प्रेते-त्यूह्यम् एवं इत्यत्र ते इति आशीःप्रार्थनेयेभ्य इत्यत्र यस्मै इति तेषामित्यत्र तस्येत्यूह्यम् ।एतद्वः पितर इत्यत्र तु प्रेता इति विकृतावूहोन तु बहुवचनस्य एतद्वः पितरो वास इतिजल्पन् पृथक् पृथक् इति ब्रह्मपुराणेन प्रकृता-वेव पार्ब्बणे पित्रादिषु प्रत्येकमेतद्वः पितर इतिबहुवचनान्तमन्त्रप्रयोगात् अत्रानर्थक्येन तद्वि-कृतावेकोद्दिष्टेऽप्यसमवेतार्थबहुवचनस्यैव युक्त-त्वात् ततश्च प्रकृतौ समवेतार्थस्यैव विकृतावूहः ।सांवत्सरिके त्वेकवचनस्यैवोहो तु पितृपदस्यतत्र प्राप्तपितृलोकत्वेन तस्यैव युक्तत्वात् स्मृतिः ।“प्रेतश्राद्धे यदुच्छिष्टं ग्रहे पर्य्युषितञ्च यत् ।दम्पत्योर्भुक्तशेषञ्च भुञ्जीत कदाचन”
उच्छिष्टं पाकपात्रे अवशिष्टम् ग्रहे उपरागेपर्य्युषितं स्थितम् दम्पत्योराश्रमस्वामिनोर्भोजना-नन्तरं पाकस्थाल्यामवशिष्टमिति श्राद्धचिन्ता-मणिः
यत्तु देवलवचनम् ।“एकोद्दिष्टस्य शेषन्तु ब्राह्मणेभ्यः समुत्सृजेत् ।पश्चात् स्वयञ्च भुञ्जीत पुनर्मङ्गलभोजनम्”
इति तस्यैकोद्दिष्टशेषं ब्राह्मणेभ्यः समुत्सृजेत् नत्ववशेषयेत् पुनर्मङ्गलभोजनं पाकान्तरकृतान्नंभुञ्जीतेत्यन्वय इति
*
तत्करणकालो यथा ।ब्रह्मपुराणम् ।“पूर्व्वाह्णे मातृकं श्राद्धमपराह्णे तु पैत्रिकम् ।एकोद्दिष्टन्तु मध्याह्ने प्रातर्वृद्धिनिमित्तकम्”
मध्याह्ने तु विशेषमाह कालमाधवीये व्यासः ।“कुतपप्रथमे भागे एकोद्दिष्टमुपक्रमेत् ।आवर्त्तनसमीपे वा तत्रैव नियतात्मवान्”
आवर्त्तनं पश्चिमदिगवसथितच्छायायाः पूर्व्वदिग्-गमनारम्भकालः तत्समीपे कुतपशेषदण्डे ।यदाह गोतमः ।“आरभ्य कुतपे श्राद्धं कुर्य्यादारौहिणं बुधः ।विधिज्ञो विधिमास्थाय रौहिणन्तु लङ्घयेत्” ।तेन पूर्व्वदिवसीयकुतपरौहिणयोस्तत्तत्तिथेर्लाभेपरत्र कुतपमात्रलाभे शुक्लपक्षेऽपि पूर्व्वदिनेएकोद्दिष्टं उभयप्राप्त्यनुरोधात् पूर्व्वदिने कुत-पालाभे परत्र तल्लाभे कृष्णपक्षऽपि परदिनएवसमाप्तिकालादारम्भकालस्य बलवत्त्वात् तथा चबौधायनः ।“यो यस्य विहितः कालः कर्म्मणस्तदुपक्रमे ।तिथिर्याभिमता सा तु कार्य्या नोपक्रमोज्झिता”
उभयत्र कुतपमात्रालाभे शुक्लपक्षेऽपि पूर्व्वदिनेसमाप्तिकालानुरोधात् पूर्व्वदिने रौहिणालाभेपरत्र सप्तममुहूर्त्तलाभे कृष्णपक्षेऽपि परदिनेमध्याह्नानुरोधात् इति श्राद्धतत्त्वम्
*
एकोद्दिष्टविधिकसांवत्सरिकश्राद्धम् यथा, --“एकोद्दिष्टं पुरावश्यं तद्विशेषं वदे शृणु” ।प्रथमं निमन्त्रणं पादप्रक्षालनं आसनं अद्य अमुक-गोत्रस्य मत्पितुरमुकदेवशर्म्मणः प्रतिसांवत्-सरिकमेकोद्दिष्टं श्राद्धं सिद्धान्नेन युष्मास्वहं करिष्येश्राद्धकरणानुज्ञापनम् आसनं अर्घ्यः गन्धादि-दानं नित्यश्राद्धम् अन्नसङ्कल्पनं जप्यं निवीतीउत्तराभिमुखीभूयातिथिश्राद्धं कुर्य्यात् ततस्तृप्तिंज्ञात्वा दक्षिणाभिमुखो वामोपवीती उच्छिष्ट-समीपे ये अग्निदग्धा इति अन्नविकिरणम् ओँअमुकगोत्र मत्पितरमुकदेवशर्म्मन् एतत्ते जल-मवने निक्ष्व ये चात्र त्वामनुयांश्च त्वमनु तसै तेस्वधा इति रेखोपरि दक्षिणामुखवारिधारादा-नम् इति गारुडे २२३ अध्यायः