एकोद्दिष्ट (ekoddiSTa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishMonier Williams Cologne
EnglishL R Vaidya
Englishशब्दकल्पद्रुमः
Sanskritएकोद्दिष्टं, (एकः प्रेत एव उद्दिष्टो यत्र ।) प्रेतो-द्देश्यकश्राद्धम् । यथा । गोभिलः अथैकोद्दिष्ट-मेकं पवित्रमेकोऽर्घ्यः एकः पिण्डो नावाहनं नाग्नौ-करणं नात्र विश्वे देवाः स्वदितमिति तृप्तिप्रश्नःसुस्वदितमिति प्रत्युत्तरम् । उपतिष्ठतामित्यक्षय्य-स्थाने अभिरम्यतामिति विसर्गोऽभिरतोऽस्मीतिप्रतिवचनमेतत् प्रेतश्राद्धमिति ॥
* ॥
एतत् प्रेत-श्राद्धमित्युपसंहारात् एकं प्रेतमुद्दिश्य यद्दीयतेश्राद्धं तदेकोद्दिष्टमिति वैदिकप्रयोगाधीनंयौगिकम् । अतएव प्रतिसांवत्सरिकस्य नैको-द्दिष्टत्वं किन्त्वेकोद्दिष्टविधिकत्वं अत्रार्घ्यैक्याद्द्विद-लरूपसङ्केतितपवित्रैक्यप्राप्तौ एकं पवित्रमितिपुनरभिधानसार्थकत्वाय तदवयवैकदलपरम् । अत्रनावाहनं नाग्नौ करणमिति निषेधयोः पौर्ब्बा-पर्य्यादग्नौ करणपूर्व्वकालीनं प्रधानसम्बन्धि श्राद्ध-सूत्रोद्दिष्टं श्राद्धार्थावाहनमेव निषिध्यते न त्व-प्रधानसम्बन्धि पितृयज्ञवदित्यतिदेशप्राप्तं पिण्डा-र्थावाहनमिति । एतेन पिण्डार्थावाहननिषेधोमैथिलोक्तो हेयः । अत्राग्नौ करणनिषेधेन हुत-शेषस्यालाभे हुतशेषं दत्त्वा पात्रमालभ्य जपतिपृथिवीत्यादि स्वाहा इत्यन्तसूत्रोक्तपात्रालम्भन-स्यापि बाधः । आनन्तर्य्याभावात् अमृतमितिमन्त्रलिङ्गविरोधाच्च । स्वदितमिति तृप्तिप्रश्न इतितृप्ताः स्थ इति तृप्तिप्रश्ने स्वदितमिति प्रश्नः ।कुशमयब्राह्मणपक्षे तु प्रतिवचनानुपपत्त्या प्रश्न-स्यापि निवृत्तिः । अक्षय्यशब्दस्थाने उपतिष्ठता-मिति प्रयोगः अत्रोपतिष्ठतामित्यनेन अन्नादिक-मित्यस्यान्वये अस्त्वित्यस्य अन्वयानुपपत्त्या तस्या-प्यप्रयोगः । अतएव पितृदयितायामन्नादिकमुप-तिष्ठतामिति लिखितम् । अभिरम्यतामिति वाजेवाजे इति स्थाने अभिरम्यतामित्यनेन विसर्जन-मिति । एतदिति पूर्व्वोक्तेतिकर्त्तव्यताकश्राद्धमि-त्यर्थः । प्रेतश्राद्धं प्रेतस्य श्राद्धं न तु पार्ब्बणविकृति-त्वेन प्राप्तपितृलोकरूपपितुः श्राद्धं अकृतसपि-ण्डीकरणस्य तथाविधपितृत्वाभावात् । अतएवै-तन्न्यायमूलकमेवाश्वलायनगृह्यपरिशिष्टेऽपि पितृ-शब्दं न युञ्जीत पितृहा चोपजायते इत्युक्तम् ।अतएव विष्णुना प्रेतस्य नामगोत्राभ्यां दत्ताक्ष-य्योदकेषु इत्यत्र प्रेतनामगोत्राभ्यामित्यनेन प्रेत-स्येत्युक्तं न तु सम्बन्धिन इत्युक्तम् । ततश्च मन्त्रेप्राप्तपितृलोकोपाधिकएव पितृपदस्थाने प्रेत-पदोहो न तु अग्निस्वात्ताद्युपाधिके एवमभिलाप-वाक्येऽपि सम्बन्धित्वेन नोल्लेखः किन्तु प्रेतत्वेनअसम्बन्धिनोऽपि मठच्छात्रादेरपि प्रेतश्राद्धाधि-कारित्वात् । सांवत्सरिकश्राद्धे एकोद्दिष्टविकृ-तीभूतेऽपि प्राप्तपितृलोकोपाधिकपितृपदवन्मन्त्रेअभिलापे च सम्बन्धिबोधकपितृत्वेनैवोल्लेखः ।एवञ्च देवताभ्यः पितृभ्यश्च इत्यत्र न प्रेतपदोहःपितृपदस्य दिव्यपितृपरत्वात् । एवं नैकवचनोहो-ऽपि तथा मधु द्यौरस्तु नः पिता इत्यस्य द्यौः स्वर्गःपिता पितेव सर्व्वस्याधिगम्यत्वात् मध्वस्तु मधु-मयी भवत्विति भाष्यव्याखाने द्यौरिति पितेतिपदयोः सामानाधिकरण्यं प्रतीयते अत्र च द्युत्व-पितृत्वयोर्भेदेऽपि सामानाधिकरण्येनाभेदावगमात्दिवः पितृसाधर्म्म्यप्राप्तिरिति पितृपदं पितृ-तुल्यपरं न तु जनकपर प्राप्तपितृलोकपरं वेति ।तेनात्र मन्त्रे पितेत्येव वक्तव्यं न तु प्रेतपदोहः ।न वा पितृशब्दं न युञ्जीत इत्यनेन निषेधः । एव-मामावेति मन्त्रे पितरा इत्यत्र नोहः । एवं वृद्धि-श्राद्धेऽप्येतेषु नान्दीमुखविशेषणं न देयमेवेति ।अन्यत्र सर्व्वत्रोत्सर्गवाक्ये मन्त्रे च पितृपदप्रयोग-निषेधात् प्रेतपदोहः कार्य्यः । विष्णुः । एकवन्म-न्त्रानूहेत एकोद्दिष्टे इति एकवत् एकवचनवत्यथा स्यात्तथोहेत यथा पवित्र स्थो वैष्णव्यावित्यत्रपवित्रासि वैष्णवीति एवं विष्णोर्मनसा पूते स्थइत्यत्रापि पूतमसीति । अत्र पितरो मादयध्वंयथाभाग मा वृषायध्वं इति मन्त्रे अत्र प्रेत-मादयस्व यथाभाग मावृषायस्व इत्यूत्त्यम् । अमीमदन्तः पितर इत्यत्र अमी मदत् प्रेतं इति ।वृषायिषत इत्यत्र वृषायिष्टेति । एत पितर इतिपिण्डार्थावाहनमन्त्रे एहि प्रेत इति । सौम्यासइत्यत्र सौम्येति । दत्तास्मभ्यमित्यत्र देह्यस्मभ्य-मिति । नियच्छत इत्यत्र नियच्छेति । नमो वइत्यादिमन्त्रेषु पितर इति स्थानचतुष्टये प्रेते-त्यूह्यम् । एवं व इत्यत्र ते इति । आशीःप्रार्थनेयेभ्य इत्यत्र यस्मै इति । तेषामित्यत्र तस्येत्यूह्यम् ।एतद्वः पितर इत्यत्र तु प्रेता इति विकृतावूहोन तु बहुवचनस्य । एतद्वः पितरो वास इतिजल्पन् पृथक् पृथक् इति ब्रह्मपुराणेन प्रकृता-वेव पार्ब्बणे पित्रादिषु प्रत्येकमेतद्वः पितर इतिबहुवचनान्तमन्त्रप्रयोगात् अत्रानर्थक्येन तद्वि-कृतावेकोद्दिष्टेऽप्यसमवेतार्थबहुवचनस्यैव युक्त-त्वात् । ततश्च प्रकृतौ समवेतार्थस्यैव विकृतावूहः ।सांवत्सरिके त्वेकवचनस्यैवोहो न तु पितृपदस्यतत्र प्राप्तपितृलोकत्वेन तस्यैव युक्तत्वात् । स्मृतिः ।“प्रेतश्राद्धे यदुच्छिष्टं ग्रहे पर्य्युषितञ्च यत् ।दम्पत्योर्भुक्तशेषञ्च न भुञ्जीत कदाचन” ॥
उच्छिष्टं पाकपात्रे अवशिष्टम् । ग्रहे उपरागेपर्य्युषितं स्थितम् । दम्पत्योराश्रमस्वामिनोर्भोजना-नन्तरं पाकस्थाल्यामवशिष्टमिति श्राद्धचिन्ता-मणिः ॥
यत्तु देवलवचनम् ।“एकोद्दिष्टस्य शेषन्तु ब्राह्मणेभ्यः समुत्सृजेत् ।पश्चात् स्वयञ्च भुञ्जीत पुनर्मङ्गलभोजनम्” ॥
इति । तस्यैकोद्दिष्टशेषं ब्राह्मणेभ्यः समुत्सृजेत् नत्ववशेषयेत् पुनर्मङ्गलभोजनं पाकान्तरकृतान्नंभुञ्जीतेत्यन्वय इति ॥
* ॥
तत्करणकालो यथा ।ब्रह्मपुराणम् ।“पूर्व्वाह्णे मातृकं श्राद्धमपराह्णे तु पैत्रिकम् ।एकोद्दिष्टन्तु मध्याह्ने प्रातर्वृद्धिनिमित्तकम्” ॥
मध्याह्ने तु विशेषमाह कालमाधवीये व्यासः ।“कुतपप्रथमे भागे एकोद्दिष्टमुपक्रमेत् ।आवर्त्तनसमीपे वा तत्रैव नियतात्मवान्” ॥
आवर्त्तनं पश्चिमदिगवसथितच्छायायाः पूर्व्वदिग्-गमनारम्भकालः । तत्समीपे कुतपशेषदण्डे ।यदाह गोतमः ।“आरभ्य कुतपे श्राद्धं कुर्य्यादारौहिणं बुधः ।विधिज्ञो विधिमास्थाय रौहिणन्तु न लङ्घयेत्” ।तेन पूर्व्वदिवसीयकुतपरौहिणयोस्तत्तत्तिथेर्लाभेपरत्र कुतपमात्रलाभे शुक्लपक्षेऽपि पूर्व्वदिनेएकोद्दिष्टं उभयप्राप्त्यनुरोधात् । पूर्व्वदिने कुत-पालाभे परत्र तल्लाभे कृष्णपक्षऽपि परदिनएवसमाप्तिकालादारम्भकालस्य बलवत्त्वात् । तथा चबौधायनः ।“यो यस्य विहितः कालः कर्म्मणस्तदुपक्रमे ।तिथिर्याभिमता सा तु कार्य्या नोपक्रमोज्झिता” ॥
उभयत्र कुतपमात्रालाभे शुक्लपक्षेऽपि पूर्व्वदिनेसमाप्तिकालानुरोधात् पूर्व्वदिने रौहिणालाभेपरत्र सप्तममुहूर्त्तलाभे कृष्णपक्षेऽपि परदिनेमध्याह्नानुरोधात् । इति श्राद्धतत्त्वम् ॥
* ॥
एकोद्दिष्टविधिकसांवत्सरिकश्राद्धम् । यथा, --“एकोद्दिष्टं पुरावश्यं तद्विशेषं वदे शृणु” ।प्रथमं निमन्त्रणं पादप्रक्षालनं आसनं अद्य अमुक-गोत्रस्य मत्पितुरमुकदेवशर्म्मणः प्रतिसांवत्-सरिकमेकोद्दिष्टं श्राद्धं सिद्धान्नेन युष्मास्वहं करिष्येश्राद्धकरणानुज्ञापनम् । आसनं अर्घ्यः । गन्धादि-दानं नित्यश्राद्धम् । अन्नसङ्कल्पनं जप्यं निवीतीउत्तराभिमुखीभूयातिथिश्राद्धं कुर्य्यात् । ततस्तृप्तिंज्ञात्वा दक्षिणाभिमुखो वामोपवीती उच्छिष्ट-समीपे ये अग्निदग्धा इति अन्नविकिरणम् । ओँअमुकगोत्र मत्पितरमुकदेवशर्म्मन् एतत्ते जल-मवने निक्ष्व ये चात्र त्वामनुयांश्च त्वमनु तसै तेस्वधा । इति रेखोपरि दक्षिणामुखवारिधारादा-नम् । इति गारुडे २२३ अध्यायः ॥
वाचस्पत्यम्
Sanskritएकोद्दिष्ट एक प्रेतः उद्दिष्टोयत्र । प्रेतोद्देश्यके श्राद्ध-भेदे तस्य इतिकर्त्तव्यातादिकं श्रा० त० निरूपितं यथा ।गोभिलः । “अथैकोद्दिष्टमेकं पवित्रमेकोऽर्घ एकःपिण्डो नावाहनं नाग्नौकरणं नात्र विश्वेदेवाः स्व-दितमिति तृप्तिप्रश्नः सुस्वदितमिति प्रत्युत्तरम् उपतिष्टतामित्यक्षय्यस्थाने, अभिरम्यतामिति विसर्गे, अभिर-तोऽस्मीति प्रतिवचनमेतत् प्रेतश्राद्धमिति” । अथेत्यनेनै-कोद्दिष्टस्य पार्व्वणानन्तर्य्याभिधानं तयोः प्रकृतिविकृतित्वंसूचयति । अतएवैकोद्दिष्टे पार्व्वणधर्म्मप्राप्त्यावाहनादि-प्राप्तौ नावाहनमित्यादिनिषेध उपपद्यते अन्यथा प्रा-प्त्यभावान्निषेधोऽनुपपन्नः स्यात् । एतत् प्रेतश्राद्धमित्युप-संहारात् एकं प्रेतमुद्दिश्य यद्दीयते श्राद्ध तदेको-द्दिष्टमिति वैदिकप्रयोगाधीनयौगिकम् । अतएव प्रतिसां-वत्सरिकस्य नैकोद्दिष्टत्वं किन्त्वेकोद्दिष्टविधिकत्वम् । अत्रा-र्व्यैक्याद्द्विदलरूपसङ्केतितपवित्रैक्यप्राप्तौ एकं पवित्र-मिति पुनरभिधानसार्थकत्वाय तदवयवैकदलपरम् ।आज्योत्पवनप्रकरणे “बर्हिषः प्रादेशमात्रे पवित्रेकुरुते” इति गोभिलसूत्रे पवित्रपदस्य दलपरत्व-वत् । अत्र नावाहनं नाग्नौकरणमिति निषेधयोः पौ-र्व्वापर्य्यादग्नौकरणपूर्व्वकालीनं प्रधानसम्बन्धि श्राद्धसूत्रो-दितं श्राद्धाङ्गावाहनमेव निषिध्यते नत्वप्रधानसम्बन्धिपितृयज्ञवदित्यतिदेशप्राप्तं पिण्डाङ्गावाहन मिति । एतेनपिण्डाङ्गावाहननिषेधोमैथिलोक्तो हेयः । अत्राग्नौ-करणनिषेधेन हुतशेषस्यालाभे “हुतशेषं दत्त्वा पात्रमा-लभ्य जपति पृथिबीत्यादि स्वाहाइत्यन्तसूत्रोक्तपात्रा-लम्भनस्यापि बाधः आनन्तर्य्याभावात् अमृतमिति मन्त्र-लिङ्गविरोधाच्च । स्वदितमिति तृप्तिप्रश्न इति तृप्ताःस्थइति तृप्तिप्रश्ने, स्वदितमित प्रश्नः । कुशमयव्राह्मणपक्षेतु प्रतिवचनानुपपत्त्या प्रश्नस्यापि निवृत्तिः अक्षय्यशब्द-स्थाने उपतिष्ठतामिति प्रयोगः अत्रोपतिष्ठतामित्यनेना-न्नादिकमित्यस्यान्वये अस्त्वित्यस्यान्वयानुपपत्त्या तस्याप्यप्रयो-गः । अतएव पितृदयितायामन्नादिकमुपतिष्ठतामितिलिखितम् । ततश्च “प्रेतायाक्षय्यमस्तु च” इति ब्रह्मपुर-णीयं “ततो वदेत् पुनर्धीमानक्षय्यमुपतिष्ठताम्” इति मा-र्कण्डेयपुराणीयञ्च गोभिलविरुद्धत्वात् शाख्यन्तरीयम् ।अभिरम्यतामिति “वाजेवाजे” इति स्थानेऽभिरम्यतामि-त्यनेन विसर्जनमिति । एतेन “प्रेतत्याद्धेषु सर्वेषु न स्वधानाभिरम्यताम् । स्वस्त्यस्तु विसृजेदेवं सकृत् प्रणववजितम्”"इत्याश्वलायनगृह्यपरिशिष्टात् एकोद्दिष्टे प्रणववर्जित-स्वस्त्यस्त्वित्यनेन यद्विसर्जनं तत्प्रेतश्राद्धविषयम् अभि-रम्यतामिति तु सांवत्सरिकविषयमिति कल्पतरुश्रीदत्त-वाचस्पतिमिश्राद्युक्तं निरस्तम् । वह्वृचानामेव पा-र्व्वणेऽभिरम्यतामिति विसर्जनस्य प्राप्तत्वादेकोदिष्टेऽपितथात्वात् सर्व्वशाखिसाधारणनिषेधानुपपत्तेश्च । एत-दिति पूर्व्वोक्तेतिकर्त्तव्यताकश्राद्धमित्यर्थः । प्रेतश्राद्धंनतु पार्व्वणविकृतित्वेन प्राप्तपितृलोकरूपपितुः श्राद्धम्अकृतसपिण्डीकरणस्य तथाविधपितृत्वाभावात् । अतएव-तन्न्यायमूलकमेवाश्वलायनगृह्यपरिशिष्टेऽपि “पितृशब्दं नयुञ्जोत पितृहा चोपजायते” इत्युक्तम् । अतएव विष्णुना“प्रेतस्य नामगोत्राभ्यां दत्त्वाक्षय्योदकेषु” च इत्यत्र प्रेत-नामगोत्राभ्याभित्यनेन प्रेतस्येत्युक्त नतु सम्बन्धिन इत्युक्तम्ततश्च मन्त्रे प्राप्तपितृलोकोपाधिकएव पितृपदस्थाने प्रेत-पदोहो नतु अग्निष्वात्ताद्युपाधिके । एवमभिलापवाक्येसम्बन्धित्वे न नोल्लेस्यः किन्तु प्रेतत्वेन असम्बन्धिनोऽपिमठब्राह्मणादेरपि प्रेतश्राद्धाधिकारित्वात् । अतएव शा-तातपेनापि “प्रेतान्तनामगोत्राभ्यामुत्सृजेदुपतिष्ठताम्”इत्युक्तम् । अत्र प्रेतस्यान्तः प्रेतान्तो नतु सम्बन्धिवाचक-स्यान्तः नवा मैथिलोक्तो बहुब्रीहिस्तस्य तत्पुरुषापेक्षयाजघन्यत्वात्, प्रेतपदस्य सम्बन्धिस्थानीयत्वेन तत्पुरुषस्यैवयुक्तत्वाच्च । ततश्च प्रेतान्तनाम च गोत्रञ्च इति द्वन्द्वःअतएव तर्पणे विष्णुः “ततश्च सर्व्वे शवस्पर्शिनोगत्वा पितृ-पदस्थाने प्रेतपदोहेन द्वितीयान्तं तर्पयेयुः पितृशब्दोच्चा-रणे पितृहाभवति” इति । एतेषां वचनानां न्यायमूल-क्त्वात् सांवत्सरिकश्राद्धे एकोदिष्टविकृतीभूतेऽपि प्राप्त-पितृलोकोपाधिकपितृपदवन्मन्त्रेऽभिलापे च सम्बन्धि-बोधकपितृत्वेनैवोल्लेखः । एवञ्च देवताभ्यः पितृभ्यश्चेत्यत्रन प्रेतपदोहः तत्र पितृपदस्य दिव्यपितृपरत्वात् एवंनैकवचनोहोपि तथा “मधु द्यौरस्तु नः पिता” इत्यस्य द्यौःस्वर्गः पिता पितेव सर्व्वस्याधिगम्यत्वात् मध्वस्तु मधुमयीभवत्विति भाष्यव्याख्याने द्यौरिति पितेतिपदयोः सामाना-करण्यं प्रतीयते अत्र च द्युत्वपितृत्वयोर्भेदेऽपि धर्मिणोःसामानाधिकरण्येनाभेदावगमात् दिवः पितृसाधर्म्म्यप्राप्ति-रिति पितृपदं पितृतुल्यपरं नतु जनकपरंप्राप्तपितृलो-कपरं वेति तेनात्र मन्त्रे पितेत्येव वक्तव्यं नतु प्रेतपदोहः नवा “पितृशब्दं न युञ्जीत” इत्यनेन निषेधः । एवम्आमावेति मन्त्रे पितरेत्यत्र नोहः यदाऽहं श्राद्धं करोमितदा मातरपितरावागच्छतामित्यदुव्रजने क्रियमाणे श्राद्धफलस्य प्रार्थनीयत्वात् । एवं वृद्धिश्राद्धेऽप्येतेषु नान्दी-मुखविशेषणं न देयमेवेति अन्यत्र सर्व्वत्रोत्सर्गवाक्येमन्त्रे च पितृपदप्रयोगनिषेधात् प्रेतपदोहः कार्य्यः ।“अत्रैकोदिष्टे गोभिलानुक्तोविशेषोऽभिधीयते । यथाहविष्णुः “एकवन्मन्त्रानूहेतैकोदिष्टे” इति एकवत् एक-वचनवद्यथा स्यात्तथोहेत “अपूर्व्वोत्प्रेक्षणमूहः” (जै०)इत्युक्तेन पूर्व्वाप्राप्तैकवचनान्तत्वकल्पनेन बहुवचनान्तान्म-न्त्रान् विकृतान् कुर्य्यात् एकस्मिन् पितरि बहुवचनस्यासम-वेतार्थत्वात् प्रकृतावर्थप्रकाशनाख्यदृष्टप्रयोजनकस्य म-न्त्रस्य विकृतौ बहुवचनस्थाने एकवचनोहः कर्त्तव्यइति न्यायमूलमिदं वचनम् । यद्वा “पवित्रे स्थो वैष्ण-व्यावित्यत्र “पुवित्रासि वैष्णवी” इति न चात्र पवित्रमसिवैष्णवम् इति पितृदयितोक्तं युक्तं “पवित्रे स्थो वैष्णव्या-विति” मन्त्रस्य हे पवित्रे युवां विष्णुदेवताके स्थः भवथःस्त्रीलिङ्गत्वं छान्दसमिति सायनाचार्य्यव्याख्याने गुण-विष्णुनापि तथा व्याख्याने सम्बुद्ध्यन्तताप्रतीतेः । एवं“विष्णोर्मनसा पूते स्थः” इत्यत्रापि पूतमसीति । “अत्र पितरोमादयध्वं यथाभागमावृषायध्वम्” इति मन्त्रे अत्र प्रेत!मादयस्व यथाभागमावृषायस्वेत्युह्यम् । प्रार्थनार्थक-तृतीयलकारीयमध्यमपुरुषबहुवचनस्थाने तदेकवचनस्यैवउह्यत्वात् न तु भूतार्थकचतुर्थलकारीयमावृषायथा इत्य-निरुद्धभट्टोक्तो युक्तः अतएव श्रीदत्तादिभिरपि “मादय-स्वेत्युक्तम् “अमीमदन्त पितरः” इत्यत्र अमीमदत्प्रेतेतिवृषायिषतेत्यत्र वृषायिष्टेति । एत पितर इत्यादिपि-ण्डाङ्गावाहनमन्त्रे एहि प्रेतेति सौम्यासैत्यत्र सौम्येतिदत्तास्मभ्यमित्यत्र देह्यस्मभ्यमिति, नियच्छतेत्यत्र नियच्छेति, नमोवैत्यादिमन्त्रेषु पितर इति स्थानचतुष्टयेप्रेतेत्युह्यम् । एवं वैत्यत्र ते इति । आशीःप्रार्थने चयेभ्य इत्यत्र यस्मै इति तेषामित्यत्र तस्येत्युह्यम् ।एतद्वः पितरैत्यत्र तु प्रेता इति विकृतावूहो न तु ब-हुषचनस्य “एतद्वः पितरो वास इति जल्पन् पृथक् पृ-थक्” इति ब्रह्मपुराणेन प्रकृतावेव पार्व्वणे पित्रादिषुप्रत्येकमेतद्वः पितर इति बहुवचनान्तमन्त्रप्रयोगात् अ-त्रानर्थक्येन तद्विकृतावेकोदिष्टेऽप्यसमवेतार्थबहुवचनस्यैवयुक्तत्वात् । ततश्च प्रकृतौ समवेतार्थस्यैव विकृतावूहः ।सांवत्सरिके त्वेकवचनान्ततयैवोहो न तु पितृपदस्य तत्रप्राप्तपितृलोकत्वेन तथैव युक्तत्वात्” श्रा० त० रघुनन्दनः ।एकोद्दिष्टञ्च “द्वादश प्रतिमास्यानि आद्यं षाण्मासिकेतथा” इत्युक्त पञ्चष्टशश्राद्धात्मकम् । अत्र द्वादशपदं त्रयोदशा-नामप्युपलक्षणम् “संवत्सरे विवृद्धेऽपि प्रतिमासञ्च मासिकमिति” काल० मा० कौथुमिना वत्सरघटकप्रतिमासे तस्यविधानात् अत एव “द्वादश मासाः संवत्सरः क्वचित्त्रयोदश मासाः संवत्सरः” इति श्रुतौ वत्सरस्य त्रयोदश-मासात्मकत्वमुक्तम् ।अथैकोद्दिष्टनिमित्तकालोनिरूप्यते स च श्रा० त०रघुनन्दनेन दार्शतो यथायाज्ञवल्क्य । “मृताहान तु कर्त्तव्यं प्रतिमासन्तु वत्-सरम् । प्रतिसंवत्सरञ्चैवमाद्यमेकादशेऽहनि” । एका-दशेऽहनीति स्यस्वाशौचान्तद्वितीयदिनोपलक्षणम् ।“क्षत्रादिः सूतकान्ते तु भोजयेदयुजो द्विजान्” इतिमत्स्यपुराणैकवाक्यत्वात् । आद्यं षोडशश्राद्धानामादि-भूतम् । तथा च छन्दोगपरिशिष्टम् । “श्राद्धमग्निमतःकुर्य्यात् दाहादेकादशेऽहनि । ध्रुवाणि तु प्रकुर्व्वीतप्रमिताहनि सर्वदा । द्वादश प्रतिमास्यानि आद्यं षा-ण्मासिके तथा । सपिण्डीकरणञ्चैव इत्येव श्राद्धषोड-शम् । एकाहेन तु षण्मासा यदा स्युरपि वा त्रिभिः ।न्यूनाः संवत्सरश्चैव स्यातां षाण्मासिके तदा” । अग्नि-मतःश्रौताग्निमतो दाहादेकादशेऽहनि श्राद्धं कर्त्तव्यंतस्य दाहावधिदशाहाशौचित्वात् । अन्येषान्तु मर-णावधि तथा च शङ्खः “मरणादेव कर्त्तव्यम् सं-योगो यस्य नाग्निना । दाहादूर्द्ध्वमशौचं स्याद्यस्यवैतानको विधिः” । वैतानिकः श्रौतो होमः तस्मादग्नि-पदं श्रौताग्निपरम् । ततश्च केवलस्मार्त्ताग्निमतो निर-ग्नेश्च मरणादेवाशौचम् । ध्रुवाणि एतानि षोडश श्रा-द्धानि नित्यानि सर्वदा मृतधनालाभेऽपि । प्रमिताहनिमृततिथौ आद्यश्राद्धषाण्मासिकश्राङ्गद्वयेतरश्राद्धानिकार्य्याणि आद्यश्राद्धस्यैकादशाहे विधानात् षाण्मा-सिकयोस्तु कालान्तरविधानात् । अत्राशौचान्तद्वितीयदिव-सोयाद्यश्राद्धस्यादिभवत्वसमाख्यानुरोधेन तदुत्तरकर्त्तव्यमा-सिकतिथेर्मृततिथित्वानुपपत्त्या तत्सजातीयत्वमेव प्रती-यते । तेन प्रथममृततिथिं विहायान्यमृततिथिमादायमासिकादिसिद्धिरिति । एवञ्च एकाहेन तु षण्मासा-न्यूना इत्यनेन मृततिथिपूर्व्वतिथिः प्रतीयते । एवंत्रिभिरित्यत्रापि तथा संवत्सरस्याप्येकाहादिन्यूने । अत्रसंवत्सरकर्त्तव्यस्यापि षाण्मासिकत्वं द्वितीयषण्मासभव-त्वान्नानुपपन्नम् । संवत्सराभिधानन्त्वादिमध्याधिमासयुक्त-प्रथमाब्दस्य । “द्वादश मासाः संवत्सरः क्वचित्त्रयोदश मा-साः संवत्सरः” इति श्रुत्यनुसारेण त्रयोदशमासघटितत्वात्त्रयोदशमासएव द्वितीयषाण्मासिककरणाय कालः सप्तम-मासकर्त्तव्यस्यु षाण्मासिकत्वं “षष्ट्या तु दिवसैर्मासः क-थितो वादराथणैः” इत्यनेनाविरुद्धम् । ननु षोडशश्राद्ध-गणने द्वादशमासिकत्वमुक्तं कथंमलमासयुताव्दे त्रयोदश-मासिकत्वमिति चेन्न “संवत्सरस्य मध्ये तु यदि स्यादधि-मासकः । तदा त्रयोदशश्राद्धं कार्य्यं तदधिकं भवेत्”इतिसत्यव्रतवचनेन द्वादशमासिकादधिकं त्रयोदशमासिकंश्राद्धमित्युक्तेः । एतद्वचनं न्यायमूलकम् । “एवं मृताहनिप्रतिमासं श्राद्धं कुर्य्यादतन्त्रितः” “मृताहनि तु कर्त्तव्यं प्रति-मासन्तु वत्सरम्” इति वचनद्वयेन पूर्व्वोक्तश्रुतिप्राप्तत्रयीदश-मासात्मकं संवत्सरं व्याप्य मृततिथेर्मृततिथिं यावच्चान्द्रइत्युक्ततत्प्रतिमासकर्त्तव्यमासिकानुरोधेन तत्पक्षीयत-त्तत्तिथिषु श्राद्धमिति बोधयता अर्थापत्त्या वैशाखादिभूतस्यान्त्यमासिकं तन्मासीयतत्पक्षीयतत्तत्तिथिषु कर्त्तव्य-मिति बोधनात् मध्येऽधिमासपाते द्वादशे मासि मृतमा-सीयतिथ्यप्राप्त्या वर्षान्तविहितस्य मासिकस्य सपिण्डनस्यचाप्राप्तेः । एवमाद्याधिमामेऽपि अतएवाद्याव्देऽधिमास-पातेऽपि लघुहारीतेन द्वादशमासे यद्द्वादशमासिकमि-त्युक्तं तदन्त्याधिमासविषयम् तत्र द्वादशमासे मृतमा-सीयतत्तत्तिथिप्राप्तेः । यथा लघुहारीतः “प्रत्यव्दं द्वादशेमासि कार्य्या पिण्डक्रिया द्विजैः । क्वचित्त्रयोदशेऽपि स्या-दाद्यं मुक्त्वा तुवत्सरम् । चक्रवत् परिवर्त्तेत सूर्य्यः काल-वशाद्यतः । अतः सांवत्सरं श्राद्धं कर्त्तव्यं मास-चिह्नितम् । मासचिह्नन्तु कर्त्तव्यं पौषमाघाद्यमेव हि ।यतस्तत्र विधानेन मासः स परिकीर्त्तितः । असंक्रान्तेऽपिकत्तव्यमाविदकं प्रथमं द्विजैः । तथैव मासिकं पूर्व्वं सपिण्डीकरणन्तथा । गर्भे वार्द्धुषिकृत्ये च मृतानां पिण्डक-र्म्मसु । सपिण्डीकरणे चैव नाधिमासं विदुर्बुधाः” । सपि-ण्डीकरणादूर्द्ध्वं यत् किञ्चित् श्राद्धिकं भवेत् । इष्टं वाप्यथवा पूर्त्तं तन्न कुर्य्यान्मलिम्लुचे” श्रा० त० रघुनन्दनः ।एकोद्दिष्टञ्च मध्याह्नकालव्यापितिथौ कर्त्तव्यं यथाह“आमश्राद्धं तु पूवाह्णे एकोद्दिष्टन्तु मध्यतः । पार्वणंचापराह्णे तु प्रातर्वृद्धिनिमित्तकम्” हारी० । “पूर्वाह्णेदैविकं श्राद्धमपराह्णं तु पार्वणम् । एकोद्दिष्टं तु मध्याह्नेप्रातर्वृद्धिनिमित्तकम्” मनुः । “यो यस्य विहितः काल-स्तत्कालव्यापिनी तिथिः । तया कर्म्माणि कुर्वीत ह्रासवृद्धी न कारणम्” याज्ञ० । मध्याह्नकालश्च त्रिधा विभक्तदिनतृतीयभागरूप एव । तत्रापि कुतपप्रथमभागस्यैव तदा-रम्भकालः “कुतपे प्रथमे भागे एकोद्दिष्टमुपक्रमेत् ।आवर्त्तनसमीपे वा तत्रैव नियतात्मवान्” काल० व्यासोक्तेःआवर्त्तनं पश्चिमदिगवस्थितच्छायायां पूर्वदिग्गमनारम्भ-कालः तत्समोपे कुतपशेषदण्डे । गौतमोऽपि “आरभ्यकुतपे श्राद्धं कुर्य्यादारोहिणं बुधः । विधिज्ञो विधिमास्थायरोहिणन्तु न लङ्घयेत्” अत्र कुतपस्यारम्भकालतयोक्तेःपर्वेद्युः रोहिणमात्रलामे परदिने कुतपमात्रलाभेऽपिपरेद्युरेव श्राद्धं “योयस्यः विहितःकालः कर्म्मणस्तदुप-क्रमे । तिथिर्याभिमता सा तु ग्राह्या नोपक्रमोज्झिता”बौधायनेनोपक्रमयोग्यतिथेरव ग्राह्यतोक्तेः । उभयदिनेनुतपालाभे रोहिणमात्रलाभे तु तत्रैव श्राद्धम् “रोहिणन्तुक लङ्घयेदित्युक्तेः । उभयदिने तयोरलाभे सप्तममुहूर्त्तेकार्व्यं तस्यालाभे तयोर्लाभे वा पक्षभेदेन व्यवस्था “शुक्ल-पक्षेतिथिर्ग्राह्या यस्यामभ्युदितोरबिः । तया कर्म्माणिकुर्व्वीत ह्रासवृद्धी न कारणम् । कृष्णपक्षे तिथिर्ग्राह्यायस्यामस्तमितोरविः । तया कर्माणीत्यादि स्कन्दपु० उक्तेः ।“द्वितीयादिकयुग्मानां पूज्यता नियमादिषु । एकोद्दिष्टादि-वृद्ध्यादौ ह्रासवृद्ध्यादिदेशना” व्यासोक्तेश्च । तत्र स्कान्दवाक्येह्रासवृद्धिशब्दः तिथिविषयः व्यासवाक्ये चन्द्रह्रासवृद्धिपरस्तेनकृष्णशुक्लपक्षभेदेन व्यवस्थेति स्थितम् । तदेतत् कालमा०निर्ण्णीतम् यथा । “नन्वत्र क्षयवृद्ध्युपजीवनेन निर्णयःक्रियते । सचानुपपन्नः । व्यासवाक्ये ह्रासवृद्धिनोद-नायाः पित्र्याविषयत्वाभिधानात् । “एकोद्दिष्टादिवृ-द्ध्यादौ ह्रासवृद्ध्यादिनोदनेति” हि पूर्वमुदाहृतम् ।“दानव्रते चैतदेवेति” च अतः कथमनयोर्वृद्धिक्षयाभ्यांनिर्णयः । किंचोदाहृतयाज्ञवल्क्यस्कन्दपुराणगार्ग्यव-चनेषु “ह्रासवृद्धी न कारणमित्युक्तं तत्कथमत्रह्रासवृयोर्निर्णयकारणत्वम् । अत्रोच्यते । सन्तिह्यन्यानि ह्रासवृद्धिवाक्यानि । तत्रोशनाः, “खर्वो-दर्पस्तथा हिंस्रस्त्रिविधं तिथिलक्षणम् । खर्वदर्पौपरौ कार्य्यौ हिंसा स्यात् पूर्वकालिकी” । पिता-महोऽपि “खर्वोदर्पस्तथा हिंस्रस्त्रिविधं तिथिलक्षणम् ।खर्वदर्पौ परौ पूज्यौ हिंस्रं पूर्वत्र पूजयेदिति” भविष्यो-त्तरे “खर्वोदर्पस्तथा हिंसा त्रिविधं तिथिलक्षणम् । खर्व-दर्पौ परौ कार्य्यौ हिंसा स्यात् पूर्वकालिकीति” । खर्वःसाम्यमल्पक्षयो वा । दर्पो वृद्धिः । हिंसाधिकक्षयः । एतैःखर्वादिवाक्यैः सह यस्मिन्विषये युम्मादिवाक्यस्य विरोधःप्राप्नोति तत्र दैवपित्र्यभेदेन व्यवस्थापकं व्यासवाक्यम्ननु प्रकृतयोः क्षयवृद्ध्योः पित्र्यविषयत्वप्रतिपादकयाज्ञ-वल्क्यादिवचनेष्वपि कर्म्मकालव्याप्तिशास्त्रस्य खर्वदर्पादिशास्त्रस्य च विरोधेप्राप्ते सति कर्मकालव्याप्तिशास्त्रस्य प्रा-बल्यमुच्यते न तु प्रकृतयोः क्षयवृद्ध्योः निर्णयहेतुत्वंप्रतिषिध्यते । न तु व्यासः खर्व्वादिवाक्यानि पित्र्य-विषयत्वेन संकोचयामास, याज्ञवल्क्यादयस्त पित्र्येऽपिकर्मकालव्याप्त्या खर्व्वादिवाक्यान्यबाधन्त, हन्तैवं निर्बि-षयत्वमेषां प्रसज्येतेति चेत् मैवं यदा पूर्व्वोत्तरदिनयो-पित्र्यविषयकर्म्मकालव्याप्तिः समाना यदा वा दिनद्वयेऽपिकर्म्मकालव्याप्त्यभावः तत्रोभयत्र खर्व्वादिवाक्यैर्निणेतुमशक्यत्वात्” । तत्रैवास्य विषयलाभ इति भावः ।“एकोद्दिष्टे तु संप्राप्ते यदि विघ्नं प्रजायतेमासेऽन्यस्मिन् तिथौ तस्मिन् तदा दद्यात् विचक्षणःदेवलः” । एकोद्दिष्टविविकत्वात् सांवत्सरिकं श्राद्धमपिएकोद्दिष्टशब्देन शास्त्रे व्यवह्रियते । “एकेदिष्टं सुता दश”“एकोद्दिष्टं न पार्वणम्” इति च स्मृत्यीः सांवत्सरि-केऽपि तथा प्रयोगात् ।एकोद्दिष्टाधिकारिणस्तु निर्ण० सि० दर्शिताः यथा“चन्द्रिकायां सुमन्तुः “मातुः पितुः । प्रकुर्वीत संस्थित-स्यौरसः सुतः । पैतृमेधिकसंस्कारं मन्त्रपूर्व्वकमादृतः” ।तत्रैव हेमाद्रौ शङ्खः “पितुः पुत्रेण कर्त्तव्या पिण्डदानोदकक्रिया । पुत्राभावे तु पत्नी स्यात्तदभावे तु सोदरः ।अत्र पुत्रपदं यद्यपि क्षेत्रजादिद्वादशविघपुत्रपरम् । ते चद्वादशपुत्रा याज्ञवल्क्येनोक्ताः “औरसो धर्म्मपत्नीजस्त-त्समः पुत्रिकासुतः । क्षेत्रजः क्षेत्रजातस्तु सगोत्रेणेत-रेणवा । गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतः स्मृतः ।कानीनः कन्यकाजातो मातामहसुतःस्मृतः । अक्ष-तायां क्षतायां वा जातः पौनर्भवः स्मृतः । दद्यान्मातापिता वा यं स पुत्रोदत्तकोभवेत् । क्रीतश्च ताभ्यां वि-क्रीतः कृत्रिमः स्यात् स्वयंकृतः । दत्तात्मा तु स्वयंदत्तोगर्भे विन्नः सहोढजः । उत्सृष्टो गृह्यते यस्तु सोऽपविद्धोभ-वेत्सुतः । पिण्डदोऽंशहरश्चैषां पूर्व्वाभावे परःपरः” ।इति तथापि “दत्तौरसेतरेषां तु पुत्रत्वेन परिग्रहः” इतिहेमाद्रावादित्यपुराणे कलावितरेषां पुत्रत्वनिषेधादौ-रसदत्तपरमेव । यद्यपि “पिण्डदोऽंशहरश्चैषां पूर्व्वाभावेपरःपरः” इति याज्ञवल्क्योक्तेरौरसाभावे दत्तकप्राप्ति-स्तथाप्यौरसाभावे पौत्रः प्रपौत्रस्तदभावे दत्तकादश इतिज्ञेयम् । “पुत्रेण लोकान् जयति पौत्रेणानन्त्यम-श्नुते” इति “अथ पुत्रेण पौत्रेण ब्रध्नस्याप्नोति विष्टप-मिति” जीमूतवाहनधृतहारीतवसिष्ठशङ्खलिखितोक्तेः“लोकानन्त्यन्दिवःप्राप्तिः पुत्रपौत्रप्रपौत्रकैरिति” याज्ञ-वल्क्योक्तेश्च । “पुत्रः पौत्रश्च तत्पुत्रः पुत्रिकापुत्र एवच । पत्नी भ्राता च तज जश्च पिता माता स्रुषा तथा ।भगिनी भागिनेयश्च सपिण्डःसोदकस्तथा । असन्निधानेपूर्व्वेष मुत्तरे पिण्डदाः स्मृताः” इति स्मृतिसंग्रहे प्र-बौत्रानन्तरं पुत्रिकापुत्रीक्तेस्तत्समत्वाच्च दत्तकस्य । यद्यपिवृहस्पतिना “पौत्रश्च पुत्रिकापुत्रः स्वर्गप्राप्तिकरावुभौ ।रिक्थे च पिण्डदाने च समौ तौ परिकीर्त्तिताविति”पौत्रसाम्यमुक्तम् । याज्ञवल्क्येन च “औरसोधर्मपत्नीज-स्तत्समः पुत्रिकासुतः” इत्यौरससाम्यमुक्तम् “तथापि लोकेराजसमोमन्त्रीत्यादौ किञ्चिन्न्यूने समशब्दप्रयोगाद्गौणमुख्ययोः साम्यायोगाच्च स्तुत्यर्थन्तत् न तु समविकल्पइति भ्रमितव्यम् । “पुत्रः पौत्रः प्रपौत्रो वा भ्राता वाभ्रातृसन्ततिः । सपिण्डः सन्ततिर्वापि क्रियार्हा नृप ।जायते । एषामभावे सर्वेषां समानोदकसन्ततिः । मातृ-पक्षः सपिण्डेन सम्बद्धो यो जलेन वा । कुलद्वयेऽपिचोच्छिन्ने स्त्रीभिः कार्य्या क्रिया नृप! । तत्सङ्घान्तर्गतै-र्वापितद्रिक्थात्कारयेन्नृपः” इति विष्णुपुराणाच्च प्रपौत्रान-न्तरन्दत्तकादयः इति पृथ्वीचन्द्रमदनरत्नकालादर्शा-दयः । मदनपारिजातेऽप्येवम् । वोपदेवरुद्धधरादयस्तु“पुत्रेषु विद्यमानेषु नान्योवै कारयेत्स्वधाम्” इति सु-मन्तूक्तेः “पितामहः पितुः पश्चात्पञ्चत्वं यदि गच्छति ।पौत्रेणैकादशाहादि कर्त्तव्यं श्राद्धषोडशम् । नैतत्-पौत्रेण कर्त्तव्यं पुत्रवांश्चेत्पितामहः” इति छन्दोगपरि-शिष्टे च पुत्रशब्दस्य द्वादशविधसुतपरत्वात् पूर्व्वाभावेपरःपर इत्यस्यानन्यपरत्वाच्च दत्तकाद्यभावे पौत्रादी-नामधिकार इत्याहुः । अतएव निषेधादुपनीतपौत्र-सत्त्वेऽप्यनुपनीतपुत्रस्यैवाधिकारः । औरसश्चाप्यनुपनीतो-ऽपि कुर्य्यादित्याह पृथ्वीच० सुमन्तुः । “श्राद्धं कुर्य्यादवश्यतु प्रमीतपितृकोद्विजः । व्रतस्थो वाऽव्रतस्थो वा एकएवभवेद्यदि” वृद्धमनुः । “कुर्य्यादनुपनीतोपि श्राद्धमेको हियः सुतः । पितृयज्ञाहुतिं पाणौ जुहुबाद्ब्राह्म-णस्य सः” मनुः “नह्यस्मिन् युज्यते कर्म्माकञ्चिदामौ-ञ्जिबन्धनात्” । सुमन्तुरपि नाभिव्याहारयेद्ब्रह्म याव-न्मौञ्जी निबध्यते । मन्त्राननुपनीतोऽपि पठेदेवैक औरसः” ।ब्रह्म वेदम् मन्त्रपाठस्त्रिवर्षकृतचूडस्यैव । “अनुपेतोऽपिकुर्वीत मन्त्रवत्पैतृमेधिकम् । यद्यसौ कृतचूडःस्याद्यदिस्याच्च त्रिवत्सरः” इति सुमन्तूक्तेः । यत्तुव्याघ्रः“कृतचूडस्तु कुर्वीत उदकं पिण्डमेव च । स्वधाकारंप्रयुञ्जीत वेदोच्चारं न कारयेदिति” यच्च स्मृतिसंग्रहे“कृतचूडोऽनुपेतश्च पित्रोः श्राद्धं समाचरेत् । उदाहरे-त्स्वधाकारं न तु वेदाक्षराण्यसाविति” । तत्प्रथमवर्ष-चूडाविषयमिति माधवमदनरत्नपृथ्वीचन्द्राः । त्रिवर्षोर्द्ध्वंमन्त्रवत्त्वस्य विकल्प इति चन्द्रिका वोपदेवश्च । मदन-रत्नेस्कान्दे । “यज्ञेषु मन्त्रवत्कर्म पत्नी कुर्य्याद्यथा नृप! ।तथौद्ध्वदैहिकं कर्म कुर्य्यात् सा धर्मसंस्कृता” । अशक्तौ तुकात्यायनः । “असंस्कृतेन पत्न्या च अग्निदानं समन्त्रकम् ।कर्त्तव्यमितरत्सर्बं कारयेदन्यमेव हि” । पुत्रश्च न जन्मतो-ऽधिकारी किन्तु वर्षोत्तरमिति कालादर्शः “चौलादाद्याविद-कादर्वाक् न कुर्य्यात्पैतृमेधिकम्” इत्युक्तेः । मदनरत्ने सुम-न्तुरपि “पुत्रश्चोत्पत्तिमात्रेण संस्कुर्य्यादृणमोचनात् ।पितरं नाविदकाच्चौलात्पितृमेधेन कर्मणा” । एतच्चौरसस्यैवदत्तकादीनां तूपनीतानामेवाधिकारः इति कालादर्शः ।पृथ्वीच० स्कान्दे “पित्रोरनुपनीतोऽपि विदध्यादौरसः सुतः । और्द्ध्वदेहिकमन्येनु संस्कृताः श्राद्धकारिणः”इति । अन्यत्रापि दर्शमहालयादावनुपनीतस्याधि-कारोऽस्माभिः पूर्बमुक्तः । प्रपौत्राभावे दत्तकादयो द्वा-दश पुत्राः । तदभावे भर्त्तुः पत्नी तस्याश्च सः “अपुत्राशयनं भर्त्तुः पालयन्तो व्रते स्विता । पत्न्येव दद्यात् तत्-पिण्डं कृत्स्नमंशं लभेत चेति” वृद्धमनूक्तेः । “भार्य्या-पिण्डं पतिर्दद्याद्भर्त्तुर्भार्य्या तथैव च । श्वश्र्वादेश्च स्नुवाचैव तदभावे सपिण्डकाः” इति । पुत्राभावे तु पत्नी स्या-त्पत्न्यभावे सहोदरः” इति च हेमाद्रौ शङ्खोक्तेः । देव-याज्ञिकस्तु “कानीनगूढसहजपुनर्भूतनयाश्च ये । पत्न्य-भावेऽपि कुर्य्युस्ते अप्रशस्ताः स्मृताः हि ते” इतिस्मृतिसंग्रहात् पत्न्यभावे कानीनादय इत्याह ।पत्युरपि सपत्नी पुत्रे सति नाधिकारः । “पितृपत्न्यःसर्वामातरः” इति सुमन्तूक्तेः । “विदध्यादौरसः पुत्रोजनन्या और्द्ध्वदेहिकम् । तदभावे सपत्नीजः क्षेत्रजाद्या-स्तथा सुताः । तेषामभावे नृपतिस्तदभावे सपिण्डकाः”इति मदनरत्ने कात्यायनोक्तेः “बह्वीनामेकपत्नी-नामेष एव विधिः स्मृतः । एका चेत्पुत्रिणी तासांसर्वासां पिण्डदस्तु सः” इति वृहस्पतिवचनाच्च । अप-रार्कोऽप्येवम् । तेन यच्छ्राद्धविवेके उक्तम् “सत्यपि स-पत्नीपुत्रे पत्युरेवाधिकार इति तन्निरस्तम् । यच्च तत्रैवकात्यायनः “न भार्य्यायाः पतिर्दद्यादपुत्राया अपिक्वचित्” । यच्च विष्णुपु० “कुलद्वयेऽपि चोच्छिन्ने स्त्रीभिःकार्य्या क्रिया नृपेति” । यच्च मार्क० “सर्वाभावेस्त्रियः कुर्य्युः स्वभर्त्तृणाममन्त्रकमिति” । तदासुरादिवि-वाहोढाविषयम् “धर्म्म्यैर्विवाहैरूढा या मा पत्नीपरिकीर्त्तिता । क्रयक्रीता तुया नारी न सा पत्न्यभिधी-यते । न सा दैवे न सा पित्र्ये दासीं तां मुनयो विदु-रिति” माधवोये शातातपोक्तेः । यत्तु शुद्धिरत्नाकरःशूलपाणिश्च “अपुत्रस्य च या पुत्री सैव पिण्डप्रदा-भवेत् । तस्य पिण्डान् दशैकं वा एकाहेनैव निःक्षि-पेत्, इति जावालोक्तेः “भर्त्तुर्धनहरा पत्नी तां वि-ना दुहिता स्मृता । अङादङ्गात् सम्भवति पुत्रवद्दुहि-ता नृणामिति” वृहस्पतिना दुहितुर्द्धनहारित्वोक्तेश्चपुत्राभावे कन्या तदभावे पत्नी इत्याहतुः । तत् पूर्ब-विरोधात् “मातुर्दुहितरः शेषमृणात्ताभ्यऋतेऽन्वयः”इति दुहितुर्मातृधनहारित्वेन पुत्रस्य तच्छाद्धानधिकारा-पत्तेश्चोपेक्ष्यम् । वचनं भ्रातृपुत्राद्यभावविषयम् । पत्न्य-भावे अविभक्तस्य सोदरः पूर्बोक्तशङ्खवचनात् । वि-भक्तस्य तु दुहिता धनहारित्वात् पूर्बोक्तजाबालवचनाच्च । तत्राप्युढानूढासमवायेऽप्यूढैव “दुहितापुत्रवत् कुर्य्यान्मातापित्रोस्तु संस्कृता । अशौचमुदकंपिण्डमेकोद्दिष्टं सदा तयोरिति” भरद्वाजोक्तेः ।तदभावे दौहित्रः धनहारित्वात् । “मातापित्रोरु-पाध्यायाचार्य्ययोरौर्द्ध्वदेहिकम् । कुर्वन्मातामहस्यापि व्रतीन भ्रश्यते व्रतादिति” चन्द्रिकायां वृद्धमनूक्तेः “यथाव्रतस्थोऽपि सुतः पितुः कुर्य्यात्क्रियां नृप! । उद-काद्यां महाबाहो! दौहित्रो दुहितार्हतीति” अप-रार्के भविष्योक्तेश्च । एतद्धनहारिण आवश्यकं नान्यस्ये-त्याह तत्रैव स्कन्दः “श्राद्धं मातामहानां तु अवश्यंधनहारिणा । दौहित्रेणार्थनिष्कृत्यै कर्त्तव्यं पूर्व-मुत्तरमिति” । तेन दौहित्रोऽत्र पुत्रीकृत इति देव-याज्ञिकोक्तिः परास्ता । अत्र पत्नीदौहित्रसमवायेऽशंहरत्वात्पत्न्येव कुर्य्यात् । दौहित्रभ्रातृपुत्रसत्त्वे वि-भक्तस्य दौहित्रः । अविभागे भ्रातृपुत्रः । भ्रातृत-त्पुत्रसत्त्वे कनिष्ठश्चेद्भ्रातैव । ज्येष्ठश्चेत्तत्पुत्रः कुर्य्या-दिति दाक्षिणात्यग्रन्थः । हारलतादौ तु “भ्रातु-र्भ्राता स्वयं चक्रे तद्भार्य्या चेन्न विद्यते । तस्य भ्रातृ-सुतश्चक्रे यस्य नास्ति सहोदरः” इति ब्राह्मोक्तेः “पत्नीकुर्य्यात् सुताभावे पत्न्यभावे सहोदरः” इति कौर्माच्च ।ज्येष्ठभ्रातैव कुर्य्यान्न तत्पुत्रः । यत्तु “नानुजस्य तथाग्रजः” इति, तत्कनिष्ठभ्रातृसत्त्वविषयम् । यच्च मनुः “सर्वेषामेकजातानामेकश्चेत्पुत्रवान् भवेत् । सर्वास्तांस्तेनपुत्रेण पुत्रिणो मनुरब्रवीत्” इति तत् सोदराभावविषयमित्युक्तम् । एतेन पुत्रत्वातिदे शोऽयम् अतस्तस्मिनसत्येकादश पुत्राः प्रतिनिधयो न कार्य्याः । स एवपिण्डदोंऽशहरश्च” इत्यत्रापीति वाचस्पतिमनुटीकाकृत्यरत्नाकरादयः परास्ताः । मदनरत्ने स्मृतिसंग्रहे “पुत्रःकुर्यात्पितुः श्राद्धं पत्नी च तदसन्निधौ । धनहार्य्यपिदौहित्रस्ततोभ्राता च तत्सुतः । भ्रात्रोः सहोदरो-भ्राता । कुर्य्याद्दाहादि तत्सुतः । ततस्त्वसोदरभ्राता तद-भावे च तत्सुतः” इति । भ्रातृपुत्राभावे क्रमेण पितृ-मातृस्नुषास्वसृतत्पुत्रादयः धनहारित्वात् । “भगिनी-तत्सुतयोर्विशेषमाह मदनरत्ने कात्यायनः “अनुजोह्यग्रजो वापि भ्रातुः कुर्वीत संस्क्रियाम् । ततस्त्वसोद-रस्तद्वत्क्रमेण तर्पयेत्तयोः” अपरार्के कार्ष्णाजिनिः ।“पुत्रः शिष्योऽपि वा पत्नी पिता भ्राता स्नुषा गुरुः ।स्त्रीहारी धनहारीयः कुर्य्यात्पिण्डोदकक्रियाम्” । मार्क-ण्डेयपुराणे “पुत्रोभ्राता च तत्पुत्रः पत्नी माता तथापिता । वित्ताभावे तु शिष्यश्च कुर्वीरन्नौर्ध्वदेहिकम्” ।तेन धनहारी एतद्भिन्न इति कालादर्शः । अत्र पाठक्रमोन विवक्षितः पूर्व्ववाक्येषु अथ ततःशब्दादिभिः श्रौतक्रमोक्तेः “अथ जिह्वाया अथ वक्षसः” इति वत् । कृ-थ्वीयन्द्रोदये वृद्धमनुः । “स्नुषास्वस्रीयतत्पुत्रज्ञाति स-म्बन्धिबान्धवाः । पुत्राभावे तु कुर्वीरन् सपिण्डान्त यर्थाविधि” । मार्कण्डेयपुराणे “पुत्राद्युच्छिन्नबन्धोश्चसखापि श्वशुरस्य च । जामाता स्नेहवत् कुर्य्यादखिलंपैतृमेधिकम्” । चन्द्रिकायां वृद्धशातातपः “मातुलो-भागिनेयस्य स्वस्रीयो मातुलस्य च । श्वशुरस्य गुरोश्चैवसख्युर्मातामहस्य च । एतेषाञ्चैव भार्य्याणां श्वशुर्मातुःपितुस्तथा । श्राद्धमेषां तु कर्त्तव्यमिति वेदविदो-बिदुः” । शुद्धिविवेके ब्राह्मे “दत्तानां वाप्यदत्तानां कन्यानांकुरुते पिता । चतुर्थेऽहनि तास्तेषां कुर्वीरन् सुसमाहि-ताः” । दत्ता वाग्दत्ताः । “मातामहानां दौहित्राः कु-र्व्यन्त्यहनि चापरे । तेऽपि तेषां प्रकुर्वन्ति द्वितीयेऽहनिसर्वदा । जामातुः श्वशुराश्चक्रुस्तेषान्तेऽपि च संयताः ।मित्राणां तदपत्यानां श्रोत्रियाणां गुरोस्तथा । भागिनेय-सुतानां च सर्वेषान्त्वपरेऽहनि । राज्ञोऽसति सपिण्डे तुनिरपत्ये पुरोहितः । मन्त्री वा तदशौचान्ते पुरा चीर्त्वा-करोति सः” । अत्र द्वितीयाहादौ श्राद्धविधानमस्थिस-ञ्चयनपरम् । कालादर्शे “दाहादि मन्त्रवत्पित्रोर्विदध्या-दौरसः सुतः । तदभावे तु पौत्रश्च प्रपौत्रः पुत्रिका-सुतः । दौहित्रोधनहारी च भ्राता तत्पुत्र एव च ।पिता माता स्नुषा चैव स्वसा तत्पुत्र एव च । सपिण्डःसोदकोमातुः सपिण्डश्च सहोदकः । स्त्री च शिष्यर्त्वि-गाचार्य्या जामाता च सखाऽपि च । उच्छिन्नबन्धोरि-क्थेन कारयेदवनीपतिः” । गौतमः “पुत्राभावे सपि-ण्डाः शिष्याश्च दद्युस्तदभावे ऋत्विगाचार्य्यौ” । यत्तु चन्द्रि-काया वृद्धशातातपः “प्रीत्या श्राद्धं प्रकर्त्तव्यं सर्वेषां व-र्णिलिङ्गिनामिति” तत्सवर्णविषयम् । “ब्राह्मणस्त्वन्यवर्ण्णा-नां न कुर्य्यात्कर्म्म किञ्चन । कामाल्लोभाद्भयान्मोहात्कृत्वा तज्जातिनां व्रजेत्” इति ब्राह्मोक्तेः “न ब्राह्म-णेन कर्त्तव्यं शूद्रस्याप्यौर्ध्वदेहिकम् । शूद्रेण वाब्राह्मणस्य विना पारसवात् क्वचित्” इति पारस्करो-क्तेश्च । पारसवः ऊढशूद्धापुत्नः । अत्रेदन्तत्त्वं सर्व्व-पुत्रादेः पूर्व्वस्याभावे पत्न्यादेरधिकार उक्तः । तत्रा-भावोऽसन्निधिः नाशश्चोच्यते । अतएव पूर्व्वत्र “अस-न्निधाने पूर्व्वेषाम्” इत्युक्तम् । तत्रासन्निधौ पत्न्यादेः स-र्वत्राधिकारे प्राप्ते “प्रोषितावसिते पुत्रः कालादति-चिरादपि । एकादशाद्याः क्रमशोज्येष्ठस्यविधिवत्क्रियाः”“ज्येष्ठ नैव च यत्कृतम्” इत्याद्यैर्देशान्तरेऽपवादात्पुत्रनाशएव पत्र्यादेः सपिण्डनादावधिकारः । असन्निधौ तु पूर्व-मेव नोर्द्ध्वम् । अतोऽनधिकारिणा भ्रात्रादिना कृतमप्यकृत-मेवेति पुनरावर्त्तनीयम् । मासिकापकर्षोऽप्यावर्त्तनीयः ।एकादशाहमासिकानि नावर्त्त्यन्ते “तज्ज्यायसापि कर्त्त-व्यं सपिण्डीकरणं पुनरिति” वदावृत्तिविधानाभावा-दिति केचित् । तन्न अस्य निर्मूलत्वात् । अतस्तदपिकनिष्ठकृतमावर्त्त्यते वृद्धिश्रौतपिण्डपितृयज्ञार्थं तु कृतंनावर्त्त्यते । नासपिण्डेऽग्निमान् पुत्रः पितृयज्ञं समा-चरेत् । न पार्वणं नाभ्युदयिकं कुर्वन्न लभते फल-मिति” वृद्ध्युत्तरनिषेधनादिति “भ्राता वा भ्रातृपुत्रो वा”इत्यादिहारीतादिवचोभ्यः कनिष्ठादेरप्यधिकारात् तथाचात्र ज्येष्ठकर्तृकत्वबाधः । सपिण्डने तु बहु वक्तव्यं तन्नि-र्ण्णये वक्ष्यामः । अधिकारिविशेषेण क्रियाव्यवस्थोक्ता विष्णु-पुराणे (पूर्व्वादिक्रियाः शुद्धितत्त्वे दर्शयिष्यमाणाः) ।“प्रेते पितृत्वमापन्ने सपिण्डीकरणादनु । क्रियन्ते याःक्रया पुत्रै प्रोच्यन्तेतानृपोत्तराः । पितृमातृस-पिण्डैश्च समानसलिलैस्तथा । तत्सङ्घान्तर्गतैश्चैव राज्ञावा धनहारिणा । पूर्व्वा मध्याश्च कर्त्तव्याः पुत्रा-द्यैरेवचोत्तराः । दौहित्रैर्वा नरश्रेष्ठ! कार्य्यास्तत्त-नयैस्तथा । मृताहनि तु कर्त्तव्या स्त्रीणामप्युत्तराःकियाः” । दौहित्रतत्पुत्रयोर्द्धनहारिणोरिदम् । एव-मन्यत्व धनहर्त्तुः । “यश्चार्थहरः स पिण्डदायी स्यात्”शङ्खोक्तेः । “प्रेतस्य प्रेतकार्य्याणि अकृत्वा धनहारकः ।वर्ण्णानां यद्बधे प्रोक्तं तद्व्रतं प्रयतश्चरेदिति “पृथ्वीचन्द्रोदये-व्याघपादोक्तेः । मदनरत्ने स्कान्देऽपि “मलमेतन्म-नुष्याणां द्रविणं यत्प्रकीर्त्तित” मित्युक्त्वा “ऋषिभिस्तस्यनिर्दिष्टा निष्कृतिः पावनी परा । आदेहपतनात्तस्य कु-र्यात्पिण्डोदकक्रियाम्” इत्युक्तम् । क्रियानिबन्धे कात्या-यनः “न च माता न च पिता कुर्य्यात्पुत्रस्य पै-तृकम् । नाग्रजश्च तथा भ्राता भ्रातॄणां तु कनीयसाम्” ।पृथ्वीचन्द्रोदये बौधायनः । “पित्रा श्राद्धं न कर्त्तव्यं पुत्राणांतु कथञ्चन । भ्रात्रा चैव न कर्त्तव्यं भ्रातॄणाञ्च कनीय-साम् । यदि स्नेहेन कुर्वीत सपिण्डीकरणं विना ।गयायां तु विशेषेण ज्यायानपि समाचरेत्” । अन्याभावेपित्रादिरपि कुर्य्यात् । “उच्छिन्नबान्धतं प्रेतं पिता भ्राताथवाऽग्रजः । जननी वापि संस्कुर्य्यान्महदेनोऽन्यथा भवे-दिति” सुमन्तूक्तेः । ब्रह्मचारिणां तु शुद्धिद्धिविवेकेब्राह्मे “असमाप्तव्रतस्यापि कर्त्तव्यं ब्रह्मचारिणः । श्राद्धं तुमातापितृमिर्न तु तेषां करोति सः” । श्राद्धं मासिका-व्दिकादि सर्वं कार्य्यमित्यर्थः । नत्विति निषेधोऽन्यसत्त्वे ।यत्तुच्छन्दोगपरिशिष्टे “न त्यजेत्सूतके कर्म्म ब्रह्मचारीस्वयं क्वचित् । न दीक्षणात्परं यज्ञे न कृच्छ्रादितपश्चरन् ।पितर्य्यपि मृते नैषां दोषोभवति कर्हिचित् । अशौच कर्म्मणांन स्यात् त्र्यहं वा ब्रह्मचारिणाम्” । यच्च याज्ञवल्क्यः“न ब्रह्मचारिणः कुर्य्युरुदकम्पतितास्तथेति” । तदप्यन्यसत्त्वे ।अन्यागावे तु ब्रह्मचारिणापि कार्य्यम् पूर्व्वोक्तवृद्धमनुघचनात् । “आचार्य्यपित्रुपाध्यायान् निर्हृत्याऽपि व्रती-व्रती । स तदन्नं च नाश्नीयान्नच तैः सह संवसेदिति”तेनैबोक्तेः । “ब्रह्मचारिणः शवकर्मिणोव्रतान्निवृत्तिःअन्यत्र मातापित्रोरिति” वसिष्ठोक्तेः । अत्राशौचमेकाहंवक्ष्यामः । प्रागुपनयनात्तु पञ्चवर्षोत्तरं सपिण्डी-करणवर्ज्जं षोडशश्राद्धादि सर्व्वं कार्य्यमित्युक्तं देव-जानीये “असंस्कृतानां भूमौ पिण्डं दद्यात्संस्कृतानांकुशेष्विति” प्रचेतोवचनात् । एतच्चाग्रे वक्ष्यामः । अ-विभक्तानां विशेषमाह पृथ्वीचन्द्रोदये मरीचिः । “बहवःस्युर्यदा पुत्राः पितुरेकत्रवासिनः । सर्वेषां तु मतङ्कृत्वाज्येष्ठेनैव तु यत्कृतम् । द्रव्येण चाविभक्तेन सर्वैरेव कृत-म्भवेत्” । ज्येष्ठस्य कर्त्तव्येऽपि सर्वे फलभागिन इत्यर्थः ।तेन ये ब्रह्मचर्य्यपरान्नवर्ज्जनादयः कथिताः संस्कारास्तेसर्बेषां भवन्तोति सिद्धम् संसृष्टिनामप्येवम् तुल्यत्वात् ।विभक्तानां विशेषमाहोशनाः । “नवश्राद्धं सपिण्डत्वंब्राद्धान्यपि च षोडश । एकेनैव तु कार्याणि संविभक्तधनेष्वपि” । लघुहारीतः “सपिण्डीकरणान्तानि यानिश्राडानि षोडश । पृथङ्नैव सुताः कुर्युः पृथग्द्रव्याअपि क्वचित् । ऊर्द्ध्वं सपिण्डीकरणात् सर्वे कुर्युः पृ-थक्पृथक्” । मदनरत्ने “विभक्तास्त पृथक्कुर्युः प्रतिसंव-त्सराव्दिकम् । एकेनैवाविभक्तेषु कृते सर्वैस्तु तत्कृतम्”एतेनाब्दिकादिष्वविभक्तानामनियम इति वदन् शूल-पाणिः परास्तः” । अयमधिकारिक्रमोदाक्षिणात्यप्रचलितः ।गौडदेशवासिभिस्तु रघुनन्दनमतानुसारिणी व्यवस्था-द्रियते सा च व्यवस्था शुद्धितत्त्वे तेन दर्शिता यथाव्याघ्रः “कृतचूडस्तु कुर्वीत उदकं पिण्डमेव च” । एतच्चपुत्रेतरपरम् “असंस्कृतः सुतः श्रेष्ठोनापरोवेदपा-रगः” इति दायभागधृतात् । अन्यथा सुतत्वेनविशेषोपादानं व्यर्थं स्यात् । श्राद्धेऽनुपनीतस्य मन्त्र-पाठाधिकारमाह मनुः । “नाभिव्याहारयेद्व्रह्म स्वधा-निनयनादृते । शूद्रेण हि समस्तावद्यावद्वेदे न जायते” ।अभिव्याहारयेत् वदेदिति यावत् स्वार्थेणिच् ।तत्र प्रथमतोज्येष्ठपुत्रः यथाह मरीचिः “मृते पितरिपुत्रेण क्रिया कार्य्या विधानतः । बहवः स्युर्यदा पुत्राःपितुरेकत्र वासिनः । सर्वेषास्तु मतं कृत्वा ज्येष्ठेनैवतु यत् कृतम् । द्रव्येण चाविभक्तेन सर्वैरेव कृतं भवेत्” ।तदभावे यथाक्रमं कनिष्ठपुत्रपौत्रप्रपौत्राः । तथाचविष्णुपुराणम् “पुत्रः पौत्रः प्रपौत्रो वा तद्वद्वा भ्रातृ-सन्ततिः । सपिण्डसन्ततिर्वापि क्रियार्हा नृप! जायते” ।एतच्च षोडशश्राद्धपर्य्यन्तम् तथाच छन्दोगपरिशिष्टम्“पितामहः पितुः पश्चात् प्रेतत्वं यदि गच्छति ।पौत्रेणैकादशाहादि कर्त्तव्यं श्राद्धषोडशम् । नैतत्पौत्रेण कर्त्तव्यं पुत्रवांश्चेत् पितामहः” । सपिण्डीकरण-पर्य्यन्तमपृथक्कर्त्तव्यमाह लघुहारीतः “सपिण्डीकरणा-न्तानि यानि श्राद्धानि षोडश । पृथङ्नैव सुताः कुर्य्युःपृथग्द्रव्या अपि क्वचित्” । एषामभावे पत्नी तथाचशङ्खः “पितुः पुत्रेण कर्त्तव्या पिण्डदानोदकक्रिया ।तदभावे तु पत्नी स्यात्तदभावे सहोदरः । भार्य्यापिण्डंपतिर्दद्यात् भर्त्रेभार्य्या तथैव च” । इति “अपुत्रधनंपत्न्यभिगामि तदभावे दुहितृगामीत्यादि” विष्ण्वादिवचनेनधनाधिकारश्रुतेः । तदभावे इति प्रपौत्रपर्य्यन्ताभावपरंपार्वणपिण्डदातृत्वेन धनाधिकारित्वेन च तेषां बलव-त्त्वात् । “अपुत्रा स्त्री यथा पुत्रः पुत्रवत्यपि भर्त्तरि ।पिण्डं दद्यात् जलञ्चैव जलमात्रन्तु पुत्रिणी” इतिनिर्मूलं समूलत्वेऽपि बालदेशान्तरितपुत्रसद्भावविषयमितिश्राद्धविवेकप्रभृतयः । पत्न्यभावे कन्या । “अपुत्रस्य तुया पुत्री सैव पिण्डप्रदा भवेत् । तस्य पिण्डान् दशैवै-तानेकाहेनैव निर्वपेत्” इति ऋष्यशृङ्गवचनात् “गोत्र-ऋक्थानुगः पिण्डः” इति मनुवचनेन दत्ताद्यपेक्षयातस्याबलवत्वात् । कन्याभावे यथाक्रमं वाग्दत्तादत्ता-दौहित्राः “दत्तानां चाप्यदत्तानां कन्यानां कुरुते पिता ।चतुर्थेऽहनि मास्तेषां कुर्वीरन् सुसमाहिताः” इतिब्रह्मपुराणवचनात् । ननु “दुहिता पुत्रवत् कुर्य्यान्मा-तापित्रोश्च संस्कृता । अशौवमुदकं पिण्डमेकोद्दिष्टंसदा तयोः” इति शङ्खवचनात् पुत्रानन्तरमेव दुहित्रधि-कारश्रुतेः इति चेन्न पत्न्याः प्रथमं धनाधिकारश्रुतेःयथा याज्ञवल्क्यः । “पत्नी दुहितरश्चैव पितरौभ्रातरस्तया । तत्सुतोगोत्रजोबन्धुः शिष्य सुब्रह्म-चारिणः । एषामभावे पूर्वेषां धनभागुत्तरोत्तरः” इति ।तथा “मातामहानां दौहित्राः कुर्वन्त्यहनि चापरे” ।इति ब्रह्मपुराणात् । “पौत्रदौहित्रयोर्लोके न विशेषो-ऽस्ति धम्मतः । तयोर्हि माता पितरौ संभूतौ तस्यदेहतः” । इति मनुचनेन “पौत्रदौहित्रसयुक्ता ये तथाचिरजीविनः । प्रियङ्कराश्च बालानां ते नराः स्वर्गगा-मिनः” इति विष्णुधर्म्मोत्तरेण पौत्रतुल्यताभिधानाच्च ।तेन यथा पुत्राभावे पौत्रस्तथादुहित्रभावे दौहित्रः । नच दत्तकन्यादौहित्राभ्यां प्राक्सगोत्रत्वात् सोदराधिकारइति वाच्यम् गोत्रबलापेक्षया पिण्डदानादेर्धनसाध्य-त्वात् ऋक्थग्राहिणोर्दुहितृदौहित्रयोर्बलवत्त्वात् । अतएव दुहितृधनाधिकारे तद्धनेनं मृतोपकारकरणं हेतु-रित्याहापस्तम्बः । “अन्तेवास्यार्थांस्तदर्थेषु धर्म्मकृत्येषुप्रयोजयेत् दुहिता वेति” तदर्थेषु मासिकादिना तद्भोगार्थंधर्मकृत्येष्वदृष्टार्थमिति । “गोत्रऋक्थानुगः पिण्डः”इति मनूक्तेः । “अनंशौ क्लीवपतितौ जात्यन्धवधिरौतथा । उन्मत्तजडमूकाश्च ये च केचिन्निरिन्द्रियाः” । इतिमनूक्तानां “पितृद्विट्पतितः षण्डोयश्च स्यादौपपातिकः ।औरसाअपि नैतेऽंशं लभेरन् क्षेत्नजाः कुतः” इतिनारोदोक्तानाञ्च भागानधिकारिणां पिण्डदानानधि-कारः । जात्यन्धबधिरौ जन्मप्रभृतिअन्धबधिरौ निरिन्द्रियाःपङ्ग्वदयः श्रौतस्मार्त्तकर्म्मानधिकारिणोऽपि गृह्यन्तेइति रत्नाकरः । तथाच वृद्धशातातपः । “चाण्डालंपतितं व्यङ्गमुन्मत्तं शवहारकम् । सूतिकां सूयिकां नारींरजसा च परिप्लुताम् । श्वकुक्वुटवराहांश्च ग्राम्यान्संस्पृश्य मानवः । सचेलं सशिरःस्नात्वा तदानीमेव शु-ध्यति” । व्यङ्गः पाण्यादिविकलः । व्यङ्गोन्मत्तयोःसदाचारहीनत्वात् अस्पृश्यतेति प्रायश्चित्तविवेकः । श्रौ-तस्मार्त्तक्रियानधिकारित्वं सदाचारहोनत्वञ्च मूत्रपुरी-षाद्यशौचापनयनासमर्थत्वेनेति बोध्यम् । सूयिकां प्रस-वकारयित्रीम् । पितृद्विट् पोषणौर्द्ध्वदेहिकविमुखः । औ-पपातिकः उपपातकैः संस्पृष्टः । उपपातकेति प्रकाश-कारपाठेऽपि सएवार्थः । अपपात्रित इति पाठे तुराजबधादिदोषेण बान्धवैर्यस्य घटापवर्ज्जनं कृतमितिकल्पतरुः । व्यक्तं याज्ञबल्क्येनोक्तम् “न ब्रह्मचारिणःकुर्य्युरुदकं पतिता न च । पाषाण्डमाश्रितास्तनान व्रात्यान विकर्मणः । गर्भभर्त्तृद्रुहश्चैव सुरापाश्चैव योषितः” ।पाषण्डं त्रयीबाह्यधर्मम् । स्तेनाः सततं चौर्य्यवृत्तयः ।व्रात्याःषोडशवर्षपर्य्यन्तमप्राप्तोपनयनाः, विकर्मणः आ-लस्येनाश्रद्दधानतया स्वधर्म्माननुष्ठायिनः व्यङ्गत्वा-दिना स्वधर्म्मानुष्ठानासमर्थाश्च बोध्या इति “कश्चित्क्षिपति सत्पुत्रोदौहित्रोवा सहोदरः । गृहीत्वास्थीनितद्भस्म नीत्वा तोये विनिःक्षिपेत्” इत्यादिपुराणे क्रम-दर्शनादत्रापि दौहित्राभावे सोदरः पूर्व्योक्तशङ्खवचनेऽ-प्येवं क्रमोबोध्यः । अत्र ज्येष्ठः कनिष्ठश्चाविशेषात् । “नानु-जस्य तथाग्रज” इति छन्दोगपरिशिष्टं कनिष्ठभ्रातृसद्भाव-विषयं तयोरभावं तथाविधौ वैमात्रेयौ । “भ्रातुर्भ्रातास्वयं चक्रे तद्भार्य्या चेन्न विद्यते । तस्य भ्रातृसुतश्चक्रेयस्य नास्ति सहोदरः” इति ब्रह्मपुराणाद्वैमात्रेय-स्यापि एकजातत्वेन भ्रातृत्वात् । “देशान्तरस्थक्लीवैकवृष-णानसहोदरान्” इत्यादिछन्दोगपरिष्टेन परिवेदने वैमात्रे-यस्य भ्रातृत्वप्रसक्तावसहोदरानित्यनेन प्रतिप्रसवाच्च ।पितृव्यपुत्रादौ भ्रातृपदप्रयोगो गौणः । गुणश्च वीजि-पुरुषापेक्षया समानसंख्यजनकजम्यत्वमिति । धनिपित्रादिपिण्डद्वयद तुः सोदरपुत्राद् धनिपित्रादिपिण्डत्रयदातृत्वाद्वैमात्रेयस्य धनाधिकारित्वेन बलवत्त्वाच्च । ततश्चसहोदरैति पूर्व्वार्द्ध्वानुरोधात् वैमात्रेयपरमपि अन्यथासहोदराभावे वैमात्रेयसत्त्वे वैमात्रेयपुत्र घिकारापत्तेः ।तेन वैमात्रेयाभावे सोदरवैमात्रेयभ्रातृक्रमवत् सोदर-पुत्रस्तदभावे वैमात्रेयपुत्रः । तन्मातृभोम्यपिण्डदातृतयाप्रथमाधिकारित्वेन बलवत्त्वात् तस्यातिदिष्टपुत्रत्वाच्च । तद-भावे पिता । “पुत्रोभ्राता पिता वापि मातुलोगुरुरेवच ।एते पिण्डप्रदाज्ञेयाः सगोत्राश्चैव बान्धवाः” इति प्रचे-तोवचनात् । “न पुत्रस्य पिता दद्यात्” इति छन्दोग-परिशिष्टं भ्रातृपुत्रपर्य्यन्तसद्भावविषयम् । तदभावेमाता । “पुत्रोभ्राता पिता वापि” इत्यत्रापिशब्देन मातुःसमुच्चयात् । “पितरौ भ्रातरस्तथेत्यादौ धनाधिकारे तथादर्शनाच्च । अतएव श्राद्धविवेके पितुरभावे तुल्यन्याय-तया मातापीत्युक्तमिति । तदभावे पुत्रबधूः । तथाचशङ्खः “भार्य्यापिण्डं पतिर्दद्यात् भर्त्त्रे भार्य्या तथैव च ।श्वश्र्वादेश्च स्नुषा चैव तदभावे द्विजोत्तमः” । अत्रादिपदात् श्वशुरादेरपि परिग्रहः इतरत्र स्नुषात्वाभावात् ।द्विजोत्तमैत्यत्र सपिण्डक इति मैथिलानां पाठः । स्वस्व-पदोपात्तसपिण्डविशेषाभावे “अनन्तरः सपिण्डाद्यस्तस्यतस्य धनं भवेत्” इति धनाधिकारे तथादर्शनादत्रापिसन्निधितारतम्येन माता पुत्रबधूः पौत्री पौत्रबधूः प्रपौत्रीप्रपौत्रबधूः पितामहः पितामही पितृव्यादयः सपिण्डाश्चाधि-कारिणः” “पुत्रामावे स पिण्डाः” इति वक्ष्यमाणवचनात् ।शङ्खवचनस्थमैथिलपाठाच्च । तदभावे समानोदकाः! “सपि-ण्डसन्तनितिर्वापि” इति वक्ष्यमाणात् । सपिण्डसन्ततिःसमानोदकाइत्यर्थः । तदभावे सगोत्राः “सगोत्राश्चैवेति”“गोत्रऋक्थानुगःपिण्डः” इत्युक्तत्वात् “एषामभावे सर्व्वेषांसमानोदकसन्ततिरिति” वक्ष्यमाणाच्च । तदभावे माता-महः “दातामहाना दौहित्राः कुर्वन्त्यहनि चापरे ।तेऽपि तेषां प्रकुर्वन्ति द्वितीयेऽहनि सर्वदा” इति ब्रह्मपुरा-णात् । तदभावे मातुलः तदभावे भागिनेयः “मातुलोभागिनेयस्य स्वस्रीयोमातुलस्य च” इति शातातपीयपाठ-क्रमात् । तदभावे सन्निधिक्रमेण मातामहसपिण्डाः । तद-भावे मातामहसमानोदकाः । “सपिण्डसन्ततिर्व्वापि क्रिया-हानृप! जायते । एषामभावे सर्वेषां समानोदकसन्ततिः ।मातृपक्षस्य पिण्डेन सम्बद्धा ये जलेन वा” विष्णुपुरा-णात् । तदभावे श्वशुरः तदभावे जामाता “जामातुःश्वशुराश्चक्रुस्तेषां तेऽपि च संयताः” इति ब्रह्मपुराण-पाठक्रमात् । तदभावे पितामहीभ्राता । “भागिनेयसुता-नाञ्च सर्व्वेषान्त्वपरेहऽनि । श्राद्धं कार्य्यञ्च प्रथमे स्नात्वाकृत्वा जलक्रियाम्” इति ब्रह्मपुराणात् । अपरेऽहनिइत्यत्राशौचान्तदिनस्येति शेषः । तदभावे यथाक्रमंशिष्यर्त्विगाचार्य्याः गौतमेन “पुत्त्राभावे सपिण्डाःमातृसपिण्डा वा शिष्या वा दद्युः तदभावे ॠत्विगा-चार्य्यौ” इत्युक्तत्वात् । तदभावे सुहृत्पितृसुहृदौ“मित्राणां तदपत्यानामिति” व्रह्मपुराणपाठक्रमात् । तद-मावे एकग्रामवासी । “संघातान्तर्गतैर्वापि कार्य्या प्रेतस्य-सत्क्रिया” इति विष्णुपुराणात् तदभावे तद्धनं गृहीत्वायः कश्चित् सवर्णः । “उच्छन्नबन्धुश्चेच्छ्राद्धं कारयेदवनी-पतिः” इति विष्णुपुराणात् । और्द्ध्वदेहिकमधिकृत्य शि-ष्णुपुराणं “व्राह्मणस्त्वन्यवर्णानां न करोति कदाचन ।कामाल्लोभाद्भयान्मोहात् कृत्वा तज्जातितामियात्” ।स्त्रियास्तु यथाक्रमं पुत्त्रपौत्त्रप्रपौत्राः विष्णुपुराणे“पुत्रः पौत्रः प्रपौत्रो वा” इत्यविशेषश्रुतेः । तदभावेकन्या । “अपुत्रस्य च या पूत्री” इतस्योद्देश्यगतलिङ्गाविव-क्षया स्त्री पुंसाधारणत्वात् धनाधिकारित्वाच्च । तदभावेवाग्दत्ता “दत्तानामप्यदत्तानाम्” इत्यत्रापि पितृपदस्यमातृपदोपलक्षकत्वात् । तदभावे दत्ता “दुहिता पुत्रवत्कुर्य्यान्मातापित्रोश्च संस्कृता” इति मनुवचनात् ।तदभावे दौहित्रः प्रागुक्तब्रह्मपुराणे तथा दर्शनात् ।“पौत्रदौहित्रयोर्लोके न विशेषोऽस्ति धर्म्मतः । तयोर्हिमातापितरौ सम्भूतौ तस्य देहतः” इत्यनेन यथा पुत्रा-भावे पौत्रः तथा दुहित्रभावे दौहित्रः इति प्रागेवउक्तत्वात् । “मातुलोभागिनेयस्य स्वस्रीयोमातुलस्य च ।श्वशुरस्य गुरोश्चैव सख्युर्मातामहस्य च । एतेषां चैवभार्य्याभ्यः स्वमुर्मातुः पितुस्तथा । पिण्डदानन्तु कर्त्तव्य-मिति वेदविदां स्थितिः” इति वृद्धशातातपवचनेन मा-तामह्याश्च साक्षात् दौहित्रेण पिण्डदानश्रुतेः धनाधि-कारित्वाच्च । दौहित्राभावे सपत्नीपुत्रः । तस्य पुत्रत्वस्मरणात् । यथाह मनुः । “सर्व्वासामेकपत्नीनामेकाचेत् पुत्रिणी भवेत् । सर्व्वास्तास्तेन पुत्रेण प्राह पुत्र-वतीर्मनुः” । एकपत्नीनामिति एक्वः पतिर्यासामितिअत्र सपत्नीपुत्रस्य पुत्रत्वातिदेशात् तत्सत्त्वेऽपि स्त्रीणांसपिण्डनं मैथिलैरुक्तं तन्न “पुत्रेणैव तु कर्त्तव्यं सपि-ण्डीकरणं स्त्रियाः । पुरुषस्य पुनस्त्वन्ये भ्रातृपुत्रादयोपिये” इति लघुहारीतवचने एवकारेणातिदिष्टपुत्रनिषे-धात् । अतएवोत्तरार्द्धे म्नातृपुत्रोपादानं सङ्गच्छते ।अन्यथा पुंसां तत्र पुत्रत्वातिदेशात् पुत्रत्वेनैव प्राप्तेःभ्रातृपुत्रोपादानं व्यर्थं स्यात् । तथाह मनुः । “भ्रा-तॄणामेकजातनामेकश्चेत् पुत्रवान् भवेत् । सर्वे ते तेनपुत्रेण पुत्रिणोमनुरब्रवीत्” एकजातानामेकपितामातृ-जातानां तथाच “वृहस्पतिः । यद्येकजातावहवोभ्रातरःस्युः सहोदराः । एकस्यापि सुते जाते सर्व्वेते पुत्रि-णोमताः” । एतन्यायमूलं तदिति चेन्न आदिपदग्रा-ह्येषु “भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्यएव वा ।सहपिण्डक्रियां कृत्वा कुर्य्यादभ्युदयन्ततः” इति लघुहारी-तीक्तेषु न्यायानुपपत्तेः । भ्राता वेति वाशब्दात् पूर्वेषांदौहित्रादीनां तदपेक्षया प्रधानाधिकारिणां समुच्चयः । अतएव सपिण्डत्वेनैव भ्रातृतत्पुत्रयोरधिकारसिद्धौ पृथगुपा-दानं प्राधान्यज्ञापनार्थम् । पुत्रत्वातिदेशफलन्तु पुन्नामनर-कनिस्तारः । अतस्तत्सत्त्वे क्षेत्रजाद्यकरणञ्च । तथाहि“पुन्नाम्नोनरकाद्यस्मात्त्रायते पितरं सुतः । मुखसन्द-र्शनेनापि तदुत्पत्तौ यतेत सः” इति मनुवचने पुन्नाम-नरकत्राणाय पुत्त्रोत्पादनं विहितम् । तच्च फलं यद्यति-दिष्टपुत्राभ्यां भ्रातृसपत्नीजाभ्यां निष्पन्नं तदा सिद्धे इच्छा-विरहात् तदुपायान्तरपुत्रप्रतिनिधीभूतक्षेत्रजादेर्नोपादा-नम् । पुत्रोत्पादनन्तु तथापि कार्य्यं पुत्रसत्त्वेऽपिपुत्रान्तरेच्छाविधानेन तत्कर्त्तव्यताप्रतीतेः यथा मत्स्यपुराणम् । “एष्टव्याबहवः पुत्रायद्यप्येकीगयां व्रजेत् ।यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत्” । एवमेवकल्पतरुपारिजातशूलपाणिमहामहोपाध्यायरत्नाकरवाचस्पतिमिश्रादयः । स्त्रीणामपि पुत्त्रात् पुन्नामनरकनिस्तारणमाहतूरत्नाकरे शङ्खलिखितौ “आत्मा पुत्त्रइति प्रोक्तः पितुर्मातुरनुग्रहात् । पुन्नाम्नस्त्रायते पुत्त्र-स्तेनापि पुत्त्रसंज्ञितः” । पूर्वोक्तलघुहारीतवचने पुत्त्रे-णेति तत्सत्त्वमात्रं विवक्षितम् । “सपिण्डीकरणन्तानाम्पुत्त्राभावे न विद्यते” इति मार्कण्डेयपुराणैकवाक्य-त्वात् । “यानि पञ्चदशाद्यानि अपुत्त्रस्येतराणि च ।एकस्यैव तु दातव्यमपुत्त्रायाश्च योषितः” इति छन्दो-गपरिशिष्टेनापुत्त्राया एवाद्यपञ्चदशश्राद्धैः प्रेतत्वपरिहा-रोक्तत्वाच्च । एतत् पत्युरभावे द्रष्टव्यम् । “अपुत्त्रायां मृ-तायान्तु पतिः कुर्य्यात् सपिण्डनम् । श्वश्र्वादिभिः स-हैवास्याः सपिण्डीकरणं भवेत्” इति पैठीनसिवचनात् ।ततश्च यथा शिशौ पुत्रेऽन्येन्यापि सपिण्ड्यते । एवं पति-सत्त्वेऽपि । अतएव मैथिलैरवीवरायाः सपिण्डनं नास्ती-त्युक्तम् तदमावे पतिः । “भार्य्यापिण्डं पतिर्दद्यात्”इति शङ्खवचनात् । “न जायायाः पतिः कुर्य्यादपुत्रायाअपि क्वचित्” इति छन्दोगपरिशिष्टवचनम् मपत्नीपुत्रपर्य्य-न्तसद्भावविषयम् । पत्यभावे स्नुषा “श्वश्र्वादेश्च स्नुषा चैव”इति यमवचनात् । तदभावे सान्निध्यक्रमेण सपिण्डाः ।शङ्खवचने “तदभावे सपिण्डकाः इति मैथिलपाठात्” ।“तदभावे सपिण्डः” इति पूर्वोक्तगोतमवचने सामान्यतःश्रुतेश्च । तदभावे सनानीदकाः । “सपिण्डसन्ततिर्वेत्यविशे-षश्रुतेः । तदभावे सगोत्राः । समानोदकसन्ततिरिति व-क्ष्यमाणात् । श्राद्धविवेकेऽप्येवम् । एषामभावे पिता ।“दत्तानाञ्चाप्यदत्तानां कन्यानां कुरुते पिता” इत्युक्त-त्वात् । तदभावे भ्राता । “पुत्रोभ्राता पिता वापि”इत्यविशेषश्रुतेः । तदभावे यथाक्रमं दायभागोक्तो-पकारतारतम्येन “मातुलोभागिनेयस्थ स्वस्रीयोमातु-लस्य च । श्वशुरस्य गुरोश्चैव सख्युर्मातामहस्य च ।एतेषाञ्चैव भार्य्याभ्यः स्वसुर्मातुः पितुस्तथा । पिण्डदा-नन्तु कर्त्तव्यमिति वेदविदां स्थितिः” इति शाताप-बचनात् भगिनीपुत्रभर्त्तृभागिनेयभ्रातृपुत्रजामातृभर्त्तृ-मातुलभर्त्तृशिष्याः पत्यपेक्षया पौत्रादिवत् पिण्डदाम-तारतम्येन क्रमेणा धिकारिणः । तथाहि तत्पिण्डतत्-पुत्रदेयतत्पित्रादिपिण्डत्रयदातृत्वात् भगिनीपुत्रः । तद-भावे भर्त्तृभागिनेथः । पुत्राद्भर्त्तुर्दुबलत्वेन तत्स्थान-पातिनोऽपि तथैवा । बलाबलस्य न्याय्यत्वेन तद्भर्त्तृदेयपुरुष-त्रयपिण्डतद्भर्त्त पिण्डदत्वात् । तदभावे भ्रातृपुत्रः ।तत्पिण्डतत्पुत्रदेयतत्पित्रादिपिण्डद्वयदत्वात् । तदभावेजामाता । “मातृष्वसा मातुलानी पितृव्यस्त्री पितृ-ष्वसा । श्वश्रूः पूर्व्वजपत्नी च मातृतुल्या प्रकीर्त्तिता”इति वृहस्पतिबचनेन मातृष्वस्रादीनां मातृतुल्यत्वाभि-धानात् । स्वस्रीयाद्यैः सह जामातुः पुत्रतुल्यत्व-प्रतीतेः । अतएव तेषां धनभागित्वमाह वृहस्पतिः ।“यदासामौरसोन स्यात् सुतोदौहित्रएव वा । तत्सुतोवाधनं तासां खस्रीयाद्याः समाप्नुयुः” । धनग्राहित्वे-नापि पिण्डदातृत्वमाह मनुः । “गोत्रऋक्थानुगः-पिण्डः” इति । तदभावे भत्तृमातुलभर्त्तृशिष्याःक्रमेणाधिकारिणः शातातपीयपाठक्रमानुरोधात् ।प्रातिस्विकानामभावे पितृवंश्यमातृवंश्यौ । “पितृमातृ-सपिण्डैश्च समानसलिलेर्नृप!” इति ब्रह्मपुराणेऽविशेष-श्रुतेः । तयोरभावेऽसम्बन्धी द्विजोत्तमः पूर्व्वोक्तशङ्ख-वचने द्विजोत्तम इति गौडीयपाठात् संघातान्तर्गतै-र्व्वापीति अविशेषश्रुतेः ।त्रिधाक्रियाकर्त्तॄनाह विष्णुपुराणम् “पुत्रः पौत्रःप्रपौत्रोवा तद्वद्वा भ्रातृसन्ततिः । सपिण्डसन्ततिर्वापि-क्रियार्हा नृप! जायते । एषामभावं सर्वेषां समानो-दकसन्ततिः । मातृपक्षस्य पिण्डेन सम्बद्धांये जलेनवा । कुलद्वयेऽपि वोत्सन्ने स्त्रीभिः कार्य्या क्रियानृप । संघातान्तर्गतैवापि कार्य्या प्रेतस्य सत्क्रिया ।उत्सन्नबन्धोरृक्थाद्वा कारयदेवनीपतिः । पूर्वाः क्रियामध्यमाश्च तथा चैवोत्तराः क्रियाः । त्रिप्रकाराःक्रियाह्येतास्तासां भेदान् शृणुष्व मे । आदाह-वाय्यांयुधादिस्पर्शाद्यन्ताश्च याः क्रियाः । ताः पूर्वामध्य-मामासिमास्येकोद्दिष्टसंज्ञिताः । प्रेते पितृत्वमापन्ने स-पिण्डीकरणादनु । क्रियन्ते याः क्रियाः पित्र्याः प्रो-च्यन्ते तानृपोत्तराः । पितृमातृसपिण्डैश्च समानसलिलै-र्नृप! । संघातान्तर्गतैर्वापि राज्ञा वा धनहारिणा । पू-र्वक्रियास्तु कर्त्तव्याः पुत्राद्यैरेव चोत्तराः । दौहित्रैर्वानरश्रेष्ठ! कार्य्यास्तत्तनयैस्तथा । मृताहनि तु कर्त्तव्याःस्त्रोणामप्युत्तराः क्रियाः । प्रतिसंवत्सरं राजन् । एको-द्दिष्टं विधानतः” । आदाहेति दाहावधेरशौचान्तविहि-तवार्य्यायुधादिस्पर्शाद्यन्तास्ताः पूर्वाः । मासिमासीत्येकादशा-हादिसपिण्डनान्तप्रेतक्रियोपलक्षणम् । सपिण्डनोत्तराःपार्वणादिक्रिया उत्तराः । अत्र पुत्रादिसपिण्डादयःपूर्वाः क्रिया अवश्यं कुर्य्युः । मध्यमक्रियायामनियमः ।उत्तरक्रियायां पुत्रादयो भ्रातृसन्ततिपर्य्यन्तानियताः ।श्राद्धविवेकेऽप्येवम् । दौहित्रैर्वेति वाशब्दः समुच्चयार्थःतेन दौहित्रोऽप्युत्तरक्रियायां नियताधिकारी । दौ-हित्रतनयैरिति पुत्रिकापुत्रविषयमिति कल्पतरुः । कर्त्तृ-प्रकरणात् स्त्रीणामिति “वा कर्त्तरि कृत्ये” इति कर्त्तरिषष्ठी । उत्तरक्रियायां प्रतिसंवत्सरमेकोद्दिष्टविधाननिय-मात् । न पार्वणवृद्धिश्राद्धादौ स्त्रीणामधिकारः ।मार्कण्डेयपुराणम् “सर्वाभावे स्त्रियः कुर्य्युः स्वभर्तॄ-णाममन्त्रकम् । तदभावे च नृपतिः कारयेत् स्वकुटुम्ब-वत् । स्त्रीणामप्येवममेवंतदेकोद्दिष्टमुदाहृतम् । मृता-हनि यथान्यायं नॄणां यद्वदिहोदितम्” । स्त्रियोऽत्रा-सवर्णोढाऽपरिणीता वेति श्राद्धविवेकः । सवर्णोढायाः-पुत्रपौत्रपर्य्यन्ताभावएव विधानात् । स्त्रीणामिति तुसंप्रदानपरम् । एवमेवामन्त्रकमिति श्राद्धविवेकः । अत्रस्त्रियैत्यस्यासवर्णोढाऽपरिणीतापरत्वव्याख्यानात् स्त्रीणांमन्त्रतिषेधोऽपि तत्संप्रदानकश्राद्धएवावगम्यते । नतु स्त्री-मात्रसंप्रदानके । एतच्च विप्रेतरपरं तस्य हीनवर्णश्रा-द्धनिषेधात् । कल्पतरौ तु स्त्रीणामप्येवमिति सम्बन्धेनस्त्रीणामेतत् कर्त्तव्यमिति एतद्व्यख्यने स्त्रीसम्प्रदानक-श्राद्धे सुतरां मन्त्राः पाठ्याः । याज्ञवल्क्येनापि समन्त्रक-मेकोद्दिष्टं सपिण्डीनञ्चोक्त्वा । एतत् सपिण्डकरणमेकोद्दिष्टंस्त्रियाअपि इत्यनेन स्त्रियाअपि तथैवेत्युक्तम् । “मातुःसपिण्डीकरणं पितामह्या सहोदितम् । यथोक्तेनैव क-ल्पेन पुत्रिकाया न चेत् सुतः” इति छन्दोगपरिशि-ष्टेनापि यथोक्तेनैव कल्पेनेत्यनेन मन्त्रादिकमतिदिष्टम् ।व्यवहारोऽपि तथेति ।तदयसंक्षेपः । ज्येष्टपुत्रकनिष्ठपुत्रपौत्रप्रपौत्रापुत्रपत्नी-कम्मासमर्थपुत्रयुक्तपत्नीकन्यावाग्दत्तादत्तकन्यादौहित्रकनि-ष्ठसहोदरज्येष्ठसहोदरकनिष्ठवैमात्रेयज्येष्ठवैमात्रेयकनिष्ठसहोदरपुत्रज्येष्ठसोदरपुत्रकनिष्ठवैमात्रेयपुत्रज्येष्ठवैमात्रेय-पुत्त्रपितृमातृपुत्त्रबधूपौत्रीपौत्रबधूप्रपौत्रीप्रपौत्रबधूपिता-महपितामहीपितृव्यादिसपिण्डसमानोदकसगोत्रमातामह-मातुलभागिनेयमातृपक्षसपिण्डतत्समानोदकासवर्णभार्य्या-ऽपरिणीतस्त्रीश्वशुरजामातृपितामहीभ्रातृशिष्यर्त्विगाचार्य्यमित्रपितृमित्रैकग्रामवास्यगृहीतवेतनसजातीयाः अष्ट-चत्वारिंशत्प्रकाराः क्रमेणाधिकारिणः ।स्त्रियास्तु ज्येष्ठपुत्रकनिष्ठपुत्रपौत्रप्रपौत्रकन्यावाग्दत्ता-दत्तादौहित्रसपत्नीपुत्रपतिस्नुषासपिण्डसमानोदकसगोत्रपि-तृभ्रातृभगिनीपुत्रभर्त्तृभागिनेयभ्रातृपुत्रजामातृभर्त्तृमातुल-भर्त्तृशिष्यपितृसमानोदकपितृवंश्यमातृसमानोदकमा तृ-वंश्यद्विजोत्तमाश्चतुर्विंशतिप्रतिकाराः” इतिअथाविदकश्राद्धरूपैकोदिष्टे विशेषः श्रा० त० निर्ण्णीतःयथा गोभिलः । “अतऊर्द्ध्वं संवत्सरे संवत्सरे प्रेतायान्नंदद्यात् यस्मिन्नहनि प्रेतः स्यादिति” । अतऊर्द्ध्वं सपिण्डीकरणान्तश्राद्धनिमित्तादाद्यसंवत्सरादूर्द्ध्वं संवत्सरे संवत्सरेप्रतिवर्षं यस्मिन्नहनि मृतस्तस्मिन्नहनि मृताय दद्यात् ।व्याघ्रः । “प्रतिमंवत्सरञ्चैवमेकोद्दिष्टं मृताहनि” । एतेनसपिण्डीकरणापकर्षे आद्यसंवत्सरेऽपि मृताहे श्राद्धान्तरंकर्त्तव्यमिति मैथिलोक्तं हेयम् । व्यक्तमाह हेमाद्रिधृत-वचनम् । “पूर्णे संवत्सरे श्राद्धं षोडशं परिकीर्त्तितम् ।तेनैव च सपिण्डत्वं तेनैवाविदकमिष्यते” । अत्र पूणसव-त्सरक्रियमाणश्राद्धाद्यथीभयनिर्व्वाहस्तथापकृष्टसपिण्डी-करणश्राद्धादप्युभयनिर्व्वाहो न पूर्णसंवत्सरे आव्दि-कान्तरम् एवं पञ्चदशश्राद्धेऽप्युन्नेयम् । मत्स्यपुराणम्“ततःप्रभृति संक्रान्तावुपरागादिपर्व्वसु । त्रिपिण्डमा-चरेत् श्राद्धमेकोद्दिष्टं मृताहनि” । ततः प्रेतत्वपरीहा-रात् त्रिपिण्डं त्रैपुरुषम् । निरुपपदमृताहशब्दः मृतसम्ब-न्धिमासपक्षतिथिविशेषपरः । उपपदात्तु क्वचित्तिथिविशेष-मात्रपरः । यथा मृताहे प्रतिमासम् कुर्य्यादित्यादौ । शङ्खः“सपिण्डीकरणादूर्द्ध्वं यत्रयत्र प्रदीयते । तत्र तत्र त्रयम्कुर्य्यात् वर्जयित्वा मृताहनि । अमावस्याम् क्षयो यस्यप्रेतपक्षेऽथवा पुनः । सपिण्डीकरणादूर्द्ध्वं तस्योक्तः पा-र्व्वणो विधिः” । त्नयं सम्प्रदानानां त्रयं कुर्य्यात्त्रिभ्यो दद्यादित्यर्थः । मृताहपर्य्युदस्तत्रिदेवतत्वस्य प्रति-प्रसवमाह अमावस्यामिति प्रेतपक्षोऽत्र पितृपक्षः अश्व-युक्कृष्णपक्ष इति यावत् न तु कृष्णपक्षमात्रं कृष्णपक्षसा-मात्यपरत्वेऽमावास्यापदवैयर्थ्यापत्तेः । पितृपक्षं विशेषयतिहेमाद्रिमाधवाचार्य्यधृतं नागरखण्डम् “नभोवाथ नभ-स्योवा मलमासो सदा भवेत् । सप्तमः पितृपक्षः स्याद-न्यत्रैव तु पञ्चमः” । अत्र श्रावणभाद्रयोरन्यतरस्य मल-मासत्वे आषाढ्यपेक्षया सप्तमपक्षस्य पितृपक्षत्वम् । अत्र-मृतस्यैव प्रेतपक्षमृतत्वं न तु मलमासभाद्रकृष्णपक्षमृतस्य ।ततश्च तत्र मृतस्य वर्षान्तरेऽश्वयुक्कृष्णपक्षेऽपि तच्छ्राद्धकरणेन पार्व्वणं किन्त्वेकोद्दिष्टमिति । अत्र पार्व्वणोविधिःपार्व्वणेतिकर्त्तव्यताकैकोद्दिष्टविधिरिति नव्यवर्द्धमानप्रभृ-तयः । तन्न पूर्व्ववचनोक्तत्रैपुरुषिकस्य मृताहे पर्य्युदस्तस्यपार्वणो विधिरित्यनेन प्रतिप्रसवात् तस्मात् सदैवकैकोद्दिष्टंत्रैपुरुषिकं नतु षाट्पौरुषिकं “कर्षूसमन्वितं मुक्त्वा तथाद्यं श्राद्धषोडशम् । प्रत्याब्दिकञ्च शेषेषु पिण्डाःस्युःषडितिस्थितिः” इति छन्दोगपरिशिष्टवचनेन प्रत्याव्दि-कव्यतिरेकेण षट्संख्यानियमात् । एवममावास्यादिमरण-निमित्तेन मातुरपि प्रत्याव्दिकं पार्व्वणविधिनैव “अपुत्राये मृताः केचित् स्त्रियोवा पुरुषाश्च ये । तेषामपि च देयंस्यादेकोद्दिष्टं न पार्व्वणम्” इति आपस्तम्बवचने अपुत्त्राइति विशेषणीपादानात् सपुत्राणां पार्व्वणाभ्यनुज्ञानात् ।एतच्च मात्रादित्रितयदैवतं कार्य्यम् । “मात्रेपितामह्यै-प्रपितामहह्यै च पूर्व्ववत् व्राह्मणान् भोजयित्वा” इत्यन्व-ष्टकायां तथादर्शनात् अवसानदिनमिमित्तत्वेन पार्वण-विधिना छन्दोगैरपि मात्रादित्रिकाणां श्राद्धं कर्त्तव्यं“न येषिद्भ्यः पृथग्दद्यादवसानदिनादृतें इति छन्दोग-परिशिष्टवचने विशेषतः प्रतिप्रसवात् । एवं सपिण्डी-करणेऽपि । एतच्च । मृताहपार्व्वणं मातापित्रोरेव ।तथाच हेमाद्रिघृतं कात्यायनबचनम् । “सपिण्डीकरणा-दूर्द्ध्वं पित्रोरेव हि पार्व्वणम् । पितृव्यभ्रातृमातॄणा-मेकोद्दिष्टं स दैव तु” । मातृपदं सपत्नीमातृपरम् ।सपत्नीमात्रित्यत्र मातृपदस्य राजदन्तादित्वात् पर-निपातः । ततश्च वाक्ये मातृसपत्नीति न प्रयोज्यं किन्तुसपत्नीमातरित्यादिकम् । एवं साग्निकौरसक्षेत्रजाभ्यांमृताहे पार्वणं कर्त्तव्यम् । “औरसक्षेत्रजौ पुत्रौ विधिपापार्वणेन तु । प्रत्यवदमितरे कुर्य्युरेकोद्दिष्ट सुता दश”इति जावलिवचनस्य “यत्र यत्र प्रदातव्यं सपिण्डीकरणात्परम् । पार्वणेन विधानेन देयमग्निमता सदा” इतिमत्स्यपुराणवचनस्य चैकवाक्यत्वात् । उशना च “प्रत्य-व्दं दर्शवच्छाद्धं साग्निः कुर्वीत बै द्विजः । एकोद्दिष्टंसदा कुर्य्यान्निरग्निः श्राद्धदः सुतः” । अत्र प्रागुक्तयुग्त्याप्रेतश्राद्धस्य एकोद्दिष्टत्वाभिघानात् सांवत्सरिकश्राद्धे तदे-कोद्दिष्टपदमुक्तं तत् प्रेतश्राद्धधर्म्मग्राहित्वार्थम् । ततणयोग्यत्वादेकार्घ्यादिलाभः न च यथा प्रेतश्राद्धे पितृशब्द-स्थाने प्रेतपदोहः तथात्रापीति वाच्यं सांवत्सरिकेप्रेतत्वाभावात्तथाबिधानानुपपत्तेः । एवं प्रतिसांवत्-सरिकश्राद्धे सम्बन्धार्थकपदं आशीःप्रार्थनं शेषभोजनद्यकर्त्तव्यम् ।रजखलायां विशेषयति गोतमः “अपुत्रा तु यदाभार्य्या सम्पाप्ते भर्त्तुराव्दिके । रजस्वला भवेत् मा तुकुर्य्यात्तत्पञ्चमे दिनें । कुर्य्याच्छ्राद्धमिति शेषः । यत्तुश्राद्धचिन्तामणौ “एकोद्दिष्टं त्रैवर्णिकेन सिद्धान्नेन ज-र्त्तव्यम् । “एकोद्दिष्टन्तु कर्त्तव्यं पाकेनैव सदा स्वयम् ।अभावे पाकपात्राणां तदहः समुपोषणम्” इति कघुहारी-तवचनात् पाकपात्राभावः पाकसामग्र्यभाबोपलक्षणं त-दापि नामश्राद्धं किन्तूपोषणमेव श्राद्धस्थानीयमित्यर्थः ।स्वयमित्यभिधानादपाटवादिनापि नान्यद्वारा कारयितव्यम्अतएव उपवासेनैब श्राद्धस्थानीयेन तदकरणप्रायश्चित्तेनबा कृतकृत्यतया श्राद्धविघ्नैत्यादिवचनादपि नैकादश्या-मनुष्ठानमिति” तन्न पितृतृप्तेरजातत्वेनैकादश्यां तदनु-ष्ठानस्य युक्तत्वात् । अन्यथा षोडशश्राद्धाधिकारिणः कदा-चित्तथात्वे “यस्यैतानि न दीयन्ते प्रेतश्राद्धानि षोडश ।पिशाचत्वं ध्रुवं तस्य दत्तैः श्राद्धशतैरपि” इति यमचनेनषोडशश्राद्धाभावे प्रेतत्वपरीहारो न स्यात् । तस्मादुपवा-सोन श्राद्धार्थः किन्तु तदानीन्तनाकरणप्रायश्चित्तार्थःयथा स्वकालाकृतसंस्कारे प्रायश्चित्तं कृत्वा कालान्तरेतत् करणं तथात्रापि तद्दिने उपवासं कृत्वा एकादश्यांश्राद्धं कर्त्तव्यमिति । एकोद्दिष्टं नान्यद्वारा कार्य्यमित्यत्रापिगोत्रजेतरत्वेन विशेषणीयं “न कदाचित् सगोत्राय श्राद्धंकार्य्यमगोत्रजैः” इति प्रेतश्राद्धे ब्रह्मपुराणात् । अत्रहि नागोत्रजस्य साक्षात् कर्त्तृत्व निषिध्यते सगोत्रायेत्यसम्ब-न्धापत्तेः तस्मादगोत्रजैर्द्वारभूतैः सगोत्राय त्रातं नक्वार्य्यमित्यर्थः । तथाच पर्य्युदासपक्षे गोत्रजद्वारा कारयितव्यमिति सुव्यक्तमेव प्रसज्यपक्षे तु अगोत्रजविशेषणस्वर-सात् गोत्रजलाभः । प्रेतश्राद्धधर्म्मग्राहित्वात् सवित्सरिक-मपि तथेति श्राद्धविवेकः । कल्पतरुरत्नाकरयोस्तु स्वगो-त्रायेति पठितं स्वमात्मीयं गोत्रं यस्य स स्वगोत्रः विद्य-मानगोत्रैत्यर्थः । यस्मै श्राद्धं कर्त्तव्यं तस्य स्वगोत्रजेविद्यमानेऽन्यगोत्रजेन संघातान्तर्गतेन राज्ञा श्राद्धं नकारयितव्यमिति व्याख्यातञ्च । एतन्मतेऽप्यूढदुहित्रादी-नामसगोत्रत्वेऽपि न निषेधः । वस्तुतस्तु तत्पाठेऽपि कम्मैधारयापेक्षया बहुव्रीहेर्जघन्यत्वात् स्वमात्मीयञ्च तत्गोत्रञ्चेते तस्मै अन्यगोत्रजद्वारा श्राद्धंन कार्य्यमि-त्यर्थः । अतोलघुहारीतवचने स्वयंपदं स्वगोत्रपरम् । अन्यथा ब्रह्मपुराणोक्तागोत्रजपदवैयर्थ्यापत्तेः ।एवञ्च भविष्यपुराणप्रभासखण्डयोः “मृताहनि पुतु-र्यस्तु न कुर्य्यात् श्राद्धमादरात् । मातुश्चैव वरारोहे! वत्-सरान्ते सृताहनि । नाहन्तस्य महादेवि! पूजां गृह्णाभिनोहरिः” । मरीचिः । “पतिताऽज्ञानिनोमूर्खास्त्रियोऽथब्रह्मचारिणः । मृताहं समतिक्रम्य चाण्डालेष्वभिजायते” ।इत्याभ्यां कालमाधवीयधृताभ्यां वचनाभ्यां सांवत्सरिकश्राद्धस्य मृताहकर्त्तव्यत्वेनावश्यकत्वात् भविष्यन्मृताहे स्वयंकर्त्तव्यत्वसम्भावनारहितेन मृताहात् पूर्वकालेऽपि प्रतिनि-धायते । “प्रक्षिप्याग्नि स्वदारेषु परिकल्प्यर्त्विजं तथा ।प्रवसेत् कार्य्यवान् विप्रोवृथैव न चिरं क्वचित” इतिछन्दोगषरिशिष्टोक्तसाय प्रातर्होमप्रतिनिधिवत् । एवंसति प्रतिनिध्यकरणएव एकादश्यां क्रियते । नच पाक-स्याङ्गत्वेन प्रधानतिथिकर्त्तव्यतानियम इति वाच्यम् ।“व्रतोपवासनियमे घटिकैका यदा भवेत् । सा तिथिः स-कला ज्ञेया पित्रर्थे चापराह्णिकी” इति वचनेन मुहूर्त्तमात्रलाभेऽपि कर्त्तव्यतोपदेशात् तदानीं पाके तदसम्भ-वात् । एवमुदीच्याङ्गशेषभोजनेऽपि न तन्नियम इति” ।एतच्च पुत्रदुहित्रोर्नित्यं प्रागुक्तवचनेभ्यः । मृतपितृकपौत्र-स्यापि तथा । “सृतमासस्य यः पक्षस्तत्तिथौ प्रतिवत्सरम् ।“यावत्स्मरति पौत्रोऽपि एकमुद्दिश्य दापयेत्” प्रचेतोवाक्यात्लघुहारोतवाक्येन द्विजानां सिद्धान्नेर्नवेकोद्दिष्टकरणवि-धानात् तत्पाकेधिकारिविशेषोनिरूप्यते । तत्र श्रा० त०देवलः “तथैवामन्त्रितोदाता प्रातः स्नातः सहाम्बरः ।आरभेत नवैः पात्रैरन्नारम्भं सबान्धवः” । अत्र सबा-न्धव इत्यक्तेः सपिण्डानामपि पाकाधिकारः इतिगोडाचारः । नि० सि० बिशेष उक्तः । हेमा०आश्वला० “समानप्रवरैर्मित्रैः सपिण्डैश्च गुणा-न्वितैः । कृतोपकारिभिश्चैव पितृकार्यं प्रशस्यते” । व्यासः“महिला चैव सुस्नाता पाकं कुर्यात् प्रयत्नतः । निष्-पन्नेषु च पाकेषु पुनः स्नानं समाचरेत्” पृथ्वीचन्द्रोदयेब्राह्मे । “रजस्वलाञ्च पाषण्डां पुंश्चलीं पतितांतथा । त्यजेच्छूदां तथा बन्ध्यां विधवाम् चान्यगोत्रजाम् ।व्यङ्गकर्ण्णां चतुर्याहस्नातामपि रजस्वलाम् । वर्ज्जये-च्छाद्धपाकार्थममातृपितृवंशजाम्” स्मृतिसारे “न पाकंकारयेत् पुत्रीमन्यां वाप्यसगोत्रजाम्! मृतबन्ध्यांपुंश्चलीं च गर्भिणीञ्चैव दुर्मुखाम्” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
