| YouTube Channel

एकान्नः (ekAnnaH)

 
शब्दकल्पद्रुमः
Sanskrit
एकान्नः, त्रि, (एकं एककालपक्वं अन्नं यत्र ।) एक-भक्तः यथा काशीखण्डे ।“ऊर्ज्जे यवान्नमश्नीयादेकान्नमथवा पुनः ।वृन्ताकं शूरणञ्चैव शूकशिम्बीञ्च वर्ज्जयेत्”
इति तिथ्यादितत्त्वम्
एकं अविभक्तमन्नंयस्य इतिव्युत्पत्त्या एकपाकावस्थितः अविभक्तः यथा, “एकपाकेन वसतां पितृदेवद्विजार्च्चनम् ।एकं भवेद्विभक्तानां तदेव स्याद्गृहे गृहे”
इति प्रायश्चित्ततत्त्वधृतवृहस्पतिवचनम्