| YouTube Channel

एकान्तं (ekAntaM)

 
Hindi
Hindi
पीढ़ी
शब्दकल्पद्रुमः
Sanskrit
एकान्तं,
क्ली,
(एकस्मिन्नेव अन्तः समाप्तिर्यस्य ।) अत्य-न्तम् तत्पर्य्यायः अतिशयः भरः अतिवेलम् ४भृशम् अत्यर्थम् अतिमात्रम् उद्गाढम् ८निर्भरम् तीव्रम् १० नितान्तम् ११ गाढम् १२वाढम् १३ दृढम् १४ (यथा माघे ८३ ।“तेजः क्षमा वा नैकान्तं कालज्ञस्य महीपतेः”
तद्वति, त्रि यथा कुमारे ३६ ।“नागेन्द्रहस्तास्त्वचि कर्कशत्वा-देकान्तशैत्यात् कदलीविशेषाः”
तथा भागवते ।तस्य पुत्त्रो महायोगी समदृङ्निर्विकल्पकः ।एकान्तमतिरुन्निद्रो गूढो मूढ इवेयते”
)भेद्यगामिनि त्रि इत्यमरः
(सर्व्वत्र यदवधारे-णोच्यते एकान्तः
यथा “तृवृद्विरेचयति मद-नफलं वामयतीति”
इत्युत्तरतन्त्रे ६५ अध्यायेसुश्रुतेनोक्तम्
) निर्ज्जनम्
(यथा हितोपदेशेविग्रहे १५ “अथ केनापि शस्यरक्षकेण धूसर-कम्बलकृततनुत्राणेन धनुःकाण्डं सज्जीकृत्यावनत-कायेन एकान्ते स्थितम्”
)