| YouTube Channel

एकादशराशिक (ekAdazarAzika)

 
Monier Williams Cologne
English
एकादश—राशिक
n.
(in math.) the rule of eleven,
Līl.
वाचस्पत्यम्
Sanskrit
एकादशराशिक
न०
एकादश राशीनधिकृत्य प्रवृत्तं गणनम्कन् लीलावत्युक्ते गणनप्रकारभेदे तत्प्रकारश्च तत्रैवयथा “पञ्चसप्तनवराशिकादिकेऽन्योन्यपक्षनयनं फल-च्छिदाम् संविधाय बहुराशिये बषे स्वल्पराशिबध-भाजिते फलम्” इत्युक्तदिशा फलानयनम् तत्रोदा०“पिण्डे येऽर्कमिताङ्गुलाः किल चतुर्वर्गाङ्गुलाविस्तृतौपि० १२ पट्टादीर्घतया चतुर्द्दश करास्त्रिंशन्मिताः”वि० १६ १२ “एता विस्तृतिदीर्घपिण्डमितयो येषांदी० १४ १० चतुर्वर्जिताः” इति नवराशिके उक्त्वा ।मि० ३० ४“पर्ट्टाये प्रथमोदितप्रमितयोगव्यूतिमात्रे गतास्तेषा-वि० १२ मानमनाय चेच्छकटिनां द्रस्माष्टकं भाट-वि० १६ १२ कम् अन्ये ये तदनन्तरं निगदितामानेदी० १४ १० चतुर्वर्जितास्तेषां का भवतीति भाटक-मि० ३० १४ मितिर्गव्यूतिषट्के वद” अत्र फलस्येतर-ग० पक्षनयने तस्य बहुराशिकत्वं तद्रहितपक्षस्यभा० ८० स्वल्पराशिता तेन समानाङ्केनोभयपक्षयो-रपवर्त्तने फलसहितबहुराशिपक्षस्याङ्कस्य परस्परगुणनेजाताः ४८ अङ्काः फलरहितपक्षाङ्कानां परस्परघातनिष्पन्नेन६ षडङ्केन भाजिते लब्धाः अष्टौ अङ्कास्तेन अष्ट द्रस्मा-स्तत्र भाटकमितिरिति तत्र निश्चयः अत्रेदमवधेयम् फल-च्छिदामित्युक्तावपि फलच्छेदभिन्नराशिच्छेदस्यैव अन्योन्य-पक्षनयनम् तु फलच्छेदस्येति अयञ्च शब्दः एकादशद्वार-शब्दात् परं बोध्यः प्रमादात्तत्र लिखितोऽतोऽत्रोक्तः