| YouTube Channel

एकाङ्गं (ekAGgaM)

 
शब्दकल्पद्रुमः
Sanskrit
एकाङ्गं, क्ली (एकं सुन्दरमङ्गं यस्य एकं सुन्दर-मङ्गं भवत्यस्माद्वा ।) चन्दनम् इति हारावली
(एकमद्वितीयमङ्गम् एकस्मिन्नपि अङ्गे यथा, महाभारते १३ दानधर्म्मकथने ८२ २१ ।“माननामहमिच्छामि भवत्यः सततं शुभाः ।अप्येकाङ्गेऽप्यधोवस्तुमिच्छामि सुकुत्सिते”
एकं श्रेष्ठमङ्गमिति विग्रहे मस्तकम् अस्यपर्य्याये उत्तमाङ्गशब्ददर्शनात्
)