| YouTube Channel

एका (ekA)

 
Monier Williams Cologne
English
ए॑का
f.
N.
of Durgā
L R Vaidya
English
eka {% pron. (f. का) %} 1. One, single
2. unique, singular
3. pre-eminent, excellent
4. same, identical
5. one of type or many, Megh.i.30, ii.15
6. a, an (used as an indefinite article)
7. alone, only, Bhartr.iii.14
8. unparalleled, peerless.(एक-अन्य or अपर ‘the one-the other, ‘some-others.’)
E Bharati Sampat
Sanskrit
(स्त्री) एक+टाप् १.दुर्गा ‘एका गुणार्था त्रैलोक्ये तस्मादेका उच्यते ।’ देवीपु०। २.अद्वितीया ‘एकैवाहं जगत्यत्र द्वितीया का ममापरा’ मार्क०पु०९०.७१। (स्त्री) ‘प्रासीष्ट शत्रुघ्नमुदारुचेष्टम् एका सुमित्रा सह लक्ष्मणेन’ भट्टिः१.१४।
Wordnet
Sanskrit
Synonyms:
एकः, एका, एकम्
noun
आदिसंख्या।
"एकः एकः द्वौ भवति।"
Sanskrit Tibetan
Tibetan
gcig pu ma
एका
शब्दकल्पद्रुमः
Sanskrit
एका,
स्त्री,
(एक + टाप् ।) दुर्गा यथा ।“एका गुणार्था त्रैलोक्ये तस्मादेका उच्यते” ।देवी सा परमार्थेति वदन्ते भिन्नदर्शिनः
इति” ।“एका सा तु पृथक्त्वेन विना सर्व्वत्र विश्रुता ।यथा तु व्यज्यते वर्णैर्विचित्रैः स्फटिको मणिः
तथा गुणवशाद्देवी नानाभावेषु वर्ण्यते”
इति देवीपुराणे देवीनिरुक्तं नाम ४५ अध्यायः
(अद्वितीया यथा, मार्कण्डेये ९० ।“एकैवाहं जगत्यत्र द्वितीया का ममापरा” ।“अजामेकां लोहितशुक्लकृष्णां” इति श्रुतिः
एकैव स्त्री यथा भट्टिः १४ ।“प्रासोष्ट शत्रुघ्नमुदारुचेष्टम्एका सुमित्रा सह लक्ष्मणेन”
)
वाचस्पत्यम्
Sanskrit
एका स्त्री सर्वत्र अभिन्नत्वेन स्थितायां दुर्गायाम् “एका सातु पृथक्त्वेन विना सर्वत्र विश्रुता यथा तु व्यज्यते व-र्णैर्विचित्रैःस्थटिकोमणिः तथा गुणवशाद्देवी नानाभावेषुवर्ण्यते” देवीपु० ४५ अ० द्वितीथरहितस्त्रियाम् “एकै-वाहं जगत्यत्र का द्वितीया ममापराः” देवीमा० ए-कत्वान्वितस्त्रियाञ्च “अजामेकां लोहितशुक्लकृष्णां बह्वीःप्रजाः सृजमानां सरूपाः” इति श्रुतिः “एका सुमित्रासह लक्षणेनेति” भट्टिः पुत्रयोरेकत्रोत्पत्तिकथनार्थमे-केति विशेषणम् अन्ये तु विष्णौ कायति अभिरमतेकै--क अलुक् स० विष्णुरतेत्यर्थमाहुस्तेन तदर्थे
त्रि०