| YouTube Channel

एकशृङ्गः (ekazRGgaH)

 
E Bharati Sampat
Sanskrit
(पुं) एकं शृङ्गं यस्य १.विष्णुः मत्स्यावतारे २.एकशृङ्गयुक्तपशुमात्रम् ३.पितृगणभेदः। ‘सोमपा एकशृङ्गाश्च चतुर्वेदाः कलास्तथा एते चतुर्षु वर्णेषु पूज्यते पितरो नृपः॥’ भार०२.११.४३। ४.एकशिखरयुक्तपर्वतः। (स्त्री) एकशृङ्गा शुकमहर्षेः पत्नी
Wordnet
Sanskrit
Synonyms:
एकशृङ्गः, एकशृङ्गवान्
adjective
एकशृङ्गयुक्तं पशुमात्रम्।
"काझीरङ्गा-अभयारण्ये एकशृङ्गाः करियादसः बहुलतया दृश्यन्ते।"
Synonyms:
एकचरः, खड्गः, खड्गी, एकशृङ्गः, गण्डः, गण्डकः, गण्डाङ्गः, वनोत्साहः, तैतिलः
noun
वन्यपशुः यस्य त्वक् मृदु नास्ति।
"एकचरस्य नासिकायां शृङ्गः अस्ति।"
Synonyms:
विष्णुः, नारायणः, कृष्णः, वैकुण्ठः, विष्टरश्रवाः, दामोदरः, हृषीकेशः, केशवः, माधवः, स्वभूः, दैत्यारिः, पुण्डरीकाक्षः, गोविन्दः, गरुडध्वजः, पीताम्बरः, अच्युतः, शार्ङ्गी, विष्वक्सेनः, जनार्दनः, उपेन्द्रः, इन्द्रावरजः, चक्रपाणिः, चतुर्भुजः, पद्मनाभः, मधुरिपुः, वासुदेवः, त्रिविक्रमः, दैवकीनन्दनः, शौरिः, श्रीपतिः, पुरुषोत्तमः, वनमाली, बलिध्वंसी, कंसारातिः, अधोक्षजः, विश्वम्भरः, कैटभजित्, विधुः, श्रीवत्सलाञछनः, पुराणपुरुषः, वृष्णिः, शतधामा, गदाग्रजः, एकशृङ्गः, जगन्नाथः, विश्वरूपः, सनातनः, मुकुन्दः, राहुभेदी, वामनः, शिवकीर्तनः, श्रीनिवासः, अजः, वासुः, श्रीहरिः, कंसारिः, नृहरिः, विभुः, मधुजित्, मधुसूदनः, कान्तः, पुरुषः, श्रीगर्भः, श्रीकरः, श्रीमान्, श्रीधरः, श्रीनिकेतनः, श्रीकान्तः, श्रीशः, प्रभुः, जगदीशः, गदाधरः, अजितः, जितामित्रः, ऋतधामा, शशबिन्दुः, पुनर्वसुः, आदिदेवः, श्रीवराहः, सहस्रवदनः, त्रिपात्, ऊर्ध्वदेवः, गृध्नुः, हरिः, यादवः, चाणूरसूदनः, सदायोगी, ध्रुवः, हेमशङ्खः, शतावर्त्ती, कालनेमिरिपुः, सोमसिन्धुः, विरिञ्चिः, धरणीधरः, बहुमूर्द्धा, वर्धमानः, शतानन्दः, वृषान्तकः, रन्तिदेवः, वृषाकपिः, जिष्णुः, दाशार्हः, अब्धिशयनः, इन्द्रानुजः, जलशयः, यज्ञपुरुषः, तार्क्षध्वजः, षड्बिन्दुः, पद्मेशः, मार्जः, जिनः, कुमोदकः, जह्नुः, वसुः, शतावर्तः, मुञ्जकेशी, बभ्रुः, वेधाः, प्रस्निशृङ्गः, आत्मभूः, सुवर्णबिन्दुः, श्रीवत्सः, गदाभृत्, शार्ङ्गभृत्, चक्रभृत्, श्रीवत्सभृत्, शङ्खभृत्, जलशायी, मुरमर्दनः, लक्ष्मीपतिः, मुरारिः, अमृतः, अरिष्टनेमः, कपिः, केशः, जगदीशः, जनार्दनः, जिनः, जिष्णुः, विक्रमः, शर्वः
noun
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
"एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः।"
शब्दकल्पद्रुमः
Sanskrit
एकशृङ्गः,
पुं,
(एकं शृङ्गं यस्य ।) विष्णुः इतित्रिकाण्डशेषः
(स्वायम्भुवमन्वन्तरे अकालप्रलयात्मत्स्यरूपधरस्यास्य शृङ्गे मनोर्नौर्बद्धा तत्कथायथा कालिकापुराणे ३२ अध्याये ।“स्वायम्भुवस्तदा मत्स्यं हरिं सस्मार वै तदा ।ततो जलानामुपरि सशृङ्ग इव पर्ब्बतः
उद्दीप्तश्चैकशृङ्गेण विष्णुर्मत्स्यस्वरूपधृक् ।आगतस्तत्र चिरात् यत्रास्ते समनुर्हरिः”
विस्तृतिस्तु आकालिकशब्दे द्रष्टव्या ।) एकशृङ्ग-युक्तपशुमात्रम्
(पितृगणभेदः यथा, महा-भारते ११ ४१-४३ ।“पितॄणाञ्च गणान् विद्धि सप्त वै पुरुषर्षभ ! ।मूर्त्तिमन्तो हि चत्वारस्त्रयश्चाप्यशरीरिणः
वैराजाश्च महाभागा अग्निस्वात्ताश्च भारत ।गार्हपत्या नाकचराः पितरो लोकविश्रुताः
सोमपा एकशृङ्गाश्च चतुर्व्वेदाः कलास्तथा ।एते चतुर्षु वर्णेषु पूज्यन्ते पितरो नृप”
)