| YouTube Channel

एकविंशस्तोम (ekaviMzastoma)

 
Monier Williams Cologne
English
एक—विंश—स्तोम
m.
a Stoma (q.v.) consisting of twenty-one parts,
TS.
v
ŚBr.
xiii.
वाचस्पत्यम्
Sanskrit
एकविंशस्तोम
पु०
कर्म्म० एकविंशतिमन्त्रपरिमितेस्तोमभेदे “एकविंशस्तोमेन ऋषभो याज्ञतुरईजे”शत० ब्रा० १३, ५, ४, १५, स्तोमश्च सोमादियागेषु सामगैःक्रियमाणः पृष्ठ्यादिसंज्ञः स्तुतिभेदः एकविंशस्तोमस्यविष्टुतिप्रकारः ताण्डम० ब्रा० भा० दर्शितो यथा“एकविंशस्तोमस्य चतस्रो विष्टुतयः तत्र सप्तसप्तिन्या-ख्यां प्रथमां विष्टुतिं दर्शयति” भा० “सप्तभ्यो हि-ङ्करोति तिसृभिस्य तिसृभिस्स एकया, सप्तभ्यो हिङ्क-रोति एकया तिसृभिः तिसृभिः, सप्तभ्यो हिङ्क-रोति तिसृभिस्स एकया तिसृभिः, सप्तसप्तन्येकविं-शस्य विष्टुतिः” ब्रा० “अथास्यैव स्तोमस्य उद्यत्याख्यांद्वितीयां विष्टुतिमाह” भा० “पञ्चभ्यो हिङ्करोतिस तिसृभिः एकया एकवा, सप्तभ्यो हिङ्करोति सएकया तिसृभिः तिसृभिः, नवभ्यो हिङ्करोति ति-सृभिः तिसृभिः तिसृभिरुद्यत्येकविंशस्य विष्टुतिः” ब्रा० ।“अथास्यैव स्तोमस्य प्रतिष्टुतिर्नाम तृतीता विष्टुतिः प्रद-र्श्यते” भा० “नवभ्यो हिङ्करोति तिसृभिः तिसृभिःस तिसृभिः, पञ्चभ्यो हिङ्करोति एकया तिसृभिः सएकया, सप्तभ्यो हिङ्करोति तिसृभिः एकया सति-सृभिः, प्रतिष्टुतिः” ब्रा० “त्रिवृदादिस्तीमचतुष्टय-प्रतिरूपकत्वात् अस्याः प्रतिष्टुतिरिति संज्ञा यौगिकीअथास्यैव स्तोमस्य सूर्म्याख्यां चतुर्थी विष्टुति दर्शयति”भा० “नवभ्यो हिङ्करोति तिसृभिः तिसृभिः स-तृसृभिः, तिसृभ्यो हिङ्करोति पराचीभिः, नवभ्यो हि-ङ्करोति तिसृभिः तिसृभिः तिसृभिः सूर्म्युभयतआदीप्ता” ब्रा० “उभयत आद्यान्त्ययोः पर्य्याययोरृङ्-नवकान्तेन त्रिवृत्त्वादुभयतः आदीप्ता त्रिवृतश्चाग्नंश्च प्रजा-पतिमुखात् सहोत्पत्तेरादीप्ता सूर्मी कृशा मध्ये स्थूलेतरातत्सादृश्यादस्या अप्येषा संज्ञा अस्या अपि मध्यमपर्य्या-यस्य ऋक्त्रयात्मकत्वेन ऋङ्नवकाभ्यामल्पत्वात्” भा० ।अत्र उद्यतीशब्दे दर्शिततद्भाष्यानुसारेण एतदर्थोदर्श्यतेएकैककस्य साम्नः पञ्च भक्तयः प्रस्तावोद्गीथप्रतिहारो-पद्रवनिधनाख्याः तत्र हिङ्कारस्तु त्रिभिस्त्रिभिरुद्गातृभिःकर्त्तव्यः “साम्ने साम्ने हिंकुर्य्युरिति” सूत्रकृतोक्तेः ।तथा सप्तभ्य इति चतुर्थी सप्त ऋचोगातुं हिङ्कुर्य्यु-रित्यर्थः तत्र एकैकं सूक्तं त्रिरावर्त्तनीयम् तत्राद्या-वृत्तौ आद्याया द्वितीयायाश्च त्रिरभ्यासः द्वितीयावृत्तौद्वितीयाया अन्त्यायाश्च त्रिरभ्यासः तृतीयावृत्तौआद्यान्त्ययोस्त्रिरभ्यासः एवं सप्तसप्तिनी नाम विष्टुतिः ।पर्य्यायत्रयेऽपि सप्तर्चैः स्तवनात् तथात्वम् सप्त सप्त ऋचप्रतिपर्य्यायं परिमाणमस्यां “शन्शतो डिनि” वात्ति० डि-नि ङीप् सप्तसप्तिनीति व्युत्पत्तेरन्वर्थसंज्ञा पञ्चऋ-चोगातुं हिङ्कुर्य्युरित्यर्थः तत्र पञ्चानां मध्ये आद्यावृत्तौआद्याया स्त्रिरावृत्तिः द्वितीयावृत्तौ सप्तर्चोगातुं हिङ्कुर्य्युःतत्र मध्यमान्त्ययोस्त्रिरावृत्तिः तृतीयावृत्तौ नवर्चो गातुंहिङ्कुर्य्युः तत्र सर्वासां त्रिरावृत्तिः इयमुद्यत्येकविं श-स्तोमस्य विष्टुतिः पञ्चर्चसप्तर्चनवर्चानां यथोत्तरमु-त्कर्षाधिक्येन उद्यतीतिसंज्ञाऽन्वर्था नवर्चो गातुंहिङ्कुर्य्युः तत्राद्यावृत्तौ सर्वासां त्रिरभ्यासः ततःपञ्चर्चो गातुम् हिङ्कुर्य्युः तासु द्वितीयायाः त्रिरा-वृत्तिः ततः सप्तर्चोगातुं हिङ्कुर्य्युः तृतीयावृत्तौ तासुआद्यान्त्ययोस्त्रिरभ्यासः इयं प्रतिष्टुतिर्नाम तस्यस्तोमस्य विष्टुतिः नवर्चोगातुं हिङ्कुर्य्युः आद्यावृत्तौतासु सर्वासां त्रिराभ्यासः ततस्त्रिस्रऋचोगातुं हि-ङ्कुर्य्युः द्वितीयावृत्तौ तासां कस्याअपि त्रिरा-वृत्तिः ततो नवर्चो गातुं हिङ्कुर्य्युः तत्र तृतीयावृत्तौसर्वासां त्रिरावृत्तिः इयमस्य स्तोमस्य सूमीं नामविष्टुतिः तत्संज्ञानिमित्तं भाष्ये उक्तम्