| YouTube Channel

एकभङ्गीनय (ekabhaGgInaya)

 
वाचस्पत्यम्
Sanskrit
एकभङ्गीनय
पु०
एका भङ्गी रीतिस्तस्त्र तामधिकृत्य नयः ।एकरूपाणां बहूनां मध्ये एकस्य यथा प्रवृत्तिरन्यस्यापितथा प्रवृत्तिरित्येवं ज्ञापके न्यायभेदे “सर्वेषामेकरूपाणा-मेकस्यापि यदुच्यते सर्वेषामेव तत्कुर्य्यादेकरूपाहि तेस्मृताः” इत्युक्तेस्तथात्वम्