| YouTube Channel

एकभक्तव्रतं (ekabhaktavrataM)

 
शब्दकल्पद्रुमः
Sanskrit
एकभक्तव्रतं,
क्ली,
(एकं भक्तं भोजनं यत्र तत् व्रतम् ।)रात्रिभोजनाभावविशिष्टदिवाभोजनम् तथा चस्कन्दपुराणे ।“दिनार्द्धसमयेऽतीते भुज्यते नियमेन यत् ।एकभक्तमिति प्रोक्तं रात्रौ तन्न कदाचन”
(अस्य व्रतस्य नियमफलादिकञ्चोक्तं विष्णुधर्म्मो-त्तरे तद्यथा, --“चैत्रं विष्णुपरो मासमेकभक्तेन यः क्षिपेत् ।सुवर्णमणिमुक्ताढ्यं गार्हस्थ्यं समवाप्नुयात्
अहिंस्रः सर्व्वभूतेषु वासुदेवपरायणः ।नमोऽस्तु वासुदेवायेत्यहश्चाष्टशतं जपेत्
अतिरात्रस्य यज्ञस्य ततः फलमवाप्नुयात् ।यस्तु संवत्सरं पूर्णमेकभक्तो भवेन्नरः
अहिंस्रः सर्ष्वभूतेषु वासुदेवपरायणः ।नमोऽस्तु वासुदेवायेत्यहश्चाष्टशतं जपेत्
पौण्डरीकस्य यज्ञस्य ततः फलमवाप्नुयात् ।दशवर्षसहस्राणि स्वर्गलोके महीयते
तत्क्षयादिह चागत्य माहात्म्यं प्रतिपद्यते”
इति
)