| YouTube Channel

एकभक्त (ekabhakta)

 
शब्दसागरः
English
एकभक्त
mfn.
(-क्तः-क्ता-क्तं)
1. Attached to a common master.
2. Wor-
shipping one deity.
3. Eating together.
4. Eating but one meal,
(a day.)
E.
एक and भक्त attached to, or भक्त food.
Capeller Eng
English
एकभक्त
a.
devoted only to one, faithful.
Yates
English
एक-भक्त (क्तः-क्ता-क्तं)
a. Serving the
same master or deity.
Spoken Sanskrit
English
एकभक्त - ekabhakta -
adj.
- devoted or faithful to only one
एकभक्त - ekabhakta -
adj.
- faithful
एकभक्त - ekabhakta -
n.
- eating only one meal
एकभक्त ekabhakta
adj.
faithful
एकभक्त ekabhakta
adj.
devoted or faithful to only one
एकभक्त ekabhakta
n.
eating only one meal
Wilson
English
एकभक्त
mfn.
(-क्तः-क्ता-क्तं)
1 Attached to a common master.
2 Worshipping one deity.
3 Eating together.
4 Eating but one meal, (a day.)
E.
एक and भक्त attached to, or भक्त food.
Monier Williams Cologne
English
एक—भक्त mf(आ)n. devoted or faithful to only one (husband), faithful,
Mn.
viii, 363
एक—भक्त
n.
the eating only one meal (a day),
Kauś.
Yājñ.
iii, 319
MBh.
&c.
Shabdartha Kaustubha
Kannada
एकभक्त
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಒಂದುದಿನದಲ್ಲಿ ಒಂದು ವೇಳೆ ಮಾತ್ರ ಊಟಮಾಡುವವನು
व्युत्पत्तिः - > एकम् एकवारं भक्तं भोजनं यस्य
एकभक्त
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಒಬ್ಬನಿಗೇ ವಿಧೇಯನಾಗಿರುವ /ಒಬ್ಬನಿಗೇ ಭಕ್ತನಾಗಿರುವ
एकभक्त
पदविभागः - > विशेष्यनिघ्नम्
कन्नडार्थः - > ಒಬ್ಬನನ್ನೇ ಆಶ್ರಯಿಸಿರುವ/ಬೇರಾರಲ್ಲಿಯೂ ಆಸಕ್ತಿಯಿಲ್ಲದಿರುವ
प्रयोगाः - > "प्रैष्यासु चैकभक्तासु रहःप्रव्रजितासु च"
उल्लेखाः - > मनु० ८-३६३
Schmidt Nachtrage zum Sanskrit Worterbuch
German
एकभक्त 2. n. auch S I, 92, 12 v.u. (Ko.).
वाचस्पत्यम्
Sanskrit
एकभक्त
न०
एकं भक्तं भोजनं यत्र स्मृत्युक्ते व्रतभेदे तत्स्व-रूपकालादिनिरूपणं कालमाधवीये यथा“अथैभक्तनिर्णयः ब्रह्मपुराणे वैश्वानरव्रते पठ्यते“प्रतिपद्येकभक्ताशी समाप्ते कपिलाप्रदः” इति तत्रादा-वेकभक्तव्रतं त्रिविधम स्वतन्त्रमन्याङ्गमुपवासप्रतिनिधि-रूपं चेति तेष्विदानीमुदाहृतं स्वतन्त्रम् तत्रेदंचिन्त्यते किमुपवासवत् तिथिरस्मिन् ग्रहीतव्या? उतप्रकारान्तरेणेति? उपवासवदिति तावत् प्राप्तम् “दैवंपित्र्यं तथा कार्य्यम्” इति वचनेन उपवासैकभक्तादिकृत्-स्नदैवस्य विवक्षितत्वात् कर्मकालव्याप्त्या तन्निर्ण-यैति शङ्कनीयम् तत्कालस्य व्याप्त्यनिर्णीतत्वात् ।किञ्च तन्निर्णये कर्मकालव्याप्तिवचनस्य पित्राविषय-त्वेनीपपत्तेः तस्मादुपवासवत्तन्निर्णय इति प्राप्ते ब्रू-मः कर्मकालव्याप्तिरेवात्र निर्णयहेतुः कर्मकालस्त-त्कर्मस्वरूपं चेत्युभयं स्कन्दपुराणे दर्शितम् “दिनार्द्ध-समवेऽतीते भुज्यते नियमेन यत् एकभक्तमिति प्रोक्तमतस्तत् स्यद्दिवैव हीति” देवलीऽपि “दिनार्द्धसमये-ऽतीते भुज्यते नियमेन यत् एकभक्तं तु तत् प्रोक्तं न्यूनंग्रासत्रयेण त्विति” अत्र दिनार्द्ध स्योपरि सार्द्धमुहूर्त्त-परिमितीमुख्यः कालः पञ्चधा विभागे मध्याह्नस्यापरभागएकभक्तस्य कालः दिनार्द्धेऽतीते सति समनन्तरत्वात् ।अस्तमयात् प्राचीनीऽवशिष्टोगौणः कालः दिवेत्यभ्यनुज्ञानात् एवंस्थिते सति मुख्यकालव्यापिनी तिथि-र्ग्रहीतव्या अतएव पद्मपुराणम् “मध्याह्नव्यापिनीग्राह्या एकभक्ते सदा तिथिरिति” बौधायनोऽपि“उदये तूपवासस्य नक्तस्यास्तमये तिथिः मध्याह्नव्यापिनीग्राह्या एकभक्तव्रते तिथिरिति” नचात्रोपवासन्यायोयुक्तः तत्र पूर्वविद्वायामेव विशेषशास्त्रपर्य्यवसानात् ।द्विविधं हि विशेषशास्त्रं तिथिप्रयुक्तमेकं कर्नप्रयुक्तमपरम् ।तत्र “पौर्वाह्लिकास्तु तिथयोदैव” इत्यनेन कर्मविषयेण सा-मान्यशास्त्रेणोत्तरविद्वायां प्राप्तायाम् “उपोष्याः परसंयुक्ताःपराः पूर्व्वेण संयुताः” इत्यनेन कर्मविषयेण विशेषशास्त्रेणपूर्वविहिततिथिविषये अपि सामान्यविशेषशास्त्रे उदास्येते“पूर्वाह्णिकास्तु तिथय” इति तिथिमात्रमुपजीव्य प्रवृत्तत्वात्सामान्यशास्त्रम् “प्रतिपत् सम्मुस्वी कार्येति” तिथिविशेषमुप-जीव्य प्रवृत्तत्वाद्विशेषशास्त्रम् तथा सति द्विविधेनापिविशेषशास्त्रेण पूर्वविद्धायामेवोपवासः सुस्थितः अत्र तु-मध्याह्नव्यापिनीत्येतत्कर्मविषयं विशेषशास्त्रम् अत-स्तदनुसारेण निर्णयो युज्यते! ननु प्रतिपत्सम्मुखी का-र्य्येत्यनेन तिथिविषयेण विशेषशास्त्रेण कुतो निर्णयइति चेत् उपवासविषयत्वेनापि तस्योपपत्तेरिति ब्रूमः ।ननु मध्याह्नव्याप्तिवचनमपि तिथ्यन्तरैकभक्तविषयत्वेनोप-पादयितुं शक्यम् अतः कर्मविशेषशास्त्रतिथिविशेषशा-स्त्रयोः समानबलत्वमिति चेत् अस्तु नाम किं नश्छि-न्नं मध्याह्नव्यापित्वसंसुखत्वयोः पूर्वविद्वायामापादयितुंशक्यत्वेन विरोधाभावात् यदा तूत्तरविद्वायामेव म-ध्याह्नव्यापित्व तदा विरोध इति चेत् वाढम् तथापि तिथिविषयविशेषशास्त्रात् कर्मविषयविशेषशास्त्रं प्रबलंमध्याह्नतिथेर्गुणत्वात् कर्मणश्च प्रधानत्वात् तस्मादे-वंविधैर्विषयैः कर्मकालव्याप्त्यैव निर्णेतव्यम् अत्र नि-र्णेतव्योविषयोभिद्यते पूर्वेद्युरेव मध्याह्नव्यापि-त्वम् परेद्यरेव तद्व्यापित्वम् उभयत्र तद्व्यापित्वम्उभयत्र तदव्यापित्वम् उभयत्र साम्येन तदेकदेशव्यापि-त्वम् उभयत्र वैषम्येण तदेकदेशव्यापित्वं चेति तत्रप्रथमद्वितीययोर्मध्याह्नव्यापित्वस्य निर्णायकत्वम् तृती-ये पूर्वविद्वा ग्राह्या मुख्यकालव्याप्त्योः समत्वेऽपिगौणकालव्याप्नेरधिकत्वात् अनेनैव न्यायेनोभयत्र मु-ख्यकालव्याप्त्यभावेऽपि गौणकालव्याप्तिलाभात्पूर्व्ववि-द्वैव पञ्चमेऽप्ययमेव न्यायो योज्यः षष्ठे तु यदा पूर्व्वे-द्युर्मध्याह्नैकदेशमधिकं व्याप्नोति तदाधिकगौणकाल-व्याप्तेश्च पूर्व्वेद्युर्ग्राह्या यदा परेद्युर्मध्याह्नैकदेशम-धिकं व्याप्नोति तदा गौणकालव्याप्त्यभावेऽपि मुख्य-कालव्याप्त्याधिक्यानुसारेण परेद्युर्ग्राह्या! नन्वस्त्वेवंस्वतन्त्रैकभक्ते निर्णयः अन्याङ्गे तु कथम्? तत्र का-नुपपत्तिः? इति चेत् “पूजाब्रतेषु सर्वत्र मध्याह्नव्यापिनीतिथि” “मध्याह्ने पूजयेन्नृपेत्यादि” शास्त्रैरङ्गिनः पूजा-देर्मध्याह्ने विहितत्वेनाङ्गस्यैकभक्तस्यापराह्णादौ मुख्य-कालासम्भवः मा भूदीदृशविषये मुख्यःकालः प्र-धानानुसारेण गुणस्य नेतव्यत्वात् यदा स्वतन्त्रैकमक्तेऽपिकेनचिन्निमित्तेन मुख्यकालासम्भये गौणकालोऽभ्यनु-ज्ञायते तदा किमु वक्तव्यम् अन्याङ्गे यत्तूपवासप्रतिनिधिरूपमेकभक्तं तदुपवासतिथौ कार्य्यं तस्य गौणेऽभ्यनुज्ञातत्वात् अतएव सुमन्तुः “तिथौ यत्रोपवासः स्यादेकमक्तेऽपि सा तथेति” नच तादृशमेव नास्तीति शङ्कनीयम् ।उपवासब्रतं प्रक्रम्य रोगादिना तदशक्तौ गुर्व्वनुज्ञया-तस्यैकभक्तस्य सम्भावितत्वात् “अष्टौ तान्यव्रतघ्नानिआपोमूलं फलम्पयः! हविर्ब्राह्मणकाम्या गुरोर्ववन-मौषधमिति” शास्त्रात्” “एकभक्तं नक्तेन तथैवाया-चितेन च” या० एकस्मिन् नान्यस्मिन् भक्तः नि-तान्तभक्ते अन्यस्मिन्नभक्ते
त्रि०
“प्रौष्याम चैकभ-क्तासु” मनुः एकभक्तासु अन्यानासक्तास्वारुद्धासु