| YouTube Channel

एकपर्ण्णा (ekaparNNA)

 
वाचस्पत्यम्
Sanskrit
एकपर्ण्णा स्त्री एकं पर्ण्णं तपःसाधनतया आहारो यस्याः शैलराजस्य मेनायादुत्पन्नदृहितृत्रयमध्ये दुहितृमेदे “तिस्रःकत्यास्तु मेनायां जनयामास शैलराट् अपर्ण्णामेकपर्ण्णाञ्चतृतीयामेकपाटलाम्” इत्युपक्रम्य “आहारमेकपर्ण्णेनएकपर्ण्णा समाचरत्” हरि० १८ अ० स्वार्थे कन् बहु० कप्वा अत इत्त्वम् अपर्ण्णिकाप्यत्र “अप्यपर्ण्णा निराहाराएकाशा एकपर्ण्णिका” देवीपु० ४५ अ० अस्य पूर्वोक्तवा-क्येनैकवाक्यतया हिमवत्क याभेदपरत्वम् तु दुर्गापरत्वमिति बोध्यम् एकमात्रं पर्ण्णमस्य एकपत्रावशेषे-वृक्षादौ
त्रि०