| YouTube Channel

एकदेहः (ekadehaH)

 
E Bharati Sampat
Sanskrit
(पुं) १.एकम् शरीरम् एकः मुख्यः देहः यस्य २.बुधग्रहः। २.वंशकुलगोत्राणि ‘बहूनि विप्रगोत्राणि मुनीनां भावितात्मनाम् एकदेहानि तिष्ठन्ति विभक्तानि विना प्रजाः’ हरिवं०। ४.दम्पती ‘अस्थिभिरस्थीनि मांसैर्मांसानित्वचा त्वचम्’ श्रुतिः। (वि) एकस्मात् देहो यस्य समानवंशजाः।
Wordnet
Sanskrit
Synonyms:
बुधः, रौहिणेयः, रोधनः, सौम्यः, सोमभूः, बोधनः, तुङ्गः, एकाङ्गः, श्यामाङ्गः, एकदेहः, प्रहर्षणः, पञ्चार्चिसः, सोमजः
noun
सौरमालायां सूर्यस्य निकटतमः खगोलीयपिण्डः।
"शास्त्रज्ञानां मतानुसारेण बुधे जीवनं सम्भवति।"
शब्दकल्पद्रुमः
Sanskrit
एकदेहः,
पुं,
(एकः मुख्यो देहो यस्य ग्रहेषुसौम्यत्वादस्य तथात्वम् ।) बुधग्रहः इति त्रि-काण्डशेषः
(एको मेदरक्तादीनां साम्यात् तुल्योदेहः शरीरं यत्र गोत्रम् वंशः ।यथा, हरिवंशे ४६ अध्याये ।“बहूनि विप्र गोत्राणि मुनीनां भावितात्मनाम् ।एकदेहानि तिष्ठन्ति विभक्तानि विना प्रजाः”
दम्पती “अस्थिभिरस्थीनि मांसैर्मांसानि त्वचात्वचमिति श्रुतेः” तथा, --“शरीरार्द्धं स्मृता जाया पुण्यापुण्यफले समा” ।इति स्मृत्युक्तेश्च जायापत्योरेकदेहत्वम्”
)