| YouTube Channel

एकदेशविभावितन्याय (ekadezavibhAvitanyAya)

 
L R Vaidya
English
eka-deSa˚viBAvitanyAya {% m. %} an inference as to the whole when proof is given of a part. (Cf. विभावितैकदेशेन देयं यदभियुज्यते Vikr.iv.)
वाचस्पत्यम्
Sanskrit
एकदेशविभावितन्याय
पु०
एकदेशोविभावितः प्रमाणादि-ना ससाध्याङ्गीकारितो येन तमधिकृत्य न्यायोन्यायसाध्य-स्तकविशेषः ऋणादानादिव्यवहारे सुवर्णादिबहुद्रवाभियोगे प्रतिवादिनाऽपह्नवे वादिनैकदेशमात्रस्य प्रमाणैः साधनेएकदेशे तयोः सत्यमिथ्यात्वावधारणमूलके सर्वधनदापनानुकू-ले तर्कभेदे तत्र एकदेशसाधने क्वचित् पूर्व्वनिवेदितसर्वधन-दापनं क्वचिन्नेति विषयविशेषव्यपस्थापनम् मिता० यथा ।“निह्नुते लिखितन्नैकमेकदेशविभावितः दाप्यः सर्वं नृ-पेणार्थं, ग्राह्यस्त्यनिवेदितः” या० नैकममेकं सुवर्णरजतवस्त्रादि लिखितमभियुक्तमर्थिना प्रत्यर्थी यदि सर्व्वमेवनिह्नुते अपजानीते तदार्थिनैकदेशे हिरण्ये साक्ष्यादिभिःप्रत्यर्थी भावितोऽङ्गीकारितः सर्वं रजताद्यर्थं पूर्व्वलिखि-तं दाप्योऽर्थिने नृपेण ग्राह्यस्त्वनिवेदितः पूर्व्वंभाषाकाले अनिवेदितः पश्चादर्थिना पूर्व्वं मया विस्मृतम्इति निवेद्यमानो ग्राह्योनादर्तव्योनृपेण एतच्च नकेवलं वाचनिकमेकदेशे प्रत्यर्थिनोमिथ्यावादित्वसम्भ-वात् अर्थिनश्चैकदेशे सत्यवादित्वनिश्चयादेकदेशान्त-रेऽपि सत्यवादित्वसम्भवात् एवं तर्क्वापरनामसम्भा-वनाप्रत्ययानुगृहीतादस्मादेव योगीश्वरवचनतः सर्व्वंदापनोयम् नृपेण इति निर्णयः एवञ्च तर्क्ववाक्या-नुसरणेन निर्णये क्रियमाणे वस्तुनोऽन्यथात्वेपि व्यवहारदर्शिनान्न दोषः तया गौतमः” “न्यायाधिगमे तर्क्वो-भ्युयेयस्तेनाभ्युह्य यथास्थानङ्गमयेत्” इत्युक्त्वा “तस्माद्राजा-चार्य्यावनिन्द्यौ” इत्युपसंहरति नचैकदेशविभाविती-नुपादेयवचनः प्रत्यर्थीत्येतावदिह गम्यते एकदेशवि-भावितो नृपेण सर्वन्दाप्य इति वचनात् यत्तु कात्या-यनेनोक्तम् “अनेकार्थाभियोगेऽपि यावत् संसाधयेद्धनी ।साक्षिभिस्तावदेवासौ लभते साधितन्धनमिति” तत् पुत्रा-दिदेयपित्राद्यृणविषयम् तत्र हि बहूनर्थानवियुक्तःपुत्रादिर्न जानामीति प्रतिवदन् निह्नववादी भवती-त्येकदेशविभावितोऽपि क्वचिदसत्यवादीति “निह्नुतेलिखितन्नैकमिति शास्त्रन्तत्र प्रवर्त्तते निह्नवाभा-वादपेक्षिततर्क्वाभावाच्च” “अनेकार्थाभियोगेऽपीति” कात्या-यनवचनं सामान्यविषय विशेषशास्त्रस्य विषयं निह्न-वोत्तरं परिहृत्याज्ञानोत्तरे प्रवर्त्तते ननु “ऋणादिषुविवादेषु स्थिरप्रायेषु निश्चितम् ऊने वाप्यधिके चार्थेंप्रोक्ते साध्यन्न सिध्यतीति” वदता कात्यायनेन अनेकार्था-भियोगे साक्षिभिरेकदेशे विभाविते अधिके वा भावितेसाध्यं सर्वमेव सिध्यतीत्युक्तम् तथा सत्येकदेशे भा-विते अभावितैकदेशसिद्धिः कुतस्स्यात्? उच्यते लिखितसर्वार्थसाधनतयोपन्यस्तैःसाक्षिभिरेकदेशाभिधानेऽधिकाभि-धाने कृत्स्नमेव साध्यं सिध्यतीति तस्यार्थस्त-त्रापि निश्चितन्न सिध्यतीति वचनात्पूर्व्ववत् संशय एवे-ति प्रमाणान्तरस्यावमरोऽस्त्येव “छलं निरस्येति” नियमात् ।साहसादौ तु सकलसाध्यसाधनतयोपदिष्टैः साक्षि-भिरेकदेशेऽपि साधिते कृत्स्नसाध्यसिद्धिर्भवत्येव ता-वतैव साहसादेः सिद्ध्वत्वात्कात्यायनवचनाच्च “साध्या-र्थांशेऽपि गदिते साक्षिभिः सकलम्भवेत् स्त्रीसङ्गे सा-हसे चौर्य्ये यत्साध्यं परिकीर्त्तितम्” ।असुयेवार्थमवलम्ब्य एकदेशविभावितन्यायः प्रवर्त्तते इ-त्येकदेशविभावितन्यायस्य तादृशार्थकत्वम् इति बोध्यम्