| YouTube Channel

एकदण्डिन् (ekadaNDin)

 
Monier Williams Cologne
English
एक—°दण्डिन्
m.
‘bearing one staff’,
N.
of a class of monks Comm. on
TāṇḍyaBr.
RāmatUp.
pl.
N.
of a Vedāntic school
Apte Hindi
Hindi
एकदण्डिन्
पुं*
एक-दण्डिन् -
सन्यासियों या भिक्षुकों का एक समुदाय
एकदण्डिन्
पुं*
एकः-दण्डिन् -
संन्यासियों की एक श्रेणी
Shabdartha Kaustubha
Kannada
एकदण्डिन्
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಶಿಖಾಯಜ್ಞೋಪವೀತಗಳನ್ನು ತ್ಯಜಿಸಿ ಒಂದು ದಂಡವನ್ನು ಮಾತ್ರಧರಿಸಿರುವ ಸಂನ್ಯಾಸಿ
निष्पत्तिः - > "इनिः" (५-२-११६)
व्युत्पत्तिः - > एकः केवलः शिखायज्ञोपवीतशून्यः दण्डोऽस्यास्ति
प्रयोगाः - > "यदा हृदाध्यवसितं परं ब्रह्म सनातनम् तदैकदण्डं सङ्गृह्य सोपवीतां शिखां त्यजेत् ॥"
L R Vaidya
English
eka-daMqin {% m. %} designation of a class of sannyāsins otherwise called हंस. The following stanza from Hārīta gives four orders of sannyāsins - कुटीचको बहुदको हंसश्चैव तृतीयकः चतुर्थः परहंसश्च यो यः पश्चात् उत्तमः.
वाचस्पत्यम्
Sanskrit
एकदण्डिन्
पु०
एकः केवलः शिखायज्ञोपवीतादिशून्यो वादण्डोऽस्यास्ति इनि “यदा हृदाध्यवसितं परं ब्रह्म सना-तनम् तदैकदण्डं संगृह्य सोपवीतां शिस्यां त्यजेत्” इत्युक्तलक्षणे परिब्राजके संन्यासी तावत् चतुर्विधः कुटीचकबहूदकहंसपरहंसभेदात् तत्र कुटीचकबहूदकयोस्त्रिदण्ड-धारणं हंसस्यैकदण्डधारणम् परमहंसस्य दण्डधारण-मिति भेदः तदेतत् निर्ण्ण० सि० निरूपितं यथा“कुटीचकोबहूदकोहंसश्चैव तृतीयकः चतुर्थः परम-हंसोयोयः पश्चात् उत्तमः” हारीतः आद्याः पुत्रा-दिना कुटीङ्कारयित्वा तत्रैव वसन् काषायवासाः शिखो-पवीतत्रिदण्डवान् बन्धुषु स्वगृहे वा भुञ्जान आत्मज्ञोभवेत् एतदत्यन्ताशक्तपरम् द्वितीयस्तु बन्धून् हित्वासप्तागाराणि भैक्षं चरन् पूर्वोक्तवेषः स्यात् हंसस्तुसूर्वोक्तवेषोऽप्येकदण्डः “एकन्तु वैष्णवं दण्डं धारय-न्नित्यमादरादिति” स्कान्दात् विष्णुरपि “यज्ञोपर्वतंदण्डं रज्जुं गोबालनिर्मिताम् शिखां यज्ञोपवीतंच नित्यं कर्म परित्यजेत्” अयमप्येकदण्ड एव ये तुशिस्योपवीतादित्यागनिषेधास्ते कुटीचकादिपराः ।यत्तु मेधातिथिः “यावन्न स्युस्त्रयो दण्डास्तावदेकेनवर्त्तयेदिति” तदपि तत्परमेव यच्चात्रिः “चतुर्द्वा मि-क्षवः प्रोक्ताः सर्वे चैव त्रिदण्डिनः” इति तत् वाग्दण्डा-दिपरं यष्टिपरम् “वाग्दण्डीऽथ मनीदण्डः कर्म-दण्डस्तथैव यस्यैते नियता दण्डाः त्रिदण्डी-ति चोच्यते” इति मनूक्तेः तस्मात् परमहंसस्यैक-दण्ड एव सोऽप्यविदुषः विदुषस्तु सोऽपि नास्ति ।“न दण्डं शिखां नाच्छादनं चरति परमहंस” इतिमहोपनिषदुक्तेः “ज्ञानमेवास्य दण्ड इति” वाक्यशे-षाच्च यत्तु यमः “काष्ठदण्डो धृतो येन सर्वाशी-ज्ञानवर्जितः याति नरकान् घोरान्महारौरवसंज्ञका-निति” तद्वैराग्यं विना जीवनार्थं संन्यासपरम् “एक-दण्डं समाश्रित्य जीवन्ति बहवो नराः नरके रौरवेघोरे कर्मत्यागात्पतन्ति ते” इति स्मृतेः यच्चाश्वमेधिके“एकदण्डी त्रिदण्डी वा शिखी मुण्डित एव वा काषा-यमात्र सारोऽपि यतिः पूज्योयुधिष्ठिरेति” तस्यापि पूर्वोक्ताव्यवस्था ज्ञेया “त्रिदण्डी एकदण्डी वेति” बौधा०“चतुर्थनाश्रमं गच्छेत् ब्रह्मविद्यापरायणः एक-दण्डी त्रिदण्डी वा सर्वसङविवर्ज्जितः” चतुर्विंशतिम-तञ्च व्यवस्थितविकल्पाश्रयणात् कुटीचकबहूदकविषयम् इति शङ्कराचार्य्यमतानुसारिणः रामानुमता-नुसारिणस्तु त्रिदण्डधारणमेवाचरन्तः सम्प्रदायाच रोव्यवस्थाभेदक इति कल्पयन्ति एतेषां शिखायज्ञोपवीतधा-रणमपि वैकल्पिकम् “शिखी मुण्डी वेति” गौतमस्वरणात्“मुण्डीमनोऽपरिग्रह” इति वसिष्ठस्वरणात् “सशिखान्केशान्निकृत्य विसृज्य यज्ञोपवीतमिति” काटकश्रुतेः“कुटुम्बपुत्रदारांश्च वेदाङ्गानि सर्व्वशः केशान् यज्ञो-पवीतञ्च त्यक्त्वा गूढश्चरेन्मुनिः” वास्कलोक्तेः मिता० ।एतदपि बुटीचकबहूदकविषयकम् व्यवस्थितविकल्पाश्रय-णेनावगम्यम् अत्र प्रसङ्गात् यतिधर्म्मा उच्यन्ते ते चमिता० दर्शिता यथा“सर्वभूतहितः शान्तस्त्रिदण्डी सकमण्डलुः एकारामःषरिव्रज्य मिक्षार्थी ग्राममाश्रयेत्” या० ।“काषायी सुण्डः त्रिदण्डी सकमण्डलुः पवित्रपादुका-सनकन्यामात्र” इति देवलः शौचाद्यर्थं कमण्डलुसहितश्च भवेत् एकारामः व्रतजितान्तरेणासहायःसन्यासिनोगिः स्त्रीभिश्च स्त्रीणाञ्चैके” इति बौधायनेनस्त्रीणानपि प्रव्रज्यास्मरणात् तथा दक्षः “रुकोभिक्षु-र्यथोक्तश्च द्वावेव मिथुनं स्मृतम् त्रयोग्रामः समा-ख्यात ऊर्द्ध्वं तु नगरायते राजवार्त्तादि तेषान्तु भि-क्षावार्त्ता परस्मरम् अपि पैशुन्यमात्सर्य्यं सन्निकर्षान्नसंशय” इति परिव्रज्य परिपूर्व्वो व्रजतिस्त्यागे वर्त्तते ।अतश्चाहंममाभिमानन्तत्कृतञ्च लौकिकङ्कर्म्मनिचयं वैदि-कञ्च नित्यकाम्यात्मकं सन्त्यज्य तदुक्तं मनुना “सुखा-भ्युदयिकञ्चैव नैःश्रेयसिकमेव प्रवृत्तञ्च निवृत्तञ्च द्वि-विधङ्कर्म्म वैदिकम् इह चामुत्र वा काम्यंप्रवृत्तङ्कर्म्म की-र्त्त्यते निष्कामं ज्ञानपूर्वं तु निवृत्तमुपदिश्यते यथोक्ता-म्यपि कर्म्माणि परिहाय द्विजोत्तमः आत्मज्ञाने शमे चस्याद्वेदाभ्यासे यत्नवानिति” अत्र वेदाभ्यासः प्रण-वाभ्यासः तत्र यत्नवान् भिक्षाप्रयोजनार्थं ग्राम-माश्रयेत् प्रविशेत् पुनः सुखनिवासार्थम् बर्षाकालेतु दोषः “ऊर्द्ध्वं वार्षिकाभ्यां मासाभ्यां नैकस्थानवासीति” शङ्खस्मरणात् अशक्तौ पुनर्मासचतुष्टयपर्य्यन्त-मपि स्थातव्यम् “न चिरमेकत्र वसेदन्यत्र वर्षाकालात्”इतिस्मरणात् “एकरात्रं वसेत् ग्रामे नगरे पञ्चरात्रकम् ।वर्षाम्योऽन्यत्र वर्षासु मांसास्तु चतुरोवसेत्” इति कण्वस्मर-णात्” कथम्भिक्षाऽऽदानङ्कार्य्यमित्यत आह “अप्रमत्तश्चरेद्भैक्षंसायाह्ने नाभिलक्षितः रहिते भिक्षुकैर्ग्रामे यात्रामात्रमलोलुपः” अप्रमत्तो वाक्वक्षुरादिचापलरहितोभैक्ष-ञ्चरेत् वसिष्ठेनात्र विशेषोदर्शितः “सप्तागाराण्मस-ङ्कल्पितानि चरेद्भैक्ष मिति” सायाह्ने अह्नः पञ्चसे भा-गे तथाच मनुः “विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने ।वृत्ते शरावसम्पाते नित्यम्भिक्षां यतिश्चरेत्” तथा “एक-कालञ्चरेद्भिक्षाम्पसज्जेन्नतु विस्तरे भैक्षे प्रसक्तो हियतिर्विषयेष्वपि सज्यतीति” अनभिलक्षितः ज्योति-र्विज्ञानोपदेशादिना अचिह्नितः “नचोत्पातनिमित्ता-भ्यान्न नक्षत्राङ्गविद्यया नानुशासनवादाभ्याम्भिक्षांलिप्सेत कर्हिचिदिति” तेनैवोक्तत्वात् यत्पुनर्वसिष्ठवच-नम् “ब्राह्मणकुले यल्लभेत तद्भुञ्जीत सायम्प्रातर्मांसवर्जमिति” तदशक्तविषयम् “भिक्षुकैर्भिक्षणशीलैः पाष-ण्ड्यादिभिर्वर्जिते ग्रामे मनुना चात्र विशेष उक्तः ।“न तापसैर्ब्राह्मणैर्वा वयोभिरपि वा श्वभिः आकीर्णम्भि-क्षुकैरन्यैरागारमुपसं व्रजेदिति” यावता प्राणयात्रा वर्त्त-ते तावन्मात्रं भैक्षञ्चरेत् तथाच संवर्त्तः “अष्टौ भिक्षाःसमादाय मुनिः सप्त पञ्च वा अद्भिः प्रक्षाल्यताः स-र्वस्ततोऽश्नीयाच्च वाग्यत” इति अलोलुपः मिष्टान्नव्यञ्ज-नादिष्वप्रसक्तं भिक्षाचरणार्थं यतिपात्राण्याह “यतिपात्राणि मृद्वेणुदार्वलाबुमयानि सलिलैः शुद्धि-रेतेषाङ्गोबालैश्चावघर्षणम्” या० मृदादिप्रकृतिकानि य-तीनां पात्राणि भवेयुः तेषां सलिलङ्गेबालावघर्षलञ्चशुद्धिसाधनम् इयञ्च शुद्धिर्मिक्षाचरणादिप्रयोगाङ्ग-भूताऽमेध्याद्यनुपहतिविषया तदुपघाते द्रव्यशुद्धिप्रकरणोक्ता द्रष्टव्या अतएव मनुना “अतैजसानि पात्राणि यस्य स्युर्निर्ब्रणानि तेषामद्भिःस्मृतंशौचञ्चमसानामिवाध्वरे” इति चमसदृष्टान्तोपादानेनप्रायोगिकी शुद्धिर्दर्शिता पात्रान्तराभावे भोजनमपितत्रैव कार्य्यम् “तद्भैक्षं गृहीत्वैकान्वे तेन पात्रेनान्येनवा तुर्ष्णी मात्रया भुञ्जीतेति” देवलस्मरणात् एवम्भूतस्ययतेरात्मोपासनाङ्गनियमविशेषमाह “सन्निरुध्येन्द्रियग्रामं रागद्वेषौ प्रहाय भयं हृत्वा भूतानाममृती-भवति द्विजः” या० चक्ष्रादीन्द्रियसमूहं रूपादिविषयेम्यःसम्यक्निरुध्य विनिवर्त्य रागद्वेषौ प्रियाप्रियविषयौ प्रहा-य त्यक्त्वा चशब्दादीर्ष्यादीनपि तथा भूतानामपकारकरणेन भयमकुर्वन् शुद्धान्तःकरणः सन्नद्वैतसाक्षात्का-रेणामृती भवति मुक्तो भवति किञ्च “कर्त्तव्याशयशुद्धिस्तु भिक्षुकेण विशेषतः ज्ञानोत्पत्तिनिमित्तत्वात्स्वा-तन्त्र्यकरणाय च” या० विषयाभिलाषद्वेषजनितदोषकलुषितस्याशयस्यान्तःकरणस्य शुद्धिः कल्मषक्षयः प्राणा-यामैःकर्त्तव्यः तस्याः शुद्धेरात्माद्वैतसाक्षात्काररूपज्ञा-नोत्त्तिनिमित्तत्वात् एवञ्च सति विषयासक्तितज्ज-नितदोषात्मकप्रतिबन्धक्षये सत्यात्मध्यानधारणादौ स्व-तन्त्रोभवति भिक्षुकेण त्वेषा शुद्धिर्विशे षतोऽनुष्ठेया ।तस्य मोक्षप्रधानत्वात् मोक्षस्य शुद्धान्तःकरणताम-न्तरेण दुर्लभत्वात् यथाह मनुः “दह्यन्ते ध्मायमा-नानां धातूनां हि यथा मलाः तथेन्द्रियाणान्दह्यन्तेदोषाः प्राणस्य निग्रहादिति” ।तेषां कर्व्वव्यानि निर्ण० सि० दर्शितानि यथा“प्रातरुत्थाय ब्रह्मणस्पते इति जपित्वा दण्डादीनिभूमौ निधाय सूत्रपुरीषयोर्ग्रहस्यचतुर्गुणं शौचं कृत्वाऽऽ-चम्य पर्वद्वादशीवर्ज्जं प्रणवेन दन्तधावनं कृत्वा तेनैवमृदा बहिःकटिं प्रक्ष्याल्य जलतर्पणवर्जं स्नात्वा पुन-र्जङ्घे प्राक्ष्याल्य वस्त्रादीनि गृहीत्वा केशवादिगमोन्तना-मभिस्तर्पयित्वा भूस्तर्पयामीत्यादिव्यस्तंसमस्ताभिर्व्या-हृतिभिमहर्जनस्तर्पयामीति तर्षयेत् भृः स्वा-हेति स्वाहाशब्दान्तै श्चैभिरेव पुनस्तर्पयेदिति केचित् ।तत आचम्याञ्जलिना प्रणवेन जलमादात्य व्याहृतिभि-रुद्धृत्य गायत्र्या त्रिः क्षिप्त्वा त्रिः गायत्रीं जपेत् उदितेसूर्प्ये प्रणवेन व्याहृतिभिर्बार्व्यं त्रिर्दत्त्वा मित्रस्य चर्षणी-त्याद्यैः पूर्वोक्तैः सौरैः इदं विष्णुरितिवैष्णवैः ब्रह्म-यज्ज्ञानमिति वोपस्थाय सर्वभूतेभ्यो नम इति प्रदक्षिणमावर्त्तते ततो नत्वादित्याय विद्महे सहस्राक्षाय धीमहि तन्नः सूर्य्यः प्रचोदयात् इति त्रिजपेत् ।एवं त्रिकालम् विष्णुपूजां ब्रह्मयज्ञं कुर्य्यात् ।अथ मिक्षा “विधूमे सन्नमुसले व्यङ्गारे” इत्यादिमनूक्तकालेउद्वयमित्यादित्यमुपस्थाय तेनैक्यं ध्यात्वा “आकृष्णेनेतिप्रदक्षिणं कृत्वा “येते पन्थान” इति जप्त्वा “योऽसौ चिदाख्येआदित्ये पुरुषोऽन्तर्हृदिस्थितः सोऽहं नारायणोदेवइति ध्यात्वा प्रणम्य तम् त्रिदण्डंदक्षिणे त्वंसे ततःसन्धार्य्य बाहुना पात्रं वामकरे क्षिप्त्वा श्लेषयेद्दक्षिणेन-त्विति” बौधायनोक्तदिशा त्रीन् पञ्च सप्त वा गृहान् गत्वाभवत्पूर्वं भिक्षा याचित्वा “पूर्णमसि पूर्णं मे भूयाः” इ-त्यागत्य शुचिरन्नं प्रोक्ष्य भूः स्वधा नम इत्यादिव्य-स्तसमस्तव्याहृतिभिः सूर्य्यादिभ्यो मूतेभ्यश्च भूमौ क्षिप्त्वाभुक्त्वाऽऽचम्य प्रणवेन षोडशप्राणायामान् कुर्यादिति संक्षे-पः गौतमव्याख्यायां भृगुः “यतिहस्ते जलं दद्याद्भैक्षंदद्यात् पुनर्जलम् भैक्षं पर्वतमात्रं स्यात् तज्जलं सा-गरोपमम्” अत्र सर्वत्र मूलं माधवृपरार्कमदनरत्नस्मृत्यर्थसारादौ ज्ञेयम् जावालिश्रुतौ “शून्यागारेदेवगृहे तृणकुटीवल्मीकवृक्षमूलकुलालशालाग्निहोत्रगृह-नदीपुलिनगिरिकुहरनिर्झरस्थण्डिलेष्वनिकेतनः” इति ।मात्स्ये “अष्टौ मासान् विहारः स्याद्यतीनां संयता-त्मनाम् एकत्र चतुरोमासान् वार्षिकान् निवसेत्पुनः अविमुके प्रविष्टानां विहारस्तु विद्यते” ।अत्रिः “भिक्षाटनं जपं स्नानं ध्यानं शौचं सुरार्च-नम् कर्त्तव्यानि षडेतानि सर्वथा नृपदण्डवत् ।मञ्चकं शुक्लवस्त्रं स्त्रीकया लौल्यमेव दिवा-स्वापश्च यानं यतीनां पतनानि षट् आसनं पा-त्रसौम्यत्वं सञ्चयः शिष्यसंग्रहः दिवास्वापोवृथाजल्पोय-तेर्बन्धकराणि षट्” दक्षः “नाध्येतव्यं वक्तव्यं नश्रोतव्यं कथञ्चन” मदनरत्ने उश० “पित्रर्थकल्पितंपूर्वमन्नं देवादिकोरणात् वर्जयेत् तादृशीं भिक्षां पर-बाधाकरीं तथा” वृहस्पतिः “न तीर्थवासी नित्यं स्यान्नो-पवासपरो यतिः चाध्ययनशीलः स्यान्न व्याख्यान-परो भवेत्” एतद्वेदभिन्नपरम् अत्रिः “स्नानं सु-रार्चनं ध्यानं प्राणायामोबलिस्ततः भिक्षाटनं जपःसन्ध्यात्यागः कर्मफलस्य” अन्येऽपि माधवीयमिताक्ष-रादौ ज्ञेयः यतिधर्मसमुच्चये “न स्नानमाचरेद्भिक्षुःपुत्रादिनिधने श्रुते पितृमातृक्षयं श्रुत्वा स्नात्वा शु-द्ध्यति साम्बरः” वापनं पौर्णमास्यां कार्यम् “ऋतुस-न्धिषु वापयेत्” कालमा० धृतवाक्यात्