एकत्वादिविवक्षान्याय (ekatvAdivivakSAnyAya)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritएकत्वादिविवक्षान्याय जैमनीयोक्ते एकत्वादिसंख्या-विवक्षावधारणार्घे न्याये स च न्यायः ४ अ० १ पादे ११ सूत्रभाष्यादो दर्शितो यथा “तत्रैकत्वमयज्ञाङ्गमर्थस्य गुणभूत-त्वात्” ११ सू० अस्ति ज्योतिष्टोमे पशुः अग्नीषोमीयो, यो दीक्षितः “यत् अग्नीषोमीयं पशुमालभते” इति, तथा, “अनड्वाहौ युनक्ति” इति, तथा, अश्वमेधे, “बस-न्ताय कपिञ्जलानालभते” इति । तत्र सन्देहः, किं वि-वक्षितम्, एकत्वं द्वित्वं बहुत्वं च, उत अविवक्षितम्?इति । तत्र एकत्वमयज्ञाङ्गभूतं न विवक्षितम्, इत्यर्थः, अर्थस्य गुणभूतत्वात् न आलम्भस्य गुणभूता संख्यानियोजनस्य वा । कस्य तर्हि? पशोः अनडुहोः कपि-ञ्जलानां च, विभक्तिर्हि श्रुत्या प्रातिपदिकार्थगतं संख्यार्थंब्रूते, वाक्येन सा यज्ञाङ्गं ब्रूयात्, वाक्याच्च श्रुतिर्बली-यसी । तस्मात् न यज्ञाङ्गं विवक्षितम् इति” “आहमा भूत् यज्ञाङ्गम्, पश्वादीनामङ्गम्, विवक्षितं तथापीति”उच्यते, न, पश्वादीनामङ्गेन उक्तेन अनुक्तेन वा किञ्चित्प्रयोजनमस्ति, यज्ञाङ्गेन हि अविपन्नेन प्रयोजनम्, विपन्नेऽपि हि पश्वाद्यङ्गेऽविगुण एव क्रतुर्भवति, यज्ञाच्चफलं न पश्वादेः । तस्मात् पश्वादेर्गुणेन अज्ञातेन ज्ञातेनवा न किञ्चित् प्रयोजनमस्ति इति न तत् विवक्षितम्, यद्धि प्रयोजनवत् तत् विवक्षितम् इत्युच्यते” भा० ।“एकश्रुतित्वाच्च” १२ सू० “भवति च किञ्चित् वचनं येनविज्ञांयते, न तत् विवक्षितम् इति, “यदि सोममपहरे-युरेकां गां दक्षिणां दद्यात्, इति, यदि हि विवक्षितंभवेत्, नैकामिति ब्रूयात्, गामित्येकवचनस्य विवक्षि-तत्वात्, तथा, “अवी द्वे धेनू द्वे” इत्यत्रापि द्वे इतिवचनं ज्ञापकम्, अविवक्षितम् अवी इति द्वित्वम् इति“त्रीन् ललामान्” इत्यत्रापि त्रीनिति वचनं लिङ्गम् ।ललामानितिबहुवचनम् अविवक्षितम् इति” भा० ।“प्रतीयते इति चेत्” १३ सू० “एवं चेत् पश्यसि, अ-विवक्षिता संख्या इति, तत् न, प्रतीयते हि संख्याआख्यातवचनस्य अङ्गभूता, यथा “पशुमानय” इत्युक्तेएक एवानीयते, पशू इति, द्वौ, पशून् इति बहव आ-नीयन्ते, यश्च प्रतीयते स शब्दार्थः, तस्मात् यज्ञस्याङ्ग-भूता संख्या इति शब्दात् गम्यते, न च शब्दात् गम्यमा-नम् ऋते कारणात्, अविवक्षितं भवति” भा० “नाशब्दंतत्प्रमाणत्वात् पूर्व्ववत्” १४ सू० “नैतदेवं, सत्यं प्रती-यते, न तु अयं शब्दार्थः व्यामोहादेषा प्रतीतिः । कुतःएतत्? व्याक्याद्धि यज्ञाङ्गम् इत्यवगम्यते, वाक्यं चश्रुत्या बाध्यते । तस्मात् अशब्दार्थोऽयं यज्ञे एकत्वादीतिअशब्दार्थोऽपि हि प्रतीयते, यथा पूर्वो धावति इति, स पूर्व इत्युच्यते, यस्य अपरोऽस्ति, तेन पूर्वः इ-त्युक्ते, अपरो गम्यते, न तु, अपरो, धावति इतिअवणात् प्रतीयते, एवम् इहापि पशुम् इत्येकत्वं गम्यते, न तु यज्ञे यथैव हि पूर्व्व इत्युक्तेऽपरो गम्यते एवकेवलं, न तु स विधीयते कस्मिंश्चिदर्थे, एवम् इहापिसंख्या प्रतीयते एव केवलं, न तु कर्त्तव्यतया यज्ञे विधी-यते न पशौ । कथं न पशौ विधीयते? इति चेत्विधायकस्याभावात् । आख्यातशब्दो विधायक्वो भवि-ष्यति इत्येतदपि नोपपद्यते, द्रव्यदेवतासम्बन्धस्य स वि-धायकः सन् आलभते इति न संख्यासंख्येयसम्बन्धं वि-धातुमर्हति इति, भिद्येत हि तथा वाक्यम् । तस्मात्अविवक्षिता संख्या इति” भा० । “शब्दवत्तूपलभ्यते त-दागमे हि तत् दृश्यते तस्य ज्ञानं यथान्येषाम्” १५ सू०“तुशब्दः पक्षं व्यावर्त्तयति, न तत् अस्ति, न यज्ञेसंख्या शब्देन श्रूयते इति, आख्यातवाच्ये हि अर्थे उ-पलभ्यते, लोके पशुमानय इत्येकवचने सति एकत्वपशुवि-शिष्टो गम्यते, तत्र हि एकत्वमषैति, द्वित्वमुपजायते ।यस्य चागमे यत् उपजायते, स तस्य अर्थः इति गम्यतेतस्य ज्ञानं, यथान्येषाम् शब्दानाम्, अश्वमानयेतिउक्ते अश्वानयनं प्रतीयते, न गामानय इति ज्ञायते, अश्व-शब्दस्य अश्वोऽर्थो गोशब्दस्य गौः इति । यदुक्तं, श्रुत्याबाक्यार्थो बाध्यते, इति, उच्यते, न श्रुतिर्ब्रूते, वाक्यार्थोनास्ति इति, केवलं तु प्रातिपदिकार्थगतां संख्यामाह ।तादृशी संख्या वाक्येन यज्ञे विधीयते, प्रातिपदिकार्थोहि आख्यातवाच्येन सम्बध्यते, विभक्त्यर्थोऽपि, तथा हितद्विशेषणविशिष्ट आलम्भो गम्यते, तत्र एकार्थत्वात् एकवाक्यम् अवकल्पते । पशौ हि संख्यायां विधीयमाना-यामेक आख्यातशब्दो न शक्नुयात्, आख्यातार्थं विधा-तुम्, संख्यासंख्येयसम्बन्धं च । तस्मात् यज्ञे विवक्षितासंख्या इति” भा० “तद्वच्च लिङ्गदर्शनम्” १६ सू० ।किम्? इति । “कर्णायाम्या, अवलिप्ता रौद्रा, नभोरूपाःषार्जन्याः, तेषाम् ऐन्द्राग्नी दशमः” इति, यदि त्रित्वंविवक्षितं तदा ऐन्द्राग्नी दशभो भवति । तथा “कृष्णाभौमाः, धूम्रा आन्धरिक्षाः, वृहन्तो दिव्याः, शलभा वै-द्युताः, सिद्धास्तारकाः” इति प्रकृत्य आह । “अर्द्धभा-सागां वा एतत् रूपं यत् पञ्चदशिनः” इति तस्मात्अपि पश्यामि, विवक्षिता संख्या इति । यत्तु उक्तम्, “एकां गाम्” इत्यविवक्षां दर्शयति इति । अत्र उच्यतेगोसंख्यासम्बन्धं विधातुम्, एतत् उच्यते, इतरथा हि, गोदक्षिणासम्बन्धो विहितो गम्यते । तस्मात् विवक्षिते-ऽपि वाच्यमेतत् । अवी द्वे धेनू द्वे त्रीन्ललामान् इतिच अनुवादाः” भा० “तथा च लिङ्गम्” १७ सू० “एवंच कृत्वा समानश्रुतिकं लिङ्गमपि विवक्षितं भविष्यति, तत्र इदं दर्शनम् उपपद्यते, “वसन्ते प्रातराग्नेयीं कृ-ष्णग्रीवामालभते, ग्रीष्मे माध्यन्दिने सिंहोमैन्द्रीं शरदिअपराह्णे श्वेतां वार्हस्पत्याम्” इति । तत्र श्रूयते, “गर्भिण्यो भवन्ति” इति, गर्भः स्त्रीणां गुणः, तेन स्त्रि-योदर्शयति इति भविष्यति । तथा “अश्व ऋषभो वृष्णि-र्वस्तः पुरुषः इति ते प्राजापत्याः” इति । तत्र श्रूयते“मुष्करा भवन्ति सेन्द्रियत्वाय” इति, मुष्करत्वं पुंसांगुणः, तेन पुंप्राप्तिं दर्शयवि इति । अधिकरणान्तरंवा, तथा च लिङ्गम् इति, संख्याधिकरणं लिङ्गाधिक-रणेऽतिदृश्यते । लिङ्गम् अविवक्षितं, श्रुत्या वाक्यस्यवाधितत्वात्, न च विवक्षितमिव श्रूयते इति, भवतिलिङ्गं, “स्त्री गौः सोमक्रयणी” इति, स्त्रीवचनात् सोम-क्रयण्णी इत्यविवक्षितमेव लिङ्गं प्रतीयते । “ननु क्रथंगृगीमानय इति न मृगः आनीयते?” नैवम्, तत्, अ-शब्दन्तु पूर्वो धावति इति यथा । लिङ्गं विवक्षितं वा-वाक्यार्थस्य श्रुत्याऽप्रतिसिद्धत्वात्, तथा च लिङ्गम्“गर्भिण्यो भवन्ति” इति, तथा “मुष्करा भवन्ति”इति । यदुक्तं, “स्त्री गौः सोमक्रयणी” इति, तत्र स्त्री-त्यविवक्षितं, तथा “प्रजापतये पुरुषान् हस्तिन आलभते”इति, पुरुषग्रहणम् अविवक्षितं, विस्पष्टो हि न्याय उक्तोलिङ्गविवक्षायाम् । तस्मात् विवक्षितं लिङ्गम् इति” भा० ।तत्त्वबोधिन्यां स्पष्टमुक्तं यथा “अग्नीषोमीय पशुमाल-भेत” “पशुना रुद्रं यजेत्” इत्यादौ पशोरेकत्वं विवक्षितंन वेति संशयः । तत्र पशुमित्यत्र द्वितीयान्तादिश्रुत्वापुंतदेकत्वयोरुपस्थितयोः परस्परान्वये परस्पराकाङ्क्षा-भावात् तथैवापेक्षणे पश्वेकत्वयोः परस्परमन्वयः पश्चाच्चआलभेतेत्यादि पदान्तराकाङ्क्षया वाक्यादेकत्वाश्रयपशो-र्यागादावन्वय इति वाक्यात् श्रुतेर्वलीयस्त्वेन पशुविशेषण-त्वेनोपक्षीणस्यैकत्वस्य न यागादावन्वयः निराकाङ्क्षत्वात्तथा च सूत्रम् “एकत्वमयज्ञाङ्गमर्थस्य गुणभूतत्वात्” ।अर्थस्य पशोर्गुणमूतत्वात् विशेषणत्वेन प्रागनन्वयात् तस्मा-देकत्वमविवक्षितं द्वाभ्यां बहुभिरपि यागसिद्धिरिति प्राप्तेउच्यते । पशुमित्यादौ प्रकृत्या पशु रुपस्थापितः प्रत्ययेनचैकत्वं कारकत्वञ्च ततश्चैकपदोपात्तत्वप्रत्यासत्त्या एकत्वस्यकर्म्मत्वादौ कारकेऽन्वयः कारकत्वञ्च क्रियानिमित्तत्वमितिक्रिया चोपस्थितयागादिरिति पशोः प्रथमं कारकद्वाराक्रियायामन्वयः । पश्चाच्चामूर्त्तस्यैकत्वस्य क्रियासाधनत्वा-न्यथानुपवत्त्या द्रव्यद्वारा तदन्वयार्थं पशुविशेषणत्वेना-न्वयः अरुणान्याथादिति विवक्षितमेकत्वमतोद्वाभ्यां बहु-भिर्वा न यागसिद्धिः तदुक्तं “समानप्रत्ययस्थेन कारके-णात्मसात्कृता । क्रिया वै नीयते संख्या न परस्वंपदाद्भ-बेदिति” । एवमनड्वाहौ युनक्ति कपिञ्जलानालभेतेत्यादौद्वित्वबहुत्वयोर्विवक्षितत्वम् । एवं पुंस्त्वमपि विवक्षितप्रत्ययार्थत्वेन कारकान्वयित्वात् । अथ कथं लिङ्गं विव-क्षितं शब्दार्थस्य तदनुष्ठानस्य विचारे तदुपयोगादर्शनात्अपुंस्यपि वृक्षे वृक्षशब्दः मक्षिकादौ चास्त्रि यामपि मक्षि-कादिशब्दः प्रयुज्यत इति लिङ्ग न शब्दार्थः अपितु-प्रयोगसाधुतामात्रार्थं तत्प्रयगोऽनुष्ठाने एकत्वविशिष्ट-पशुत्वस्याविशेषात् स्त्रियामपि अनुष्टानसाम्यात् जात्ये-कत्वादिवत् लिङ्गस्य वृद्धव्यवहारेणान्व यव्यतिरेकाभ्यां श-ब्दार्थावगमात् तस्य च तत्तत्पदसमभिव्याहारेण तत्तत्-पदवाच्यत्वाभ्युवगमात् वृक्षादिषु न वास्तवं पुंस्त्वं किन्तुअभियुक्तोक्तिबलेन तेषां पुंसि साधुतेति । न वानुष्ठानञ्चा-म्यं पुंपशौ विशेषसम्भवात् “बाहू ते आप्ययेताम्” इत्यादिमन्त्रैस्तदवयवस्याप्यायनकाले “मेढ्रं ते आप्ययताम्” इति पुम-वयवस्याप्याप्यायनश्रवणात् । यत्र च सारस्वतमेधीयया-गादौ स्त्रिया आलम्भनसुकं तत्र स्त्रीत्वं विवक्षितम्” ।उद्देश्यगतसंख्यायास्तु विवक्षा नास्तीति ग्रह न्यायशब्देबक्ष्यते एकत्वविवक्षास्थले गदाधरेण धर्म्मिपारतन्त्र्येणएकत्वादेर्यागादावन्व योऽभ्युपगतः धर्मिणः पशोर्यागान्वयेबद्वतैकत्वस्य स्वाश्रयपशुकरणकत्वस्वानाश्रयपश्वकरणकत्वोभयसम्बन्धेन यागेऽन्वय इति तेनोक्तेः ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
