| YouTube Channel

एकजीववाद (ekajIvavAda)

 
Monier Williams Cologne
English
एक—जीव-वाद
m.
(in
phil.
) the assertion of a living soul only.
Apte Hindi
Hindi
एकजीववादः
पुं*
एकः-जीववादः -
केवल जीवात्मा का सिद्धान्त
Shabdartha Kaustubha
Kannada
एकजीववाद
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಒಬ್ಬನೇ ಜೀವನು ಅವಿದ್ಯೆಯಿಂದ ಸಂಸಾರಪಾಶಬದ್ಧನಾಗಿ ಕೊನೆಗೆ ಬ್ರಹ್ಮಜ್ಞಾನದಿಂದ ಮುಕ್ತಿ ಹೊಂದುವನೆಂಬ ಅದ್ವೈತಿಗಳ ವಾದ
व्युत्पत्तिः - > एक एव जीव इति वादः
वाचस्पत्यम्
Sanskrit
एकजीववाद
पु०
एक एव जीव इत्येवं वादः एक चैतम्य-मेकयैवाविद्यया बद्धं संसरति तदेव ज्ञानेन कदाचिन्मुच्यतेनास्मदादीनां वन्धमोक्षौ स्त इत्येवं रूपे विदान्त्ये-कदेशिवादभेदे उक्तौ चैकानेकजीववादौः वेदा० प० यथा“एकजीववादेऽविद्याप्रतिविम्बो जीवः अनेकजीववादे तुअन्त करणप्रतिविम्बः जाग्रत्स्वप्नसुषुप्तिरूपावस्था-त्रयवान् तत्र जाग्रद्दशा नाम इन्द्रियजन्यज्ञानावस्था-अवस्थान्तरे इन्द्रियाभावान्नातिव्याप्तिः इन्द्रियजन्य-ज्ञानञ्चान्तःकरणवृत्तिः स्वरूपज्ञानस्यानादित्वात् सा-चान्तःकरणवृत्तिरावरणाभिभवार्थेत्येकं मतम् तथाहिअविद्योपहितचैतन्यस्य जीवत्वपक्षे घटाद्यधिष्ठानचैतन्यस्यजीवरूपतया जीवस्य सर्व्वदा घटादिभान प्रसक्तौ घटा-द्यवच्छिन्नचैतन्यावरकमज्ञानं मूलाविद्यापरतन्त्रमवस्थाप-दवाच्यमभ्युपगन्तव्यम् एव सति सर्व्वदा घटादे-र्भानप्रसङ्गः अनावृतचैतन्यसम्बन्धस्यैव भानप्रयोजकत्वात् ।तस्य चावरणस्य सदातनत्वे कदाचिदपि घटभानं नस्यादिति तद्भङ्गे वक्तव्ये तद्भङ्गजनकं चैतन्यमात्रं, त-द्भासकस्य तदनिवर्त्तकत्वात् पि वृत्त्युपहितं चैतन्यंपरोक्षस्थलेऽपि तन्निवृत्त्यापत्तेरिति परोक्षव्यावृत्तवृत्ति-विशेषस्य आवरणभञ्जकचमित्यावरणाभिभवार्था वृत्ति-रुच्यते सम्बन्धार्था वृत्तिरित्यपरं मतम् तत्रा-विद्योपाधिकोजीवोऽपरिच्छिन्नः घटादिप्रदेशे वि-द्यमानोऽपि घटाद्याकारापरोक्षवृत्तिविरहदशायां नघटादिकमवभासयति घटादिना समं सम्बन्धाभावात् त-त्तदाकारवृत्तिदशायां तु भासयति तदा सम्बन्धसत्त्वात् ।ननु अविद्योपाधिकस्य जीवस्यापरिच्छिन्नस्य स्वतएव स-मस्तबस्तुसम्बद्धस्य वृत्तिविरहदशायां सम्बन्धाभावाभि-धानमसङ्गतं असङ्गतत्वदृष्ट्या सम्बन्धाभावाभिधाने चवृत्त्यनन्तरमपि सम्बन्धोन स्यादिति चेत् उच्यतेन हि वृत्तिविरहदशायां जीवस्य घटादिना सह सम्बन्ध-सामान्यं निषेधामः किन्तर्हि घटादिभानप्रयोजकं सम्बन्ध-विशेषम् सम्बन्धविशेषोविषयावभासकस्य जीवचै-तन्यस्य व्यङ्ग्यव्यञ्जकतालक्षणः कादाचित्कस्तत्तदाकार-वृत्तिनिबन्धन तथाहि तैजसमन्तःकरणं खच्छद्रव्यत्वःत्स्वतएव जीवचैतान्याभिव्यञ्जनसमर्थं घटादिकन्तु तथाअस्वच्छद्रव्यत्वात् स्वाकारवृत्तिसंयोगदशायान्तु वृत्त्य-भिभूतजाड्यधर्म्मकतया वृत्त्युत्पादितचैतन्याभिव्यञ्जन-योग्यताश्रयतया वृत्त्युदयानन्तरं चैतन्यमभिव्यनक्ति ।तष्टुक्तं विवरणे अन्तःकरणं हि स्वस्मिन्निव स्वसंसर्गि-ण्यपि घटादी चैतन्याभिव्यक्तियोग्यतामापादयतीति ।दृष्टञ्चास्वच्छद्रव्यस्यापि स्वच्छद्रव्यसम्बन्धदशायां प्रतिविम्बग्राहित्वम् घटादेरभिव्यञ्जकत्वञ्च तत्प्रतिविम्बग्राहित्वम्चैतन्यस्याभिव्यक्तत्वञ्च तत्र प्रतिविम्बितत्वम् एवंविधा-भिव्यञ्जकत्वसिद्ध्यार्थमेव वृत्तेरपरोक्षस्थले बहिर्निर्गमना-ङ्गीकारः परोक्षस्थले तु वह्न्यादेर्वृत्तिसंयीगाभावेन चै-तन्यानभिव्यञ्जकतया नापरोक्षत्वम् एतन्मते विषया-णामपरोक्षत्वं चैतन्याभिव्यञ्जकत्वमिति द्रष्टव्यम्” ।“एकानेकजीववादौ सिद्धान्तलेशे दर्शितौ यथा “अथविद्योदये सत्युपाधिविलयादपेतजीवभावस्य किमीश्वरभावा-पत्तिरुत शुद्धचैतन्यमात्ररूपेणावस्थानमिति विवेचनीयम् ।उच्यते एकजीववादे तदेकाज्ञानकल्पितस्य जी-वेश्वरविभागादिकृत्स्नभेदप्रपञ्चस्य तद्विद्योदवे विलयान्नि-र्विशेषचैतन्यरूपेणैवावस्थानम् अनेकजीववादमभ्युपगम्यषद्धमुक्तव्यवस्थाङ्गीकारे यद्यपि कस्यचिद्विद्योदये तद-विद्याकृतप्रपञ्चविलयेऽपि बद्धपुरुषान्तराविद्याकृतोजीवे-श्वरविभागादिप्रपञ्चोऽनुवर्त्तते तथापि जीववदीश्वरोऽपिप्रतिबिम्बविशेष इति पक्षे मुक्तस्य विम्बभूतशुद्धचैतन्यरूपेणै-षावस्थानम् अनेकोपाधिष्वेकस्य प्रतिबिम्बे सत्येकोपाधि-विलयेन तत्प्रतिबिम्बस्य विम्बभावेनैवावस्थानौचित्येन प्र-तिविम्बान्तरत्वापत्त्यसम्भवात् तत्सम्भवे कदाचिज्ज्वीवरूप-बिग्वान्तरत्वाषत्तेरपि दुर्वारत्वेनावच्छेदपक्ष इव मुक्तस्यपुनर्बन्धापत्तेः अतएवानेकजीववादेऽवच्छेदपक्षोनाद्रि-यते तदवच्छेदेनान्तःकरणान्तरसंसर्गे पुनरपि बन्धापत्तेःप्रतिबिम्बो जीवः बिम्बस्थानीय ईश्वर उभयानुस्यूतं शुद्धचैत-न्यमिति पक्षे तु मुकस्य यावत्सर्वमुक्ति सर्वज्ञत्वस-र्वकर्त्तृत्वसर्वेश्वरत्वसत्यकामत्वादिगुणकपरमेश्वरभावापत्तिरि-ष्यते यथानेकेषु दर्पणेषु एकस्य मुखस्य प्रतिबिम्बेसत्येकदर्पणापनये तत्प्रतिबिम्बोबिम्बभावेनावातिष्ठते ।न तु मुखमात्ररूपेण, तदानीमपि दर्पणान्तर-सन्निधानप्रयुक्तस्य मुखे विम्बत्वस्यानपायात् तथैकस्यब्रह्मचैतन्यस्यानेकेषूपाधिषु प्रतिबिम्बे सत्येकस्मिन् प्रतिबि-म्बे विद्योदयेन तदुपाधिविलये तत्प्रतिविम्बस्य बिम्बभावे-नावस्थानावश्यम्भावात् मुक्तस्याविद्याऽभावात् सत्य-कामत्वादिगुणविशिष्टसर्वेश्वरत्वानुपपत्तिः तदविद्याभावेऽपितदानीं बद्धपुरुषान्तरऽविद्यासत्त्वात् हीश्वरस्येश्वरत्वंसत्यकामादिगुणविशिष्टत्वञ्च स्वाविद्याकृतं तस्य निरञ्जन-त्वात् किन्तु बद्धपुरुषाविद्याकृतमेव तत्सर्वमनवद्यम्”