एकजीववाद (ekajIvavAda)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiएकजीववादः
एकः-जीववादः -
केवल जीवात्मा का सिद्धान्त
Shabdartha Kaustubha
Kannadaएकजीववाद
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಒಬ್ಬನೇ ಜೀವನು ಅವಿದ್ಯೆಯಿಂದ ಸಂಸಾರಪಾಶಬದ್ಧನಾಗಿ ಕೊನೆಗೆ ಬ್ರಹ್ಮಜ್ಞಾನದಿಂದ ಮುಕ್ತಿ ಹೊಂದುವನೆಂಬ ಅದ್ವೈತಿಗಳ ವಾದ
व्युत्पत्तिः - > एक एव जीव इति वादः
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
वाचस्पत्यम्
Sanskritएकजीववाद एक एव जीव इत्येवं वादः । एक चैतम्य-मेकयैवाविद्यया बद्धं संसरति तदेव ज्ञानेन कदाचिन्मुच्यतेनास्मदादीनां वन्धमोक्षौ स्त इत्येवं रूपे विदान्त्ये-कदेशिवादभेदे । उक्तौ चैकानेकजीववादौः वेदा० प० यथा“एकजीववादेऽविद्याप्रतिविम्बो जीवः अनेकजीववादे तुअन्त करणप्रतिविम्बः स च जाग्रत्स्वप्नसुषुप्तिरूपावस्था-त्रयवान् । तत्र जाग्रद्दशा नाम इन्द्रियजन्यज्ञानावस्था-अवस्थान्तरे इन्द्रियाभावान्नातिव्याप्तिः । इन्द्रियजन्य-ज्ञानञ्चान्तःकरणवृत्तिः स्वरूपज्ञानस्यानादित्वात् । सा-चान्तःकरणवृत्तिरावरणाभिभवार्थेत्येकं मतम् । तथाहिअविद्योपहितचैतन्यस्य जीवत्वपक्षे घटाद्यधिष्ठानचैतन्यस्यजीवरूपतया जीवस्य सर्व्वदा घटादिभान प्रसक्तौ घटा-द्यवच्छिन्नचैतन्यावरकमज्ञानं मूलाविद्यापरतन्त्रमवस्थाप-दवाच्यमभ्युपगन्तव्यम् । एव सति न सर्व्वदा घटादे-र्भानप्रसङ्गः अनावृतचैतन्यसम्बन्धस्यैव भानप्रयोजकत्वात् ।तस्य चावरणस्य सदातनत्वे कदाचिदपि घटभानं नस्यादिति तद्भङ्गे वक्तव्ये तद्भङ्गजनकं न चैतन्यमात्रं, त-द्भासकस्य तदनिवर्त्तकत्वात् न पि वृत्त्युपहितं चैतन्यंपरोक्षस्थलेऽपि तन्निवृत्त्यापत्तेरिति परोक्षव्यावृत्तवृत्ति-विशेषस्य आवरणभञ्जकचमित्यावरणाभिभवार्था वृत्ति-रुच्यते । सम्बन्धार्था वृत्तिरित्यपरं मतम् । तत्रा-विद्योपाधिकोजीवोऽपरिच्छिन्नः स च घटादिप्रदेशे वि-द्यमानोऽपि घटाद्याकारापरोक्षवृत्तिविरहदशायां नघटादिकमवभासयति घटादिना समं सम्बन्धाभावात् त-त्तदाकारवृत्तिदशायां तु भासयति तदा सम्बन्धसत्त्वात् ।ननु अविद्योपाधिकस्य जीवस्यापरिच्छिन्नस्य स्वतएव स-मस्तबस्तुसम्बद्धस्य वृत्तिविरहदशायां सम्बन्धाभावाभि-धानमसङ्गतं असङ्गतत्वदृष्ट्या सम्बन्धाभावाभिधाने चवृत्त्यनन्तरमपि सम्बन्धोन स्यादिति चेत् उच्यतेन हि वृत्तिविरहदशायां जीवस्य घटादिना सह सम्बन्ध-सामान्यं निषेधामः किन्तर्हि घटादिभानप्रयोजकं सम्बन्ध-विशेषम् । स च सम्बन्धविशेषोविषयावभासकस्य जीवचै-तन्यस्य च व्यङ्ग्यव्यञ्जकतालक्षणः कादाचित्कस्तत्तदाकार-वृत्तिनिबन्धन । तथाहि तैजसमन्तःकरणं खच्छद्रव्यत्वःत्स्वतएव जीवचैतान्याभिव्यञ्जनसमर्थं घटादिकन्तु न तथाअस्वच्छद्रव्यत्वात् । स्वाकारवृत्तिसंयोगदशायान्तु वृत्त्य-भिभूतजाड्यधर्म्मकतया वृत्त्युत्पादितचैतन्याभिव्यञ्जन-योग्यताश्रयतया च वृत्त्युदयानन्तरं चैतन्यमभिव्यनक्ति ।तष्टुक्तं विवरणे अन्तःकरणं हि स्वस्मिन्निव स्वसंसर्गि-ण्यपि घटादी चैतन्याभिव्यक्तियोग्यतामापादयतीति ।दृष्टञ्चास्वच्छद्रव्यस्यापि स्वच्छद्रव्यसम्बन्धदशायां प्रतिविम्बग्राहित्वम् । घटादेरभिव्यञ्जकत्वञ्च तत्प्रतिविम्बग्राहित्वम्चैतन्यस्याभिव्यक्तत्वञ्च तत्र प्रतिविम्बितत्वम् । एवंविधा-भिव्यञ्जकत्वसिद्ध्यार्थमेव वृत्तेरपरोक्षस्थले बहिर्निर्गमना-ङ्गीकारः । परोक्षस्थले तु वह्न्यादेर्वृत्तिसंयीगाभावेन चै-तन्यानभिव्यञ्जकतया नापरोक्षत्वम् । एतन्मते च विषया-णामपरोक्षत्वं चैतन्याभिव्यञ्जकत्वमिति द्रष्टव्यम्” ।“एकानेकजीववादौ सिद्धान्तलेशे दर्शितौ यथा । “अथविद्योदये सत्युपाधिविलयादपेतजीवभावस्य किमीश्वरभावा-पत्तिरुत शुद्धचैतन्यमात्ररूपेणावस्थानमिति विवेचनीयम् ।उच्यते । एकजीववादे तदेकाज्ञानकल्पितस्य जी-वेश्वरविभागादिकृत्स्नभेदप्रपञ्चस्य तद्विद्योदवे विलयान्नि-र्विशेषचैतन्यरूपेणैवावस्थानम् । अनेकजीववादमभ्युपगम्यषद्धमुक्तव्यवस्थाङ्गीकारे यद्यपि कस्यचिद्विद्योदये तद-विद्याकृतप्रपञ्चविलयेऽपि बद्धपुरुषान्तराविद्याकृतोजीवे-श्वरविभागादिप्रपञ्चोऽनुवर्त्तते तथापि जीववदीश्वरोऽपिप्रतिबिम्बविशेष इति पक्षे मुक्तस्य विम्बभूतशुद्धचैतन्यरूपेणै-षावस्थानम् अनेकोपाधिष्वेकस्य प्रतिबिम्बे सत्येकोपाधि-विलयेन तत्प्रतिबिम्बस्य विम्बभावेनैवावस्थानौचित्येन प्र-तिविम्बान्तरत्वापत्त्यसम्भवात् तत्सम्भवे कदाचिज्ज्वीवरूप-बिग्वान्तरत्वाषत्तेरपि दुर्वारत्वेनावच्छेदपक्ष इव मुक्तस्यपुनर्बन्धापत्तेः । अतएवानेकजीववादेऽवच्छेदपक्षोनाद्रि-यते तदवच्छेदेनान्तःकरणान्तरसंसर्गे पुनरपि बन्धापत्तेःप्रतिबिम्बो जीवः बिम्बस्थानीय ईश्वर उभयानुस्यूतं शुद्धचैत-न्यमिति पक्षे तु मुकस्य यावत्सर्वमुक्ति सर्वज्ञत्वस-र्वकर्त्तृत्वसर्वेश्वरत्वसत्यकामत्वादिगुणकपरमेश्वरभावापत्तिरि-ष्यते यथानेकेषु दर्पणेषु एकस्य मुखस्य प्रतिबिम्बेसत्येकदर्पणापनये तत्प्रतिबिम्बोबिम्बभावेनावातिष्ठते ।न तु मुखमात्ररूपेण, तदानीमपि दर्पणान्तर-सन्निधानप्रयुक्तस्य मुखे विम्बत्वस्यानपायात् तथैकस्यब्रह्मचैतन्यस्यानेकेषूपाधिषु प्रतिबिम्बे सत्येकस्मिन् प्रतिबि-म्बे विद्योदयेन तदुपाधिविलये तत्प्रतिविम्बस्य बिम्बभावे-नावस्थानावश्यम्भावात् । न च मुक्तस्याविद्याऽभावात् सत्य-कामत्वादिगुणविशिष्टसर्वेश्वरत्वानुपपत्तिः तदविद्याभावेऽपितदानीं बद्धपुरुषान्तरऽविद्यासत्त्वात् न हीश्वरस्येश्वरत्वंसत्यकामादिगुणविशिष्टत्वञ्च स्वाविद्याकृतं तस्य निरञ्जन-त्वात् किन्तु बद्धपुरुषाविद्याकृतमेव तत्सर्वमनवद्यम्” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
